4-1-6 उगितः च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप्
उगिदन्तात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति ।
प्रातिपदिकानि which end with इत्संज्ञक उक् letter get the ङीप्-प्रत्यय to indicate the feminine property.
उग् इद् यत्र संभवति यथाकथंचित् तदुगिच्छब्दरूपम्, तदन्तात् स्त्रियां ङीप् प्रत्ययो भवति। भवती। अतिभवती। पचन्ती। यजन्ती॥ धातोरुगितः प्रतिषेधो वक्त व्यः॥ उखास्रत्। पर्णध्वत् ब्राह्मणी॥ अञ्चतेश्चोपसंख्यानम्॥ प्राची। प्रतीची। उदीची॥
उगिदन्तात्प्रातिपदिकात् स्त्रियां ङीप् स्यात् । पचन्ती । भवन्ती । दीव्यन्ती । शप्श्यनोः <{SK446}> इति नुम् । उगिदचाम् <{SK361}> इति सूत्रेऽज्ग्रहणेन धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेव इति नियम्यते । तेनेह न । उखास्रत् । क्विप् । अनिदिताम् <{SK415}> इति नलोपः । पर्णध्वत् । अञ्चतेस्तु स्यादेव । प्राची । प्रतीची ॥
उगिदन्तात्प्रातिपदिकात्स्त्रियां ङीप्स्यात्। भवती। भवन्ती। पचन्ती। दीव्यन्ती॥
<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यस्य प्रातिपदिकस्य अन्ते उक्-प्रत्याहारस्य वर्णः विद्यते, तस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति ।
<<उगितश्च>> - उगितश्च । उक् प्रत्याहारः । उक् इद्यस्य स उगित् ।॒उगित॑ इति पञ्चम्यन्तम्, ते प्रातिपदिकादित्येतद्विशेष्यते, तदन्तविधिः ।उगिद्वर्णग्रहणवर्ज॑मित्युक्तेः 'समासप्रत्ययविधौ' इति प्रतिषेधो न । पूर्वसूत्रान्ङीबित्यनुवर्तते । तदाह-उगिदन्तादिति । उगिद्द्विविधं, प्रातिपदिकं प्रत्ययश्च । तत्र प्रातिपदिकमुदाहरति — भवतीति । सर्वादिगणे 'भवतु' इत्यव्युत्पन्नं प्रातिपदिकं पठितं, तस्य व्यपदेशिवत्त्वे उगदन्तत्वान्ङीप् । ङपावितौ ।आच्छीनद्योर्नुम्॒शप्श्यनोर्नित्य॑मिति नुम्न, शत्रन्तत्वाऽभावात् ।उगिदचा॑मित्यपि न सर्वनामस्थानत्वाऽभावात् । अथ द्वितीयमुगितमुदाहरति-पचन्तीति । पचेर्लटः शतरि शषि पररूपे पचच्छब्दः । तत्र शतृप्रत्यय उगित्, तदन्तं पचदिति प्रातिपदिकमिति तस्मान्ङीपिशप्श्यनोर्नि॑मिति नुमिति भावः । यदि तु सर्वादिगणे पठितं भवतु इत्येतत्भातेर्डवतुः॑इति व्युत्पाद्यते, तदा उगित्प्रत्ययान्तस्यैवोदाहरणं बोध्यम् । भूधातोः शतरि शपि ऊकारस्य गुणेऽवादेशे भवच्छब्दान्ङीपि तु,शप्श्यनोर्नित्य॑मिति नुमि भवन्तीति रूपम् । नच भवच्छब्दस्याऽप्युत्पन्नत्वे तस्य कथं व्यपदेशिवत्त्वेनोगिदन्तत्वं,व्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति वचनादिति वाच्यं, प्रातिपदिकस्य तत्तत्स्वरूपेण ग्रहण एव तत्प्रवृत्तेः । 'उगिदचामिति सूत्र' इत्यादिग्रन्थो हलन्ताधिकारे गोमच्छब्दनिरूपणे व्याख्यातः । तेनेति । अञ्चुव्यतिरिक्तधातोरुगित्कार्याऽभावलाभेनेत्यर्थः । उखेति । उखा=कुण्डी । उखायाः रुआंसते, पर्णाद्ध्वंसतेइति विग्रहः ।पिठरं स्थाल्युखा कुण्ड॑मित्यमरः ।रुआंसु ध्वंसु अवरुआंसने॑ । सुपीत्यनुवृत्तौक्विप्चे॑ति क्विप्, उपपदसमासः, सुब्लुक्,अनिदिता॑मिति न लोपः, हल्ङ्यादिना सोर्लोपः,वसुरुआंसु॑इति दत्वमिति भावः । स्यादेवेति ।ङी॑बिति शेषः । प्राचीति । प्रपूर्वादञ्चतेः 'ऋत्विक' इत्यादिना क्विन्,अनिदिता॑मिति नलोपः । उगित्त्वान्ङीप्,अचः॑इत्यकारलोपेचौ॑इति दीर्घः ।
यथाकथञ्चिदिति । यदि वर्ण उगित् संभवति, यदि वा प्रत्ययः, अथापि प्रातिपदिकम् - सर्वथा यत्रैषामन्यतमः प्रकारः संभवतीत्येष यथाकथञ्चिदित्यस्यार्थः । एतदेव स्पष्टयति - तदुगिच्छब्दरूपमिति । प्रत्ययाप्रत्ययोः प्रातिपदिकाप्रातिपदिकयोः शब्दरूपमन्यपदार्थः, न प्रातिपदिकमेव, नापि प्रत्यय एवेत्यर्थः । तत्रोगिता प्रातिपदिकस्य विशेषणतदन्तविधिर्भवतीत्याह - तदन्तादिति । पचन्तीति । अत्र शतृप्रत्यय उगित् तदन्तं प्रातिपदिकम् - अतिभवती अतिमहतीत्यत्रापि भवति ।'ग्रहणवता प्रातिपदिकेन' इत्ययं तु प्रतिषेधो यत्र सूत्रोपातं प्रातिपदिकस्यासाधारणं रूपं तत्रैव भवतीत्यत्रापि व्यपदेशिवद्भावेन भवति ।'व्यपदेशिवद्भावो' प्रातिपदिकेनऽ इत्ययं तु निषेधः प्रातिपदिकस्यैवा साधारणरूपग्रहणे अतिगोमतीत्यत्रापि भवति । प्रत्ययग्रहणपरिभाषा तु प्रत्ययस्यैवासाधारणरूपग्रहणे भवति । घातोस्तूगितः प्रतिषेध इति । वक्तव्य इति शेषः । स तर्हि वक्तव्यः ? न वक्तव्यः, ठुगिदचाम्ऽ इत्यत्रोगित्वादेव सिद्धेऽञ्चतिग्रहणं नियमार्थम् - इह शास्त्रे उगितो यत्कार्यं विधीयते तद्धातोर्यदि भवति अञ्चतेरेवेति कार्यमात्रं नियम्यते, न नुमागम एव । अधातुग्रहणं चाधातुपूर्वस्यापि नुमर्थमिति तत्रैव वक्ष्यते । अपर आह - ठुगितश्चऽ इति योऽयं चशब्दः सोऽञ्चतेर्लुप्तनकारस्याकरणम्, विभक्तेश्च'सुपां सुलुक्' इति लुक्, भाविनं चाकारलोपमाश्रित्य चेति निर्देशः कृतः, ततश्चाञ्चतिग्रहणं नियमार्थम् - 'अकारनकारलोपयोश्चातन्त्रत्वात्'नाञ्चेः पूजायाम्' इति लोपनिषेधविषयेऽपि ङीब् भवति, प्राञ्ची प्रत्यञ्ची ब्राह्मणी' इति । उखास्रत्, पर्णध्वदिति ।'क्विप् च' इत्यत्रानयोर्व्युत्पत्तिः कृता ॥