7-1-98 चतुरनडुहोः आम् उदात्तः सर्वनामस्थाने
चतुर्-अनडुहोः अङ्गस्य सर्वनामस्थाने आमुदात्तः
चतुर्-शब्दस्य, अनडुह्-शब्दस्य च सर्वनामस्थाने परे उदात्तः आम्-आगमः भवति ।
The words चतुर् and अनडुह् get an उदात्तः आम्-आगम when followed by a सर्वनामस्थान.
चतुर् अनडुह् इत्येतयोः सर्वनामस्थाने परत आमागमो भवति, स चोदात्तः। चत्वारः। अनड्वान्, अनड्वाहौ, अनड्वाहः। अनड्वाहम्। तदन्तविधिरत्रेष्यते। प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः। प्रियानड्वान्, प्रियानड्वाहौ, प्रियानड्वाहः॥ अनडुहः स्त्रियां वेति वक्तव्यम्॥ अनडुही, अनड्वाही। गौरादिपाठात् सिद्धम्॥
अनयोराम् स्यात्सर्वनामस्थाने स चोदात्तः ॥
अनयोराम् स्यात्सर्वनामस्थाने परे॥
'चतुर्' इति रेफान्तशब्दः । 'अनडुह्' इति हकारान्तशब्दः । एतयोः विषये सर्वनामस्थानसंज्ञकप्रत्यये परे 'आम्' आगमः भवति, स च उदात्तसंज्ञकः भवति । मित्वात् अयमागमः <<मिदचोऽन्त्यात्परः>> 1.1.47 इत्यनेन अन्त्यात् अचः परः आगच्छति । उदाहरणानि एतानि - 1) चतुर्-शब्दः नित्यबहुवचनान्तः अस्ति, अतः अस्य शब्दस्य केवलं 'जस्' इति सर्वनामस्थानसंज्ञकः प्रत्ययः भवति - चतुर् + जस् → चतु आम् र् + अस् [<<चतुरनडुहोरामुदात्तः>> 7.1.98 इति आम्-आगमः] → चतु आ र् + अस् [मकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति तस्य लोपः] → चत्वारस् [<<इको यणचि>> 6.1.77 इति यणादेशः] → चत्वारः [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गनिर्माणम् ।] 2) चतुर्-शब्दः यदि समस्तपदस्य अन्ते आगच्छति, तर्हि तस्य समस्तपदस्य अपि अयमागमः विधीयते । एतादृशस्य समस्तपदस्य रूपाणि तु सर्वासु विभक्तिषु दृश्यन्ते । यथा - 'प्रियाः चत्वारः यस्य सः' अस्मिन् अर्थे 'प्रियचतुर्' शब्दः सिद्ध्यति । अस्य प्रथमैकवचनस्य प्रक्रियायाम् - प्रियचतुर् + सुँ → प्रियचतु आम् र् + स् [<<चतुरनडुहोरामुदात्तः>> 7.1.98 इति आम्-आगमः] → प्रियचत्वार् स् [<<इको यणचि>> 6.1.77 इति यणादेशः] → प्रियचत्वार् [<<रात्सस्य>> 8.2.24 इति रेफात् परस्य सकारस्य लोपः] → प्रियचत्वाः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] 3) प्रियचतुर् + औ / औट् → प्रियचतु आम् र् + औ / औट् [<<चतुरनडुहोरामुदात्तः>> 7.1.98 इति आम्-आगमः] → प्रियचत्वारौ [ [<<इको यणचि>> 6.1.77 इति यणादेशः] एवमेव प्रियचत्वारः, प्रियचत्वारम् - एते रूपे अपि सिद्ध्यतः । 4) अनडुह् (= वृषभः) अस्य शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे इयम् प्रक्रिया जायते - अनडुह् + सुँ → अनडु आम् ह् स् [<<चतुरनडुहोरामुदात्तः>> 7.1.98 इति आम्-आगमः] → अनडु आ न् ह् स् [<<सावनडुहः>> 7.1.82 इति नुम्-आगमः] → अनड्वान् ह् स् [<<इको यणचि>> 6.1.77 इत्यनेन यणादेशः] → → अनड्वान् ह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः] → अनड्वान् [<<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन हकारस्य लोपः] 3) अनडुह् शब्दस्य सम्बोधनैकवचनस्य प्रक्रियायामस्य सूत्रस्य प्रसक्तिः नास्ति, यतः <<अम् सम्बुद्धौ>> 7.1.99 इत्यनेन अपवादत्वेन अम्-आगमः विधीयते - अनडुह् + सुँ [सम्बुद्धिः] → अनडु अम् ह् + स् [<<चतुरनडुहोरामुदात्तः>> 7.1.98 इति आम्-आगमे प्राप्ते अपवादत्वेन <<अम् सम्बुद्धौ>> 7.1.99 इत्यनेन अनडुह्-शब्दस्य अम्-आगमः ।] → अनडु अ नुम् ह् + स् [<<सावनडुहः>> 7.1.82 इत्यनेन नुम्-आगमः] → अनड्वान् ह् स् [<<इको यणचि>> 6.1.77 इत्यनेन यणादेशः] → अनड्वान् ह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः] → अनड्वन् [<<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन हकारस्य लोपः] 4) अनडुह् + औ / औट् [प्रथमा/द्वितीया-द्विवचनम्] → अनडु आम् ह् + औ / औट् [<<चतुरनडुहोरामुदात्तः>> 7.1.98 इति आम्-आगमः] → अनड्वाहौ [<<इको यणचि>> 6.1.77 इत्यनेन यणादेशः] एवमेव अनडुह्-शब्दस्य जस्-प्रत्यये परे 'अनड्वाहः' तथा अम्-प्रत्यये परे 'अनड्वाहम्' एते रूपे सिद्ध्यतः । ज्ञातव्यम् - <<आगमाः अनुदात्ताः भवन्ति>> इयम् काचन परिभाषा अस्ति । अनया परिभाषया सर्वे आगमाः अनुदात्ताः विधीयन्ते । परन्तु अस्मिन् सूत्रे 'उदात्तः' इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अयमागमः उदात्तः एव ज्ञातव्यः ।
<<चतुरनडुहोरामुदात्तः>> - अनडुह् स् इति स्थिते । चतुरनडुहोः । अनयोरिति । चतुरनडुहोरित्यर्थः । सर्वनामस्थान इति ।इतोऽत्सर्वनामस्थाने॑ इत्यतः स् इति स्थिते- ।
अत्र सर्वनामस्थाने इति स्वर्यते, न तृतीयादिष्विति । आगमानुदातत्यवबाधनार्थमुदातवचनम् । तदान्तविधिरत्रेष्यत थैति । अङ्घाधिकारे तस्य च तदुतरपदस्य चेति वचनात् । प्रयचत्वा इति । बहुव्रीहौ सर्वनामसंख्ययोरुपसंख्यानमिति चतुरशब्दस्य पूर्वनिपाते प्राप्ते वा प्रियस्य इति प्रियशब्दस्य पूर्वनिपातः ॥