विरामोऽवसानम्
1-4-110 विरामः अवसानम् आ कडारात् एका सञ्ज्ञा
Sampurna sutra
Up
विरामः अवसानम्
Neelesh Sanskrit Brief
Up
वर्णानाम् अभाव: अवसानसंज्ञकः भवति ।
Neelesh English Brief
Up
Absence of letters is called अवसान.
Kashika
Up
विरतिर्विरामः। विरम्यतेऽनेनेति वा विरामः। सोऽवसानसंज्ञो भवति। दधिँ। मधुँ। वृक्षः। प्लक्षः। अवसानप्रदेशाः — <<खरवसानयोर्विसर्जनीयः>> ८.३.१५ इत्येवमादयः॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य चतुर्थः पादः॥
Siddhanta Kaumudi
Up
वर्णानामभावोऽवसानसंज्ञः स्यात् ॥
Laghu Siddhanta Kaumudi
Up
वर्णानामभावोऽवसानसंज्ञः स्यात्। रुत्वविसर्गौ। रामः॥
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति अवसानम् इति संज्ञा, या प्रकृतसूत्रेण पाठिता अस्ति । अर्धमात्रायाः अपेक्षया अधिकम् कालम् यावत् उच्चारणस्य अभावः इतिअवसानम् इति संज्ञया निर्दिश्यते - इति अस्य सूत्रस्य आशयः । यथा, फलम् इत्यत्र मकारात् अनन्तरम् कोऽपि वर्णः न विद्यते, अतः मकारात् अनन्तरम् अवसानम् अस्ति इति उच्यते । एवमेव, फलम् पतति इत्यत्र फलम् इति उक्त्वा ततः अर्धमात्रातः अधिकं विरामं स्वीकृत्य ततः पतति इति उच्चार्यते चेत् अत्रापि मकारात् अनन्तरम् अवसानम् अस्ति इति उच्यते
अवसानसंज्ञायाः प्रयोजनम्
अष्टाध्याय्याम्
अवसानसंज्ञायाः आहत्य त्रीणि प्रयोजनानि वर्तन्ते —
1) विसर्गनिर्माणम् — <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इत्यनेन सूत्रेण पदान्तरेफस्य अवसाने परे विसर्गादेशः भवति । यथा, राम-शब्दस्य प्रथमैकवचनस्य रूपसिद्धौ —
राम + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ राम + स् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः। अग्रे <<सुप्तिङन्तम् पदम्>> 1.4.14 इत्यनेन 'राम+स्' इत्यस्य पदसंज्ञा भवति ।]
→ राम + रुँ [<<ससजुषो रुँ>> 8.2.66 इति रुँत्वम् ]
→ रामः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति अवसाने परे रेफस्य विसर्गः]
2) वैकल्पिकं चर्त्वम् — <<वाऽवसाने>> 8.4.56 इत्यनेन सूत्रेण पदान्ते विद्यमानस्य जश्-वर्णस्य अवसाने परे विकल्पेन चर्त्वं भवति ।यथा, राम-शब्दस्य पञ्चम्येकवचनस्य रूपसिद्धौ —
राम + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]
→ राम + आत् [<<टाङसिङसामिनात्स्याः>> 7.1.12 इति आत्-आदेशः]
--> रामात् [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः]
--> रामाद् [<<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वम्]
--> रामाद्, रामात् [<<वाऽवसाने>> 8.4.56 इति विकल्पेन चर्त्वम् ।]
3) वैकल्पिकः अनुनासिकादेशः — <<अणोऽप्रगृह्यस्यानुनासिकः>> 8.4.57 इत्यनेन प्रगृह्यभिन्नशब्दानाम् अन्ते विद्यमानः अण्-वर्णः अवसाने परे विकल्पेन अनुनासिकत्वं प्राप्नोति । यथा, दधि शब्दस्य प्रथमैकवचनम् दधि इत्यत्र धकारोत्तरः इकारः अवसाने परे अनेन सूत्रेण विकल्पेन अनुनासिकः भवति, येन दधि तथा च दधिँ एते द्वे रूपे भवतः ।
संहिता तथा अवसानम्
संहिता तथा
विरामः एतौ
विरुद्धार्थकशब्दौ । यत्र द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्रायाः एव व्यवधानम् विद्यते (यतः तस्मात् न्यूनं व्यवधानम् नैव शक्यम्), तत्र
संहिता अस्ति इति उच्यते । यत्र द्वयोः वर्णयोः मध्ये अर्धमात्रायाः अपेक्षया अधिकं व्यवधानम् अस्ति, उत यत्र द्वितीयः वर्णः एव नास्ति, तत्र
अवसानम् अस्ति इति उच्यते ।
अस्य सूत्रस्य प्रत्याख्यानम्
<<विरामोऽवसानम्>>
1.4.110 इत्यस्मिन् सूत्रे भाष्यकारः इति किञ्चन वार्त्तिकं पाठयति ।
संहिता तथा
अवसानम् एते द्वे अपि संज्ञे वेदाध्ययनव्यवहारात् लोके प्रचलिते एव स्तः, अतः एतयोः द्वयोः अपि संज्ञयोः कृते विशिष्टसूत्रनिर्माणम् अनावश्यकम् अस्ति — इति अत्र भाष्यकारस्य आशयः वर्तते । अस्मिन् एव विषये कैयटः प्रदीपे —
न अर्थः संज्ञाद्वयविधानेन, तेन विना अपि इष्टस्य सिद्धत्वात् — इति उक्त्वा इदं सूत्रद्वयं प्रत्याचष्टे ।
##Balamanorama
<<विरामोऽवसानम्>> - विरामोऽवसानम् । विरम्यते अस्मिन्निति विरामः । सामीपिकेऽधिकरणे घञ् । विरमणं-क्रियाया अभावः, स च शब्दशास्त्रप्रस्तावाद्वर्णानामुच्चारणाऽभावात्मक इति लभ्यते । तथा चयस्मिन्वर्णे उच्चारिते सति अव्यवहितात्तरकाले वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक॑ इत्यर्थः फलति । तदभिप्रेत्य व्याचष्टे — वर्णानामिति । यस्मिन्नुच्चारिते सति वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक इत्यद्याहारेण विवरणं योज्यम् । यद्वा वर्णानामुच्चारणाऽभावो विरामः । भावे घञ् । स च किञ्चिद्वर्णोच्चारणोत्तरकालिक एव गृह्रते , व्याख्यानात् । अस्मिन् पक्षेकिञ्चिद्वर्णोच्चारणोत्तरं वर्णान्तराणामुच्चारणाभावोऽवसान॑मिति विवरणयोजना । तत्र प्रथमपक्षे खरवसानयोरित्यत्र खरि परतो रेफस्य विसर्गः, अवसाने तुरेफे स्थानिनी॑ति योज्यम् । खपवसानयोरित्येकापि सप्तमी विषयभेदाद्भिद्यते । द्वितीयपक्षे तु अभावस्यापि बुद्धिकृतं परत्वं बोध्यम् ।
##Padamanjari
विरतिर्विराम इति। विराम इति भावे घञ्। विरामःउ वर्णोच्चारणाभावः। अर्थान्तरमाह - विरम्यतेऽनेनेति वा विराम इति।'कृत्यल्युटो बहुलम्' इत्यसंज्ञायामपि'हलश्च' इति करणे घञ्, पूर्वत्राभावः संज्ञी उतरत्रान्त्यो वर्णः, तेन हि विरम्यते। तत्राद्ये पक्षेठ्खरवसानयोःऽ इति परसप्तमी, कथं पुनरवसानेन, पौर्वापर्यमभावो हि सः, खरा वा, कथम्? न हि यदा खरस्ति तदा रेफः, यदा रेफस्तदा खर्; वर्णानां क्रमभावित्वाद्, उच्चरितप्रध्वंसित्वाच्च। अथ तत्र बुद्धिपरिकल्पितं पौर्वापर्यं तदभावेऽपि समानम्। एवं'वावसाने' इत्यत्रापि। द्वितीये तु पक्षे खरवसानयोरित्येकापि सप्तमी विषयभेदाद्भद्यते - खरि परतो रेफस्य विसर्जनीयो भवति, अवसाने च रेफे स्थानिनि विसर्जनीय इति स्थन्यादेशस्य विषयता विवक्ष्यते। एवं'वा' वसानेऽ इत्यत्रापि। दधिं मधुÄ इति । ठणोऽप्रगृह्यस्यानुनासिकःऽ अत्र'वावसाने' इति वर्तते। ननु च लोकएवावसानशब्दो विरामे प्रसिद्धः, यद्यप्यवपूर्वः स्यतिरवगतौ वर्तते केनैतदवसीयत इति? पराभवेऽपि अवसितो देवदत इति। अवसानशब्दस्तु विराम एव प्रसिद्धः। न च रेफस्यावगतिपराभवयोः करणत्वं सम्भवतीति नार्थः संज्ञाकरणेन, तदाह - संहितावसानयोर्लोकविदितत्वात् सिद्धमिति। संहिताशब्दोऽपि सन्निकर्षमात्रे प्रसिद्धः, न पदयोरेव सन्निकर्ष इति वार्तिककारो मन्यते॥ हरदतमिश्रविरचितायां पदमञ्जर्यो प्रथमाध्यायस्य चतुथः पादः॥