8-3-7 नः छवि अप्रशान् पदस्य पूर्वत्र असिद्धम् संहितायाम् रु अम्परे
अम्परे छवि पदस्य नः रुँ, अप्रशान्
'प्रशान्' इति शब्दं वर्जयित्वा, अन्यत्र पदान्तनकारात् परः संहितायाम् छव्-वर्णः, तस्मात् परः च अम्-वर्णः विद्यते चेत् नकारस्य रुँ आदेशः भवति ।
In the context of संहिता, when a पदान्त नकार is followed by a letter from छव् प्रत्याहार, which in turn is followed by a letter from अम् प्रत्याहार, then the नकार is converted to रुँ. But this conversion does not happen for the word 'प्रशान्'.
अम्पर इति वर्तते। नकारान्तस्य पदस्य प्रशान्वर्जितस्य रुर्भवत्यम्परे छवि परतः। भवाँश्छादयति, भवांश्छादयति। भवाँश्चिनोति, भवांश्चिनोति। भवाँष्टीकते, भवांष्टीकते। भवाँस्तरति, भवांस्तरति। छवीति किम्? भवान् करोति। अप्रशानिति किम्? प्रशान् छादयति। प्रशान् चिनोति। अम्पर इत्येव — भवान् त्सरुकः॥
अम्परे छवि नकारान्तस्य पदस्य रुः स्यान्न तु प्रशान्शब्दस्य । विसर्गः । सत्वम् । श्चुत्वम् । शार्ङ्गिँश्छिन्धि । शार्ङ्गिंश्छिन्धि । चक्रिँस्त्रायस्व । चक्रिंस्त्रायस्व । पदस्य किम् । हन्ति । अम्परे किम् । सन्त्सरुः खड्गमुष्टिः । अप्रशान् किम् । प्रशान्तनोति ॥
अम्परे छवि नान्तस्य पदस्य रुः ; न तु प्रशान्शब्दस्य॥
सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> 8.3.1 इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् सप्तमम् सूत्रम् । पदान्तनकारात् अनन्तरम् संहितायाम् छव्-वर्णः, तस्मात् च अनन्तरम् संहितायाम् अम्-वर्णः वर्तते चेत् नकारस्य अनेन सूत्रेण रुँ आदेशः भवति (परन्तु प्रशान्-शब्दस्य विषये न भवति) इति अस्य सूत्रस्य आशयः ।
1) राजन् + चिनुहि → राजँश्चिनु, राजंश्चिनु । अत्र प्रक्रियायाम् सकारस्य <<स्तोः श्चुना श्चुः>> 8.4.40 इति श्चुत्वे शकारः भवति ।
2) शार्ङ्गिन् + छिन्धि → शार्ङ्गिँश्छिन्धि, शार्ङ्गिंश्छिन्धि । अत्र प्रक्रियायाम् सकारस्य <<स्तोः श्चुना श्चुः>> 8.4.40 इति श्चुत्वे शकारः भवति ।
3) काव्यान् + टङ्कयति = काव्याँष्टङ्कयति, काव्यांष्टङ्कयति । अत्र प्रक्रियायाम् सकारस्य <<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वे षकारः भवति ।
4) गतवान् + ठक्कुरः = गतवाँष्ठक्कुरः, गतवांष्ठक्कुरः । अत्र प्रक्रियायाम् सकारस्य <<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वे षकारः भवति ।
5) विद्वान् + तत्र → विद्वाँस्तत्र, विद्वांस्तत्र ।
6) चक्रिन् + त्रायस्व → चक्रिँस्त्रायस्व, चक्रिंस्त्रायस्व ।
7) दोषान् + त्यक्त्वा → दोषाँस्त्यक्त्वा, दोषांस्त्यक्त्वा ।
8) भवान् + थूत्करोति → भवांस्थूत्करोति, भवाँस्थूत्करोति ।
<<नश्छव्यप्रशान्>> - नश्छव्यप्रशान् । 'न' इति षष्ठन्तं पदस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिः । 'अम्परे' इत्यनुवर्तते, 'रु' इति च । तदाह-अम्पर इत्यादिना ।अप्रशा॑निति षष्ठर्थे प्रथमा । तदाह-न त्विति । विसर्ग इति । 'शाङ्ग-छिन्धि'चक्रिन्-त्रायस्वे॑ति स्थिते नकारस्यानेन रुत्वम् । अनुनासिकानुस्वारविकल्पः । ततो विसर्गः, सत्वं, सस्य श्चुत्वेन शकार इत्यर्थः । शार्ङिंश्छिन्धीति । अनुनासिकपक्षे रूपम् । शार्ङिंश्चिन्धीति । अनुस्वारपक्षे रूपम् ।चक्रिंस्त्रायस्वे॑त्यनुनासिकपक्षे । अनुस्वारपक्षे तुचकिंरस्त्रायस्वे॑ति । त्रैङ् पालने । ङित्त्वादात्मनेपदी ।त्राही॑ति प्राचीनग्रन्थस्तु प्रामादिकः । त्रायत इति त्राः, त्रा इवाचरती त्रातीत्याचारक्विबन्ताल्लोट् परस्मैपदमिति वा कथञ्चत्समाधेयम् । प्रशानिति । प्रपूर्वाच्छाभ्यतेः क्विप् ।अनुनासिकस्य क्वी॑ति दीर्घः ।मो नो धातो॑रिति मस्य नः । तस्यासिद्धत्वान्नलोपो न ।
प्रशान्वर्जितस्येति । सूत्रे तु ठप्रशान्ऽ इति षष्ठ।ल्र्थे प्रथमा । टीकतिर्गत्यर्थोऽनुदातेत् । त्सरुः उ खङ्गग्रहणप्रदेशः, तत्र कुशलः त्सरुकः, आकर्षादिभ्यः कन् ॥