3-2-186 कर्तरि च ऋषिदेवतयोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने करणे इत्रः पुवः
पुव इति वर्तते। पुवः करणे कर्तरि चेत्रप्रत्ययो भवति। ऋषिदेवतयोर्यथासंख्यं संबन्धः। ऋषौ करणे, देवतायां कर्तरि। पूयतेऽनेनेति पवित्रोऽयमृषिः। देवतायाम् — अग्निःपवित्रं स मा पुनातु। वायुः सोमः सूर्य इन्द्रः पवित्रं ते मा पुनन्तु (निरु० ५.६)॥
पुव इत्रः स्यात् ऋषौ करणे देवतायां कर्तरि । ऋषिर्वेदमन्त्रः । तदुक्तमृषिणेति दर्शनात् । पूयतेऽनेनेति पवित्रम् ॥ देवतायां त्वग्निः पवित्रं स मा पुनातु ॥
<<कर्तरि चर्षिदेवतयोः>> - कर्तरि च । पवित्रमिति । पावमान्यादिसूक्तम् । अग्निः पवित्रमिति । पुनातीत्यर्थः । सामान्याभिप्रायमेकवचनं, नपुंसकत्वं च । इति पूर्वकृदन्तम्॥॥ इति बालमनोरमायाम् पूर्वकृदन्तम्॥अथ रुधादयः ।अथ श्नम्विकरणा धातवो निरूप्यन्ते ।
कर्तरि चर्षिदेवतयोः॥ ऋषौ करणे इति। ऋषिःऊवेदमन्त्रः,'तदुक्तमृषिणा' इति दर्शनादित्याहुः॥