8-3-8 उभयथा ऋक्षु पदस्य पूर्वत्र असिद्धम् संहितायाम् रु अम्परे नः छवि
अम्परे छवि नः रुँ उभयथा ऋक्षु
वैदिकप्रयोगेषु, पदान्तनकारात् परः संहितायाम् छव्-वर्णः, तस्मात् परः च अम्-वर्णः विद्यते चेत् नकारस्य विकल्पेन रुँ आदेशः भवति ।
In the context of संहिता and in the vedas, when a पदान्त नकार is followed by a letter from छव् प्रत्याहार, which in turn is followed by a letter from अम् प्रत्याहार, then the नकार is optionally converted to रुँ.
पूर्वण नित्ये प्राप्ते विकल्पः क्रियते। नकारान्तस्य पदस्य छवि परतोऽम्पर उभयथा ऋक्षु भवति, रुर्वा नकारो वा । तस्मिंस्त्वा दधाति, तस्मिन्त्वा दधाति। ऋक्ष्विति किम्? ताँस्त्वं खा॑द॒ सुखा॑दितान् (मा०सं० ११.७८)॥
अम्परे छवि नकारस्य रुर्वा । पशून्तांश्चक्रे (प॒शून्तांश्च॑क्रे) ॥
सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> 8.3.1 इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् अष्टमम् सूत्रम् । <<नश्छव्यप्रशान्>> 8.3.7 इति सूत्रेण पदान्तनकारस्य उक्तम् ऋत्वम् वैदिकप्रक्रियायाम् विकल्प्यते — इति अस्य सूत्रस्य आशयः ।
अस्मिन् सूत्रे 'उभयथा' तथा 'ऋक्षु' इति द्वे शब्दे प्रयुक्ते स्तः । अत्र 'उभयथा' इति शब्दस्य अर्थः 'विकल्पेन' इति अस्ति । रुत्वं भवति न वा भवति; उभयथा प्रयोगाः दृश्यन्ते — इति आशयः । 'ऋक्षु' इति शब्दः तु 'ऋक्' (छन्दसः पङ्क्तिः) इत्यस्य सप्तम्येकवचनम् अस्ति । वेदेषु पूर्वसूत्रेण उक्तं रुँत्वं विकल्प्यते इति अत्र आशयः ।
कानिचन उदाहरणानि एतानि —
1 आपस्तम्बीयश्रौत्रसूत्रेषु