र्वोरुपधाया दीर्घ इकः

8-2-76 र्वोः उपाधायाः दीर्घः इकः पदस्य पूर्वत्र असिद्धम् धातोः

Sampurna sutra

Up

पदस्य र्वोः धातोः उपधायाः इकः दीर्घः

Neelesh Sanskrit Brief

Up

रेफान्तस्य वकारान्तस्य धातोः पदस्य उपधाभूतस्य इक्-वर्णस्य दीर्घादेशः भवति ।

Neelesh English Brief

Up

The उपधा letter of a रेफान्त or a वकारान्त पद which also has a धातुसंज्ञा becomes दीर्घ if that letter belongs to the इक् प्रत्याहार.

Kashika

Up

रेफवकारान्तस्य धातोः पदस्योपधाया इको दीर्घो भवति। गीः। धूः। पूः। आशीः। वकारग्रहणमुत्तरार्थम्। उपधाग्रहणं किम्? अबिभर्भवान्। अभ्यासेकारस्य मा भूत्। इक इति किम्? अत्रैव प्रत्युदाहरणे भशब्दाकारस्य मा भूत्। धातोरित्येव — अग्निः। वायुः। पदस्येत्येव — गिरौ, गिरः॥

Siddhanta Kaumudi

Up

रेफवान्तस्य धातोरुपधाया इको दीर्घः स्यात्पदान्ते । पिपठीः । पिपठिषौ । पिपठिषः । पिपठीर्भ्याम् । वा शरि <{SK151}> इति वा विसर्जनीयः ॥

Laghu Siddhanta Kaumudi

Up

रेफवान्तयोर्धात्वोरुपधाया इको दीर्घः पदान्ते। पिपठीः। पिपठिषौ। पिपठीर्भ्याम्॥

Neelesh Sanskrit Detailed

Up

यस्य अन्ते रेफः वकारः वा अस्ति, यस्य च धातुसंज्ञा अपि अस्ति, तादृशस्य पदस्य उपधायाम् विद्यमानस्य इ/उ/ऋ/ऌवर्णस्य दीर्घादेशः भवति । यथा - 1) 'गॄ' (निगरणे) धातोः क्विप्-प्रत्यये कृते 'गिर्' इति रेफान्तशब्दः सिद्ध्यति । <<क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्ति>> अनेन सिद्धान्तेन गिर्-शब्दस्य धातुसंज्ञा अपि अस्ति । अस्य तृतीयाद्विवचनस्य प्रक्रिया इयम् - गिर् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इत्यनेन अङ्गस्य पदसंज्ञा भवति ।] → गीर् + भ्याम् [<<र्वोरुपधाया दीर्घ इकः>> 8.2.76 इति रेफान्तस्य धातुसंज्ञकस्य पदस्य उपधा-ईकारस्य दीर्घः] → गीर्भ्याम् 2) 'आशिस्' अयम् शब्दः आङ्-उपसर्गपूर्वक-शास्-धातोः क्विप्-प्रत्ययं कृत्वा जायते । <<क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्ति>> अनेन सिद्धान्तेन अस्य शब्दस्य धातुसंज्ञा अपि अस्ति । अस्य प्रथमैकवचनस्य प्रक्रिया इयम् जायते - आशिस् + सुँ [प्रथमैकवचनस्य प्रत्ययः] → आशिस् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः] → आशिर् [<<ससजुषोः रुँ>> 8.2.66 इति रुँत्वम्] → आशीर् [<<र्वोरुपधायाः दीर्घः इकः>> 8.2.76 इति उपधादीर्घः] → आशीः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] ज्ञातव्यम् - अस्मिन् सूत्रे यद्यपि 'वकार'ग्रहणम् कृतमस्ति, तर्हि वकारान्त-धातुसंज्ञकस्य-पदस्य विषये (यथा - दिव्, सुदिव्) अस्य सूत्रस्य प्रसक्तिः नास्ति । अतः अस्मिन् सूत्रे वस्तुतः वकारग्रहणम् न आवश्यकम् । परन्तु अग्रिमसूत्रे तस्य प्रयोजनं विद्यते अतः अत्र तस्य ग्रहणं कृतमस्ति ।

Balamanorama

Up

Padamanjari

Up

धातोः, पदस्य - इत्युभयं समानाधिकरणं रेफवकाराभ्यां विशेष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह - रेफवकारान्तस्येति । वग्रहणमुतरार्थमिति । इह तु वकारान्तस्य पदस्य धातोरसम्भवः । अभ्यासेकारस्य मा भूदिति । यदि स्यात्, तस्यासिद्धत्वाद्'ह्रस्वः' इति ह्रस्वो न स्यात् ॥