अत्रानुनासिकः पूर्वस्य तु वा

8-3-2 अत्र अनुनासिकः पूर्वस्य तु वा पदस्य पूर्वत्र असिद्धम् संहितायाम् रु

Sampurna sutra

Up

अत्र पदस्य रोः पूर्वस्य वा अनुनासिकः

Neelesh Sanskrit Brief

Up

अधिकारोऽयम् । अस्मिन् रुत्वप्रकरणे रुँ-इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिकादेशः भवति ।

Neelesh English Brief

Up

For the रुँ generated using the rules from this रूत्वप्रकरण, the letter before this रुँ is optionally converted to an अनुनासिक.

Kashika

Up

अधिकारोऽयम्। इत उत्तरं यस्य स्थाने रुर्विधीयते, ततः पूर्वस्य तु वर्णस्य वानुनासिको भवतीत्येतदधिकृतं वेदितव्यम्, यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र। वक्ष्यति — <<समःसुटि>> ८.३.५ — सँस्स्कर्ता। सँस्स्कर्तुम्। सँस्स्कर्तव्यम्। अत्रग्रहणं रुणा सह संनियोगप्रतिपत्त्यर्थम्। अधिकारपरिमाणापरिग्रहे हि सति <<ढो ढे लोपः>> ८.३.१३ इत्यत्रापि पूर्वस्यानुनासिक आशङ्क्येत॥

Siddhanta Kaumudi

Up

अत्र रुप्रकरणे रोः पूर्वस्याऽनुनासिको वा स्यात् ॥

Laghu Siddhanta Kaumudi

Up

अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा॥

Neelesh Sanskrit Detailed

Up

सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> 8.3.1 इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् द्वितीयम् सूत्रम् । इदम् अधिकारसूत्रम् अस्ति । अस्य अधिकारः <<कानाम्रेडिते>> 8.3.12 इति सूत्रं यावत् प्रचलति । अस्मिन् अधिकारे पाठितैः सूत्रैः यत्र यत्र रुँत्वम् विधीयते, तत्र तत्र रुँ-इत्यस्मात् पूर्वम् विद्यमानस्य वर्णस्य विकल्पेन अनुनासिकादेशः भवति —‌ इति अस्य अधिकारस्य आशयः । यथा, <<समः सुटि>> 8.3.5 इति सूत्रेण सम् + सुट् + कर्तृ इत्यस्याम् अवस्थायाम् मकारस्य रुँत्वम् विधीयते; अस्मिन् रुँत्वे कृते मकारात् पूर्वम् विद्यमानस्य अकारस्य प्रकृत-अधिकारसूत्रेण विकल्पेन अनुनासिकादेशः अपि भवति — सम् + सुट् + कर्तृ [<<सम्परिभ्यां करोतौ भूषणे>> 6.1.137 इति सुट्-आगमः] → सम् + स् + कर्तृ [इत्संज्ञालोपः । सकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।] → सरुँ + सुट् + कर्तृ [<<समः सुटि>> 8.3.5 इत्यनेन मकारस्य रुँत्वम् ] → सँरुँ / संरुँ + स् + कर्तृ [<<अत्रानुनासिकः पूर्वस्य तु वा>> 8.3.2 इति वैकल्पिकम् अनुनासिकत्वम् । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> 8.3.4 इति अनुस्वारागमः ।] → सँःस्कर्तृ / संःस्कर्तृ [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गादेशः] → सँस्स्कर्तृ / संस्स्कर्तृ [<<वा शरि>> 8.3.36 इत्यनेन विसर्गस्य विकल्पेन सकारादेशे प्राप्ते; <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन नित्यम् सकारादेशः भवति ।] अस्मिन् सूत्रे 'अत्र' इति शब्दः रुत्वप्रकरणस्य निर्देशं करोति । प्रकृतसूत्रेण उक्तः अनुनासिकादेशः रुँत्वप्रकरणस्य सन्दर्भे (इत्युक्ते <<कानाम्रेडिते>> 8.3.12 इति सूत्रं यावत् ) एव स्वीकर्तव्यः इति अस्य अर्थः ।

Balamanorama

Up

<<अत्रानुनासिकः पूर्वस्य तु वा>> - अत्रानुनासिक ।मतुवसौ रु सम्बुद्धौ॑ इति रुत्वविध्यनन्तरमिदं पठितम् । अतोऽत्रेत्यनेन रुप्रकरणे इत्यर्थो गम्यते । पूर्वत्वं च 'रु' इत्यपेक्षया ज्ञेयम्, प्रकृत्वात् । तदाह — अत्रेति । उत्तरसूत्रे अनुनासिकाभावपक्षानुवादादेव विकल्पे सिद्धेवा॑ग्रहणं स्पष्टार्थम् ।परस्य नित्यं रुत्वं, पूर्वस्य तु अनुनासिकविकल्प॑ इति वैषम्यस्य सिद्धस्यैव द्योतनार्थस्तुशब्दोऽपि स्पाष्टार्थ एव । इदमेवाभिप्रेत्य मूले विवरणवाक्ये वाग्रहणं त्यक्तमिति प्रौढमनोरमायां मूलकृतैव उक्तम् । अनेन सूत्रेण 'सर्' इत्यत्र सकारादकारोऽनुनासिकः । सँर्स्कर्तेति स्थिते ।

Padamanjari

Up

पूर्वत्वमिदमापेक्षिकम्, रुत्वं च सन्निहितम् । न च तदपेक्षं पूर्वत्वं सम्भवति; रोरनुनासिकस्य च सहविधानात् । तस्माद्यस्य रुर्विधीयते तदपेक्षमेव पूर्वत्वं विज्ञायत इत्याह - यस्य स्थान इति । अथात्रग्रहणं किमर्थम् ? अत्र रुप्रकरणे यथा स्यात् । अधिकारादप्येतत् सिद्धम्, अधिकारे हि सति रुत्वानुनासिकयोः सह विधानान्नान्यत्र प्रसङ्गः ? अथ आह - अत्रग्रहणमिति । अवधारणमत्र द्रष्टव्यम् - रुणैव सहेति । नन्वधिकारादप्येतत्सिद्धमित्युक्तम् ? अत आह - अधिकारेति । असत्यत्रग्रहणे अनुनासिकाधिकारस्य परिमाणं न ज्ञायेत - एतावत्सु योगेष्वस्य व्यापार इति, ततश्च रुप्रकरणात्परत्राप्यस्याधिकारः सम्भाव्येतेत्यर्थः । तुशब्दः परस्मात्कार्यिणः पूर्वस्य विशेषद्योतनार्थः - परस्य नित्यं रुत्वम्, पूर्वस्य तु वानुनासिक इति । वावचनमनर्थकम्, ज्ञापकात्सिद्धम्, यदयमुतरत्र सूत्रे यस्यानुनासिको न विहितस्तस्माद्रोः पूर्वस्मात्परमनुस्वारं शास्ति; ततो ज्ञायते - विकल्पेनायं भवतीति । न हि नित्येऽस्मिन्विधौ स रोः पूर्वः सम्भवति, यस्यानुनासिको विहित ॥