6-1-85 अन्तादिवत् च संहितायाम् अचि एकः पूर्वपरयोः
पूर्वपरयोः एकादेशः अन्त-आदिवत् ।
'एकः पूर्वपरयोः' अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत्, तथा परशब्दस्य आदिवर्णवत् भवति ।
The एकादेश told in the एकः पूर्वपरयोः अधिकार acts like the last letter of the पूर्वशब्द as well as the first letter of the परशब्द.
एक इति वर्तते, पूर्वपरयोरिति च। एकः पूर्वपरयोरिति योऽयमेकादेशो विधीयते, स पूर्वस्यान्तवद् भवति, परस्यादिवद् भवति। यथा तस्यान्त आदिर्वा तदन्तर्भूतस्तद्ग्रहणेन गृह्यते, तद्वदेकादेशोऽपि तद्ग्रहणेन गृह्यत इत्येषोऽतिदेशार्थः। ब्रह्मबन्धूरित्यत्र ब्रह्मबन्धु इति प्रातिपदिकम्, ऊङित्यप्रातिपदिकम्, तयोः प्रातिपदिकाप्रातिपदिकयोर्य एकादेशः स प्रातिपदिकस्यान्तवद् भवति। यथा शक्यते कर्तुं <<ङ्याप्प्रातिपदिकात्>> ४.१.१ इति स्वादिविधिः। वृक्षावित्यत्र सुबौकारोऽसुबकारः, तयोः सुबसुपोरेकादेशः सुप आदिवद् भवति। यथा शक्यते वक्तुं सुबन्तं पदम् १.४.१४ इति। वर्णाश्रयविधावयमन्तादिवद्भावो नेष्यते। तथाहि खट्वाभिरित्यत्रान्तवद्भावाभावाद् <<अतो भिस ऐस्>> ७.१.९ इति न भवति। ह्वयतेर्जुहावेति संप्रसारणपूर्वत्वस्यादिवद्भावाद् <<आत औ णलः>> ७.१.३४ इति न भवति। अस्यै अश्वः, अस्या अश्व इति <<वृद्धिरेचि>> ६.१.८८ इति वृद्धिः, <<एङ ः पदान्तादति>> ६.१.१०९ इत्यत्र विधावादिवद् न भवति। पूर्वपरसमुदाय एकादेशस्य स्थानी, स हि तेन निवर्त्यते। तत्रावयवयोरानुमानिकं स्थानित्वमिति तदाश्रयं कार्यं स्थानिवद्भावादप्राप्त — मित्यन्तादिवद्भावो विधीयते॥
योऽयमेकादेशः सः पूर्वस्यान्तवत्परस्यादिवत्स्यात् । इति रेफस्य पदान्तत्वे ॥
योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्। शिवेहि॥
<<एकः पूर्वपरयोः>> 6.1.84 अस्मिन् अधिकारे विद्यमानैः सूत्रैः उक्ताः आदेशाः पूर्व-पर-शब्दयोः स्थाने एकादेशरूपेण विधीयन्ते । एते आदेशाः पूर्वशब्दस्य अन्तिमवर्णरूपेण गृह्यन्ते, परशब्दस्य च आदिरूपेण अपि गृह्यन्ते — इति प्रकृतसूत्रस्य आशयः । कानिचन उदाहरणानि एतादृशानि — 1. 'ब्रह्मबन्धु' इति शब्दात् <<ऊङुतः>> 4.1.66 इत्यनेन ऊङ्-इति स्त्रीप्रत्ययं प्रयुज्य 'ब्रह्मबन्धू' इति शब्दः सिद्ध्यति । अत्र प्रक्रियायाम् 'ब्रह्मबन्धु' शब्दस्य अन्तिमः उकारः, तथा च 'ऊङ्' प्रत्ययस्य आदिस्थः ऊकारः - एतयोः <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णैकादेशे कृते 'ऊ' इति सिद्ध्यति । <<अकः सवर्णे दीर्घः>> 6.1.101 इति सूत्रम् <<एकः पूर्वपरयोः>> 6.1.84 अस्मिन् अधिकारे पाठितम् अस्ति; अतः अयम् 'ऊ' इति एकादेशः पूर्वशब्दस्य अन्तिमवर्णवर्णवत् भवति; इत्युक्ते 'ब्रह्मबन्धु' शब्देन 'ब्रह्मबन्धू' इत्यस्यापि ग्रहणं सम्भवति । अस्य किं प्रयोजनम् इति चेत्, ब्रह्मबन्धू-शब्दः वस्तुतः प्रातिपदिकसंज्ञकः नास्ति, तथा च आबन्तः / ङ्यन्तः अपि नास्ति, अतः <<ङ्याप्प्रातिपदिकात्>> 4.1.1 इत्यस्मिन् अधिकारे उक्ताः सुबादयः प्रत्ययाः अस्मात् शब्दात् नैव भवितुम् शक्नुवन्ति; परन्तु 'ब्रह्मबन्धु'शब्देनैव 'ब्रह्मबन्धू'शब्दस्यापि ग्रहणे कृते 'ब्रह्मबन्धु'शब्दस्य प्रातिपदिकसंज्ञा 'ब्रह्मबन्धू' इत्यत्रापि अतिदिश्यते, येन ब्रह्मबन्धूशब्दात् सुबादयः प्रत्ययाः भवितुम् अर्हन्ति । 2. बाल-शब्दस्य प्रथमाद्विवचनस्य रूपे 'बाल + औ' इत्यत्र <<वृद्धिरेचि>> 6.1.88 इति वृद्धि-एकादेशे कृते 'बालौ' इति सिद्ध्यति । अत्र अकार-औकारयोः एकादेशः कृतः दृश्यते । अयम् एकादेशः अत्र परशब्दस्य ('औ' इत्यस्य) आदिवर्णवत् भवति, अतः 'औ' इति परशब्दस्य सुप्-प्रत्ययत्वम् 'औ' इति एकादेशे अपि अतिदिश्यते, येन 'बालौ' इति शब्दः सुबन्तत्वं स्वीकरोति, अतश्च पदसंज्ञां अपि प्राप्नोति ।
<<अन्तादिवच्च>> - अथ तस्य रेफस्य पदान्ते विहितं विसर्गमाशङ्कितुं तस्य पदान्तत्वसाधनायाह-अन्तादिवच्च । एकः पूर्वपरयोरिति सूत्रमनुवर्तते । यथासंख्यपरिभाषया अन्तादिवदित्यस्य क्रमेणान्वयः । ततश्च पूर्वपरयोर्भवन्नेक आदेशः पूर्वस्यान्तवत्परस्यादिवदिति लभ्यते । यद्यपि एकादेशस्य द्वौ वर्णौ स्थानिनौ-पूर्वः परश्च, तयोश्च वर्णयोः प्रत्येकमेकत्वादखण्डत्वात्तदपेक्षया एकादेशस्य अन्तादिवत्त्वकथनमसङ्गतम्, तथापि पूर्वपरवर्णयोर्भवन्नेकादेशः प्रथमस्थानिघटितसमुदायस्य पूर्वस्य योऽन्तः । प्रथमस्थानी तत्कार्यकारी भवति । द्वितीयस्थानिघटितसमुदायस्य उत्तरस्य य आदिर्द्वितीयस्थानी तत्कार्यकारी भवतीत्यर्थो विवक्षितः । तत्र पूर्वान्तवत्त्वे यताक्षीरपेण । क्षीरप-इनेति स्थिते 'आद्गुण' इत्येकादेश एकारः । तत्र पूर्वान्तवत्त्वेन पे इत्युत्तरपदस्य एकाच्त्वादेकाजुत्तरपदेण इति णत्वं भवति । अत्र एकादेशे स्थानिवत्सूत्रं तु न प्रवर्तते, एकदेशस्थानीभूतं पकारादकारमालम्ब्य पे इत्यस्य एकाजुत्तरपदत्वाश्रयेम प्रवर्तमानस्य णत्वस्य स्थान्यलाश्रयत्वात् । यद्यपि एकाजुत्तरपदत्वमेव प्राधान्येन णत्वविधिराश्रयति, पकारादकारं स्थान्यलं तु तद्विशेषणीभूताऽच्वेनाश्रयति, तथाप्यनल्विधाविति निषेधोऽत्र भवत्येव, यथाकथञ्चित्स्थान्यलाश्रयणस्यैव तत्र विवक्षितत्वात् । अन्यता प्रतिदीव्येत्यत्र क्त्वादेशं ल्यपं स्थानिगतवलाद्यर्थधातुकत्वेनाश्रित्येडागमेकर्तव्येऽनल्विधाविति निषेधानुपपत्तिः, तत्र वलः प्राधान्येनाश्रयणाऽभावात् । एतेन स्थानिवत्सूत्रेण गतार्थमिदं सूत्रमिति निरस्तम् । परादिवत्त्वे यथा-खट्वा । अत्र खट्वाशब्दादजाद्यतष्टाप् । सवर्णदीर्घः आकारः । तस्य परादिवत्त्वेन टाप्त्वात्ततः परस्य सोर्हल्ङ्यादिलोपः । इदमपि स्तानिवद्भावेन अनिर्वाह्रम् । हल्ङ्यादिलोपस्यात्र स्थान्यलाश्रयताया मूलकृतैव वक्ष्यमाणत्वात् । नचैवं सति यजेर्लङि उत्तमपुरुषैकवचने इटि शपि आद्गुणे अडागमे अयजे इन्द्रमित्यत्र गुणस्य एकादेशस्य परादिवत्त्वेन इकारत्वात्तत्रेकारे परे सवर्णदीर्घः स्यादिति वाच्यम, इह हि अल्समुदायधर्मास एव प्रातिपदिकत्व-सुबन्तत्व-प्रत्ययत्वादयोऽतिदिश्यन्ते, नतु वर्णमात्रधर्मा अत्वह्रस्वत्वादयः । उक्तञ्च भाष्ये-॒न वा अताद्रूप्यातिदेशा॑दिति । अन्तादिवर्णमात्रवृत्तिधर्मानतिदेशादयज इन्द्रमित्येवंजातीयकेषु सवर्णदीर्घादिकं न भवतीत्यर्थ इत्यलमतिविस्तरेण ।
अन्तादिशब्दयोरवयवविशेषवाचित्वादवयविशेषापेक्षायां पवपरयोरित्यनुवृतेस्तस्य च वक्ष्यमाणगुणाद्यादेशविशेषणत्वादेकादेस इति लभ्यते, तदिदमुक्तम् - एकः पूर्वपरयोरिति वर्तत इत्यादि। कः पुनरत्रातिदेशार्थः, किं यावेकादेशस्य स्थानिनौ पूर्वपरौ तयोरन्तादिवद्भवति? किं वा - अकृत एकादेशे तमेवैकादेशमपेक्ष्य यौ पूर्वपरौ समुदायौ तयोरन्तादिवद्भवतीति ? यदि वा - एकादेशस्य स्थानिनौ पूर्वपरौ वर्णै, तयोः समुदाययोरन्तादी, यतोरेकादेशोऽप्यन्तादिवद्भवतीति ? तत्राद्यपक्षस्तावन्न सम्भवति, एकादेशेन पूपरयोस्तत्स्थानिनोर्निवर्तितत्वात्! कथमसतोः पूर्व परयोरन्तादिवत्स्यात्! द्वितीये पक्षे वृक्षावित्यत्र वृक्षाऔ इति स्थिते सुबसुपोरेकादेशः सुबपेक्षस्य कस्यचित्परस्याभावात्परादिवन्न स्यात् ? अतः तृतीयः पक्ष अश्रीयते। नन्वयमपि पक्षो न सम्भवत्येव। तथा हि - ब्रह्मबन्धूरित्यत्र ब्रह्मबन्धुऔउ इति स्थिते पूर्वो वर्ण उकारो यस्यान्तो ब्रह्मबन्धुशब्दस्य स एकादेशे नास्त्येव, उकारस्य निवर्तितत्वात्; यश्चास्ति धकारान्तो न तस्यान्त एकादेशस्य स्थानी उकारः, अनारम्भकत्वात्? एवं तर्हि यद्व्यपदेशयुक्तस्य स्थानिनौ पूर्वपरावन्तादी तद्व्यपदेशयुक्तस्यैकादेशोऽप्यन्तादिवदित्यर्थः। एददुक्तं भवति - एकादेशात्प्राक् पूर्वपरयोः पृथगवस्थितयोस्ताभ्यां सह यो व्यपदेशः पूर्वपरसमुदायविषयो दृष्टः - प्रातिपदिकमिति वा, सुबन्तमिति वा, स व्यपदेश एकादेशे कृतेऽपि भवतीति। तदिदमुक्तम् - यथा तस्यान्त आदिर्वा तदन्तर्भूत इत्यादि। तस्येत्यनेन एकादेशात्प्रागवस्थितः पूर्वः परश्च समुदायो निर्द्दिश्यते, अन्तादिशब्दाभायां च एकादेशस्य स्थानिनौ पूर्वपरौ। तद्ग्रहणीन गृह्यत इत्यनेनापि ठेतदुक्तं भवतिऽ इत्यारम्भायन्तरं च एकादेशस्य स्थानिनौ पूर्वपरौ। तद्ग्रहणेन गृह्यत इत्यनेनापि ठेतदुक्तं भवतिऽ इत्यारभ्यानन्तरं यदुक्तमस्माभिस्तद्दर्शितम्। एषोऽतिदेशार्थ इति। अतिदिश्यत इत्यतिदेशः, अतिदेशश्चासावर्थश्चेत्यतिदेसार्थः कर्मधारयोऽयमर्थोऽत्रातिदिश्यत इत्यर्थः। वर्णाश्रयविदावित्यादि। वर्णस्वरूपमाश्रित्य यद्विधीयते न तदन्तादिवद्भावेनातिदिश्यत इत्यर्थः। तत्कथम्? नात्र ताद्रूप्यनिबन्धनं कार्यमतिदिश्यते, योऽयमान्त आदिर्वा प्रागेकादेशादवस्थितः पूर्वः परश्च तद्वदयमेकादेशो भवति। तत्प्रयुक्तं कार्यं लभत इति। एवं च तद्वच्चेत्येव वक्त्व्य स्तात्, तच्छब्देन पूर्वापरौ परामृश्यते। एवं हि सिद्धेऽन्तादिवदिति वचनादन्तादित्वप्रयुक्तं कार्यमेकादेशस्य भवतु, पूर्वपरस्वरूपप्रयुक्तं तु कार्यं केन भवेत् ! लिङ्गं चात्र भवति तुक्यसिद्धवचनम्; अन्यथा अधीत्येत्यादावेकादेशस्यादिवद्भावादेव तुकः सिद्धत्वादनर्थकं तत्स्यात्। खट्वाभिरिति। तपरकरणं तु यत्रैकादेशो नास्ति तदर्थं स्यात् - शुभंयाभिरिति। जुहावेति। ठभ्यस्तस्य चऽ इति ह्वयतेः सम्प्रसारणे कृते जुहुआअ इति यत्पूर्वरूपत्वमाकारस्य तन्नादिवद्भावति, योऽयमादिराकारस्तद्वन्न भवति, तेन ठात औ णलःऽ इति न भवति। अस्यै अश्व इति। स्याटो विभक्त्येकारस्य योऽयं'वृद्धिरेचि' इति वृद्धिरेकादेशः स परस्यादिवन्न भवति, तेन ठेङः पदान्तादतिऽ इति न भवति। यत्र च युगपदुभयमाश्रीयते - अन्तश्चादिश्च, तत्राप्यन्तादिवद्भावो न भवति, यथा ठेतेलिङ्ऽ ईति ह्रस्वत्वमुपसर्गात्परस्येणो विधीयमानम्-अभीयात्परीयादित्यादौ न भवति। यदि ह्ययमेकादेशः पूर्वं प्रत्यन्तवद् बुद्ध्या गृह्यएत, स तदानीमेव कथं परं प्रत्यादिवत्स्यात्! एवं परं प्रत्यादिवत्वे तदानीमेव पूर्वं प्रत्यन्तवद्बावोऽप्यनुपपन्नः; एकस्योभयापेक्षया युगपत्पारतन्त्र्यस्य विरोधात् । पूर्वापरेति। यो येन निवर्त्यते स तस्य स्तानी, यथा - भुवोऽस्तिः। समुदायश्चात्र निवर्त्यते, ततश्च तत्प्रयुक्तमेव कार्थं स्थानिवद्बावात्स्याद् यदि किञ्चिदस्ति, न तु प्रत्येकं पूर्वपरयुक्त्म्। स्यादेतद् - अवययोरपि निवर्त्यमानत्वातयोरपि स्थानित्वम्? इत्यत आह - तत्रेति। इतिकरणद्वयमपि हेतौ। तत्र समुदाये स्थानिन्यवयवयोर्यत्स्थानित्वं तदानुमानिकमवयवनिवृत्तिमन्तरेणावयविनो निवर्तयितुमशक्यत्वादवयवयोर्निवृत्तिः, न त्वादिष्टत्वादित्यर्थः। ततश्च तदाश्रयं कार्यं स्थानिवद्भावान्न प्राप्नोति; साक्षाच्छ्4%अतस्यैव च स्थानिनस्तत्राश्रयणात्। इष्यते च तदर्थमन्तादिवद्भावो विधीयते। ननु विपरीतमिदम् - अवयवयोरानुमानिकं स्थानित्वमिति ?'पूर्वपरयोः' इति द्विर्वचननिर्द्देशात् तयोरेव स्थानित्वं श्रुतं न समुदायस्य शब्दोऽस्ति, द्वयोस्तु निवर्तमानयोरर्थात्समुदायो निवर्तत इत्येतावत्। तथा च पूर्वसूत्रे'स्थानिबेदाद्भिन्नादिषु नत्ववत्' इत्युक्तम्। तच्चान्यत्रापि उक्तम् - यो ह्युभयस्थाने भवति लभते सोऽन्यतरव्यपदेशम्, तेन खट्वर्श्य इत्यत्र पररत्वं भवत्यृकारस्यापि स्थानिवद्भावः, कथम?'स्थानिवदादेशः' इत्यत्र स्थानिशब्दस्य सम्बन्धिशब्दत्वादेवादेशपरिग्रहे सिद्धे आदेशग्रहणमानुमानिकस्याप्यादेशस्य स्थानिवद्भावार्थम्, ततश्च स्थान्यप्यानुमानिक आश्रितः, यथा ठेरुःऽ पचत्वित्यत्र । अत्र हि इकारेणेकारान्तः स्तान्यनुमीयते, उकारेणाप्युकारान्त आदेशः, तस्य स्थानिवद्भावात्'तिङ्न्तं पदम्' इति पदसंज्ञा भवति। एवमप्यत्रावयवयोरानुमानिके स्थानित्वे सिद्धः स्थानिवद्भावः ? एवं तर्ह्यनल्विधौ स्थानिवद्बाव उक्तः अल्विध्यर्थमिदम्, यथा - क्षीरपेण, सुरापेणोतरपदविभक्त्योरेकादेशस्यान्तवद्भावात् ठेकाजुतरपदे णःऽ इति णत्वमल्विधिरपि भवति। ननु च ठनल्विधौऽ इति प्रतिषेधः स्थान्यलाश्रयेष्वेव कार्येषु, असय त्वेकादेशस्योतरपदं प्रत्यवयवत्वमेव स्थानिवत्वेन प्रार्थनीयम्; अच्त्वं तु स्वत एव सिद्दम्, ततश्च यथा - अरुदितामित्यत्र स्वाश्रयं वलादित्वं स्थानिवद्बावकृतं च सार्वदातुकत्वमाश्रित्य रुदादिभ्यः सार्वधातुकेऽइतीङ् भवति, तद्वदिहापि स्थानिवद्धावकृतमुतरपदावलयवत्वं स्वाश्रयं चाच्त्वमाश्रित्य णत्वं भवति। ततु स्थान्यल्खरूपनिबन्धनम्, तत्रेष्यत एव, यथा खट्वाभिरित्यादावैस्भावादि। तस्मात् चिन्त्यभस्य प्रयोजनम् ॥