ॠत इद्धातोः

7-1-100 ॠतः इत् धातोः

Sampurna sutra

Up

ॠतः धातोः अङ्गस्य इत्

Neelesh Sanskrit Brief

Up

दीर्घ-ॠकारान्त-धातोः अङ्गस्य अन्तिमवर्णस्य इकारादेशः भवति ।

Neelesh English Brief

Up

The last letter of the दीर्घ-ॠकारान्त-धातु is converted to इकार.

Kashika

Up

ॠकारान्तस्य धातोरङ्गस्य इकारादेशो भवति। किरति। गिरति। आस्तीर्णम्। विशीर्णम्। धातोरिति किम्? पितृणाम्। मातृणाम्। लाक्षणिकस्याप्यत्र ग्रहणमिष्यते। चिकीर्षतीत्यत्रापि यथा स्यादिति धातुग्रहणं क्रियते॥

Siddhanta Kaumudi

Up

ॠदन्तस्य धातोरङ्गस्य इत्स्यात् ॥<!इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन !> (वार्तिकम्) ॥ तरति । ऋच्छत्यॄताम् <{SK2383}>इतिगुणः । तॄफल - <{SK2301}>इत्येत्वम् । तेरतुः । तेरुः ॥

Laghu Siddhanta Kaumudi

Up

ॠदन्तस्य धातोरङ्गस्य इत्स्यात्। किरति। चकार। चकरतुः। चकरुः। करीता, करिता। कीर्यात्॥

Neelesh Sanskrit Detailed

Up

येषां धातूनामन्तिमवर्णः दीर्घ-ॠकारः अस्ति, तस्य अनेन सूत्रेण 'इ'-आदेशः भवति । अत्र किमपि निमित्तम् नापेक्ष्यते । अनेन सूत्रेण निर्दिष्टः इ-आदेशः <<उरण् रपरः>> 1.1.51 इत्यनेन रपरः वर्तते । इत्युक्ते, अस्मात् इकारात् परः रेफः आगच्छति । यथा - 1. तुदादिगणस्य 'कॄ' (विक्षेपे) अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - → कॄ + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → कॄ + तिप् [<<तिप्तस्झि..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → कॄ + श + ति [<<तुदादिभ्यः शः>> 3.1.77 इति श-विकरणप्रत्ययः] → क् इर् + अ + ति [<<ॠत इद्धातोः>> 7.1.100 इति ॠकारस्य इकारः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → किरति 2. तुदादिगणस्य 'गॄ' (निगरणे) अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - → गॄ + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → गॄ + तिप् [<<तिप्तस्झि..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → गॄ + श + ति [<<तुदादिभ्यः शः>> 3.1.77 इति श-विकरणप्रत्ययः] → ग् इर् + अ + ति [<<ॠत इद्धातोः>> 7.1.100 इति ॠकारस्य इकारः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → गिरति / गिलति [<<अचि विभाषा>> 8.2.21 इति वैकल्पिकम् लत्वम् ] 4. क्र्यादिगणे 14 धातव; दीर्घ-ऋकारान्ताः सन्ति । एतेषां सर्वेषां विषये श्ना-विकरणप्रत्यये परे <<प्वादीनां ह्रस्वः>> 7.3.80 इत्यनेन ह्रस्वादेशः भवति, अतः तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, शॄ (हिंसायाम्) इत्यस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - शॄ + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → शॄ + तिप् [<<तिप्तस्झि..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → शॄ + श्ना + तिप् [<<क्र्यादिभ्यः श्ना>> 3.1.81 इति विकरणप्रत्ययः श्ना] → शृ + ना + ति [शित्-प्रत्यये परे <<प्वादीनां ह्रस्वः>> 7.3.80 इति ह्रस्वादेशः] → शृणाति [<!ऋवर्णान्नस्य णत्वं वाच्यम्!> इति णत्वम्] परन्तु अन्यत्र (शित्-प्रत्ययः नास्ति चेत्) यथायोग्यं अस्य सूत्रस्य प्रयोगः दृश्यते एव - शॄ + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययः] → शिर् त [<<ॠत इद्धातोः>> 7.1.100 इति ॠकारस्य इकारः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → शीर् त [<<हलि च>> 8.2.77 इति उपधादीर्घः] → शीर्न [<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> 8.2.42 इति तकारस्य नकारः] → शीर्ण [<<रषाभ्यां नो णः समानपदे>> 8.4.1 इति णत्वम्] अत्र एकम् वार्तिकम् ज्ञातव्यम् - <!इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन !> । इत्युक्ते, गुणः / वृद्धिः इत्यस्य तथा इत् / उत् इत्यस्य - उभयोः कार्ययोः समानस्थले प्रसक्तिः अस्ति चेत् गुण/वृद्धिः एव भवति । यथा, तॄ (भ्वादिगणः) अस्य धातोः लट-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - तॄ + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → तॄ + तिप् [<<तिप्तस्झि..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → तॄ + शप् + ति [<<कर्तरि शप्>> 3.1.68 इति शप् -विकरणप्रत्ययः] अत्र <<ॠत्-इद्धातोः>> 7.1.100 इत्यनेन ॠकारस्य इर्-आदेशः विधीयते । तथा च, <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन अङ्गस्य गुणादेशः अपि विधीयते । एतयोः द्वयोः कार्ययोः <<ॠत्-इद्धातोः>> 7.1.100 इत्यनेन निर्दिष्टः इर्-आदेशः 'अन्तरङ्गः' अस्ति, अतः <<पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः>> अनया परिभाषया तस्यैव प्रसक्तिः स्यात् । परन्तु <!इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन !> अनेन वार्तिकेन एतत् निर्दिश्यते यत् इत्-आदेशस्य गुणादेशस्य च समानस्थले प्रयोगः सम्भवति चेत् गुणादेशः एव भवति । अतः अत्र ॠकारस्य गुणादेशे अकारः विधीयते, स च <<उरण् रपरः>> 1.1.51 इति रपरः भवति । → तर् + अ + ति [ <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणादेशः] → तरति ज्ञातव्यम् - अस्मिन् सूत्रे 'ॠत्' तथा 'इत्' उभयत्र तकारः उच्चारणार्थः अस्ति, तपरकरणार्थं न । ॠत्-इत्यत्र दीर्घस्वरेण सवर्णग्रहणम् न भवति, अतः तस्य निषेधार्थम् तरपकरणस्य प्रयोजनम् नास्ति । 'इत्' इत्यत्र इकारः विधीयमानः अस्ति, अतः <<अणुदित्सवर्णस्य चाप्रत्ययः>>1.1.69 इत्यनेन सः अपि सवर्णग्रहणं न करोति, अतः तस्य विषये अपि तपरकरणस्य किमपि प्रयोजनम् नास्ति ।

Balamanorama

Up

<<ॠत इद्धातोः>> - ऋत इद्धातोः । 'ॠत' इतिधातोर्विशेषणम् । तदन्तविधिः । अङ्गस्येत्यधिकृतम् । तदाह — ॠदन्तस्येति । धातोः किम् । मातृणाम् । तथा च तरति, पिपर्ति, ततार पपारेत्यादौ ॠकारस्य शपि तिपि णलि च परे गुणवृद्धी बाधित्वा अन्तरङ्गत्वादित्त्वमुत्त्वं च स्यादिति शङ्का प्राप्ता । तां परिहर्तुमाह - इत्त्वोत्त्वाभ्यामिति । ल्यब्लोपे पञ्चमीद्विवचनम् ।ॠत इद्धातो॑रिति इत्त्वम्, 'उदोष्ठपूर्वस्य' इति उत्त्वमन्तरङ्गमपि बाधित्वा गुणवृद्धी विप्रतिषेधसूत्रेण परत्वात्स्यातामिति भावः । तरतीति । णलि ततार । अतुसादौ ददवादिगुणाना॑मिति निषेधमाशङ्क्याह — तृफलेति । तेरतुः तेरुरिति । तेरिथ तेरथुः तेर । ततार — ततर तेरिव तेरिम ।

Padamanjari

Up

किरतीति । कृ विक्षेपे , गृ निगरणे तुदादी । आस्तीर्णम्, विशीर्णमिति । स्तृञ् आच्छादने, शृ हिंसायाम्, हलि चेति दीर्घः, रदाभ्याम् इति निष्ठानत्वम् । मातृणामिति । दीर्घत्वे कृतेऽपि लाक्षणिकत्वादेवात्र न भविष्यतीति अत आह - लाक्षणिकस्यापीति । किं प्रयोजनम् इत्याह - चिकीर्षतीत्यादि । अतस्तदर्थ धातुग्रहणमिति भावः । क्वचितु वृतावेवैतत्पठ।ल्ते ए॥