उस्यपदान्तात्

6-1-96 उसि अपदान्तात् संहितायाम् अचि एकः पूर्वपरयोः आद् पररूपम्

Sampurna sutra

Up

अपदान्तात् आत् उसि पूर्वपरयोः एकः पररूपम्

Neelesh Sanskrit Brief

Up

अपदान्त-अवर्णात् 'उस्' शब्दे परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।

Neelesh English Brief

Up

In the context of संहिता, ऌhen a अवर्ण not occurring at end of a पद is followed by the word 'उस्', both of them are replaced by a single पररूप.

Kashika

Up

आदित्येव। अवर्णादपदान्तादुसि पूर्वपरयोराद्गुणापवादः पररूपमेकादेशो भवति। भिन्द्या उस् भिन्द्युः। छिन्द्या उस् छिन्द्युः। अदा उस् अदुः। अया उस् अयुः। अपदान्तादिति किम् ? का उस्रा कोस्रा। का उषिता कोषिता। आदित्येव — चक्रुः। अबिभयुः॥

Siddhanta Kaumudi

Up

अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वान्नित्यत्वाच्चअतो येयः <{SK2212}> इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं तथापि यास् इत्येतस्य इय् इति व्याख्येयम् । एवं तु सन्धिरार्षः । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम ॥

Laghu Siddhanta Kaumudi

Up

अपदान्तादकारादुसि पररूपमेकादेशः। अपुः। अपास्यत्॥ {$ {! 17 ग्लै !} हर्षक्षये $} (धातुपाठे <{01.1051}>) ॥ ग्लायति॥

Neelesh Sanskrit Detailed

Up

<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति सूत्रेण विहितस्य प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययस्य स्थाने <<झेर्जुस्>> 3.4.108 इत्यतः <<द्विषश्च>> 3.4.112 इत्येतैः सूत्रैः 'जुस्' इति आदेशः भवति । जुस्-प्रत्ययस्य जकारस्य इत्संज्ञा, लोपः भवति, येन 'उस्' इति अवशिष्यते । अयम् उस्-प्रत्ययः यदा अपदान्त-अवर्णात् (अकारात्/आकारात्) परः विद्यते, तदा अवर्ण-उकारयोः एकः पररूप-एकादेशः उकारः भवति — इति प्रकृतसूत्रस्य आशयः । केवलम् विधिलिङ्लकारस्य, लुङ्लकारस्य, तथा च लङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियासु इदम् सूत्रम् प्रयुक्तं दृश्यते । क्रमेण उदाहरणानि एतानि — 1. विधिलिङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् अस्य सूत्रस्य प्रयोगः — विधिलिङ्-लकारस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य <<झेर्जुस्>> 3.4.108 इत्यनेन जुस्-आदेशः भवति । जकारस्य अत्र <<चुटू>> 1.3.7 इत्यनेन इत्संज्ञा भवति, तस्याः लोपे कृते प्रत्ययस्य दृश्यरूपम् उस् इति जायते । अपदान्त-अवर्णात् अयम् उस्-प्रत्ययः विद्यते चेत् पूर्वपरयोः एक पररूपैकादेशः विधीयते । यथा, रुधादिगणस्य भिद्-धातोः 'भिन्द्युः' इति रूपम् इत्थं सिद्ध्यति — भिदिँर् (अवदारणे, रुधादिः, <{7.2}>) → भिद् [<!इँर इत्संज्ञा वाच्या!> इति वार्त्तिकेन 'इँर्' इति समुदायस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → भिद् + लिङ् [<<विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्>> 3.3.161 इति विधिलिङ्लकारः] → भिद् + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति झि-प्रत्ययः] → भि श्नम् द् झि [<<रुधादिभ्यः श्नम्>> 3.1.78 इति श्नम्-प्रत्ययः ।<<मिदचोऽन्त्यात्परः>> 1.1.47 इति अयम् अन्त्यात् अचः परः विधीयते ।] → भि न द् झि [मकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, शकारस्य <<लशक्वतद्धिते>> 1.3.8 इति इत्संज्ञा । द्वयोः अपि <<तस्य लोपः>> 1.3.9 इति लोपः] → भि न् द् झि [<<श्नसोरल्लोपः>> 6.4.111 इति अकारलोपः] → भि न् द् उस् [<<झेर्जुस्>> 3.4.108 इति झि-इत्यस्य जुस्-आदेशः । जकारस्य <<चुटू>> 1.3.7 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः] → भि न् द् यास् उस् [<<यासुट् परस्मैपदेषूदात्तो ङिच्च>> 3.4.103 इत्यनेन यासुट्-आगमः] → भि न् द् या उस् [<<लिङः सलोपोऽनन्त्यस्य>> 7.2.79 इत्यनेन यास्-इत्यस्य सकारस्य लोपः] → भिन्द्युस् ['या' इत्यस्य अपदान्त-आकारात् 'उस्' प्रत्यये परे <<उस्यपदान्तात्>> 6.1.96 इत्यनेन पररूप-एकादेशः उकारः विधीयते ।] → भिन्द्युः [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः ।] 2. लुङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् अस्य सूत्रस्य प्रयोगः — आकारान्त-धातोः लुङ्-लकारस्य प्रक्रियायाम् सिच्-विकरणस्य लुक् भवति चेत् <<आतः>> 3.4.110 इति सूत्रेण झि-प्रत्ययस्य जुस्-आदेशः भवति । जकारस्य अत्र <<चुटू>> 1.3.7 इत्यनेन इत्संज्ञा भवति, तस्याः लोपे कृते प्रत्ययस्य दृश्यरूपम् उस् इति जायते । अस्मिन् उस्-प्रत्यये परे धातोः अन्ते विद्यमानस्य आकारस्य प्रकृतसूत्रेण पररूपैकादेशः कृतः दृश्यते । यथा, भ्वादिगणस्य 'पा' धातोः 'अपुः' इति रूपम् इत्थं सिद्ध्यति — पा (पाने, भ्वादिः, <{1.1074}>) → पा + लुङ् [<<लुङ्>> 3.2.110 ] → पा + च्लि + लुङ् [<<च्लि लुङि>> 3.1.43 ] → पा + सिच् + लुङ् [<<च्लेः सिच्>> 3.1.44 इति सिच्-आदेशः] → पा + लुङ् [<<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> 2.4.77 इति सिच्-प्रत्ययस्य लुक्] → अ + पा + लुङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + पा + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति झि-प्रत्ययः] → अ + पा + जुस् [<<आतः>> 3.4.110 इत्यनेन आकारात् अङ्गात् परस्य (सिच्-प्रत्ययस्य लुकि कृते) झि-प्रत्ययस्य जुस्-आदेशः] → अ + पा + उस् [<<चुटू>> 1.3.7, <<तस्य लोपः>> 1.3.9 → अ + प् + उस् ['पा' इत्यस्य अपदान्त-आकारात् 'उस्' प्रत्यये परे <<उस्यपदान्तात्>> 6.1.96 इत्यनेन पररूप-एकादेशः उकारः विधीयते ।] → अपुः [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः ।] 3. लङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् अस्य सूत्रस्य प्रयोगः — आकारान्तात् उत्तरस्य लङ्लकारस्य झि-प्रत्ययस्य <<लङः शाकटायनस्यैव>> 3.4.111 इत्यनेन विकल्पेन जुस्-आदेशः भवति । जकारस्य अत्र <<चुटू>> 1.3.7 इत्यनेन इत्संज्ञा भवति, तस्याः लोपे कृते प्रत्ययस्य दृश्यरूपम् उस् इति जायते । अस्मिन् उस्-प्रत्यये परे धातोः अन्ते विद्यमानस्य आकारस्य प्रकृतसूत्रेण पररूपैकादेशः कृतः दृश्यते । यथा, अदादिगणस्य 'पा (रक्षणे)' धातोः 'अपुः' इति रूपम् इत्थं सिद्ध्यति — पा (रक्षणे, अदादिः, <{2.51}>) → पा + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → पा + झि [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति प्रथमपुरु → पा + च्लि + लुङ् [<<च्लि लुङि>> 3.1.43 ] → पा + सिच् + लुङ [<<च्लेः सिच्>> 3.1.44 इति सिच्-आदेशः] → पा + लुङ् [<<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> 2.4.77 इति सिच्-प्रत्ययस्य लुक्] → अ + पा + लुङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + पा + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति झि-प्रत्ययः] → अ + पा + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः] → अ + पा + झि [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्] → अ + पा + जुस् [<<लङः शाकटायनस्यैव>> 3.4.111 इति झि-प्रत्ययस्य पाक्षिकः जुस्-आदेशः] → अ + पा + उस् [<<चुटू>> 1.3.7, <<तस्य लोपः>> 1.3.9 → अ + प् + उस् ['पा' इत्यस्य अपदान्त-आकारात् 'उस्' प्रत्यये परे <<उस्यपदान्तात्>> 6.1.96 इत्यनेन पररूप-एकादेशः उकारः विधीयते ।] → अपुः [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः ।] दलकृत्यम् अपदान्तात् इति किमर्थम् ? पदान्त-अवर्णात् परस्य 'उस्' इत्यस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, 'का + उस्रा (धेनुः इत्यर्थः)' इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति यतः अत्र आकारः पदान्ते विद्यमानः अस्ति । अतः अत्र <<आद्गुणः>> 6.1.87 इति गुणैकादेशे कृते 'कोस्रा' इत्येव सिद्ध्यति । एवमेव, आङ्-उपसर्गपूर्वकात् वस्-धातोः क्त-प्रत्यये कृते आ + उषिता इत्यत्र <<शासिवसिघसीनां च>> 8.3.60 इति त्रिपादीसूत्रेण प्राप्तस्य षत्वस्य असिद्धत्वात् आ + उसिता इत्येव दृष्ट्वा प्रकृतसूत्रम् नैव प्रवर्तते, यतः 'आ' इति उपसर्गः पदसंज्ञकः अपि अस्ति, अतः अत्र अपदान्तः अवर्णः न हि विद्यते । लिट्-लकारस्य उस्-प्रत्ययः लिट्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवनस्य झि-प्रत्ययस्य <<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति सूत्रेण उस्-आदेशः सम्भवति । परन्तु अस्य उस्-आदेशस्य विषये प्रकृतसूत्रं नैव प्रवर्तते, यतः अयम् उस्-प्रत्ययः <<लिट् च>> 3.4.115 इत्यनेन आर्धधातुकः अस्ति; अपि च अकारान्तात् / आकारान्तात् धातोः विहितः अयं प्रत्ययः <<असंयोगाल्लिट् कित्>> 1.2.5 इत्यनेन च किद्वत् अपि भवति, अतः अस्मात् प्रत्ययात् पूर्वम् विद्यमानस्य अकारस्य <<अतो लोपः>> 6.4.48 इत्यनेन, तथा च आकारस्य <<आतो लोप इटि च>> 6.4.64 इत्यनेनैव अङ्गकार्यस्य सोपानेषु एव लोपः क्रियते, तदर्थम् प्रकृतसूत्रम् नैव आवश्यकम् ।

Balamanorama

Up

<<नाम्रेडितस्यान्त्यस्य तु वा (नित्यमाम्रेडिते डाचि)>> - तत्राह-नाम्रेडितस्य ।अव्यक्तानुकरणस्यात #इता॑वितिपररूप॑मितिएकः पूर्वपरयो॑रिति चानुवर्तते । आम्रेडितस्याव्यक्तानुकरणस्यावयवो योऽच्छब्दस्तस्येतिशब्दे परे पररूपं न स्यात् । अन्त्यस्य तु वा । तुरवधारणे । अच्छब्दान्त्यस्य तकारस्यैव इकारस्य च पररूपं वा स्यान्नत्वकारस्यापीत्यर्थः । तदाह — आम्रेडीतस्य प्रागुक्तमित्यादिना । ननु पटत् पटदित्यत्र कथं द्वित्वमित्यत आह — डाचीति ।डाचि बहुलं द्वे भवत इति द्वित्व॑मित्यन्वयः । नन्वव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् इति डाचः कथमिह संभवः, इतिशब्दे परतस्तत्पर्युदासः स्यादित्यत आह — बहुलग्रहणादिति । वेत्यनुक्त्वा बहुलग्रहणमदिकविधानार्थं, बहूनर्थान् लाति गृह्णातीति तद्व्युत्पत्तेरिति भावः ।

Padamanjari

Up

भिन्द्यौरिति। भिदेर्लिङ्, यासुट्, झेर्जुस्, श्नसोरल्लोपः,'लिङ्ः सलोपो' नन्त्यस्यऽ इति सलोपः, भिन्द्याऔस् -अनेन पररूपम्। अदुरिति। दाञो लुङ्,'गातिस्था' इत्यादिना सिचो लुक्, ठातःऽ इति झेर्जुस्, अदाऔस् -अनेन पररूपम् । कोस्रेति। ननु चानर्थकत्वादेवास्योसो ग्रहणं न भविष्यति ? एवं तर्ह्येतज्ज्ञापयति -अनर्थस्याप्युसो ग्रहणमिति, तेन भिद्यौरित्यादावप्युसि पररूपं भवति। अत्र हि यासुडादिः समुदायोऽर्थवान्, न तु तदवयव उस्। कोषितेति। वसेः क्तः,'वसतिक्षुदोरिट्' , यजादित्वात्सम्प्रसारणम्,'शासिवसिघसीनां च' इति षत्वम्, तस्यासिद्धत्वादुसि न पररूपं भवति। अस्य तु लाक्षणिकत्वादेवाग्रहणं सिद्धम्। अबिभयुरिति। भियो लङ्, शपः श्लुः,'सिजभ्यस्त' इत्यादिना झेर्जुस्,'जुसि च' इति गुणः ॥