लङः शाकटायनस्यैव

3-4-111 लङः शाकटायनस्य एव प्रत्ययः परः च आद्युदात्तः च धातोः लस्य झेः जुस् आतः

Kashika

Up

index: 3.4.111 sutra: लङः शाकटायनस्यैव


आतः इत्येव। आकारान्तादुत्तरस्य लङादेशस्य झेः जुसादेशो भवति शाकटायनस्य आचार्यस्य मतेन। अयुः। अवुः। अन्येषां मते अयान्। ननु ङितः इत्यनुवर्तते। अत्र लङेव अकारान्तादनन्तरो ङित् सम्भवति न अन्यः, तत् किं लङ्ग्रहणेन? एवं तर्हि लङेव यो लङ् विहितः तस्य यथा स्यात्, लङ्वद्भावेन यस् तस्य मा भूत्, लोटो लङ्वत् 3.4.85 इति। यान्तु। वान्तु। सिजभ्यस्तविदिभ्यश्च 3.4.109 इत्ययमपि झेर्जुस् लोटो न भवति। बिभ्यतु। जाग्रतु। विदन्तु। जुस्भावमात्रं हि मुख्येन लङा विशेष्यते। एवकार उत्तरार्थः।

Siddhanta Kaumudi

Up

index: 3.4.111 sutra: लङः शाकटायनस्यैव


आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयुः-अयान् । यायात् । यायाताम् । यायास्ताम् ।{$ {!1050 वा!} गतिगन्धनयोः$} । गन्धनं सूचनम् ।{$ {!1051 भा!} दीप्तौ$} ।{$ {!1052 ष्णा!} शौचे$} ।{$ {!1053 श्रा!} पाके $}।{$ {!1054 द्रा!} कुत्सायां गतौ$} ।{$ {!1055 प्सा!} भक्षणे $}।{$ {!1056 पा!} रक्षणे$} । पायास्ताम् । अपासीत् ।{$ {!1057 रा!} दाने$} ।{$ {!1058 ला!} आदाने$} । द्वावपि दाने इति चन्द्रः ।{$ {!1059 दाप्!} लवने$} । प्रणिदाति-प्रनिदाति । दायास्ताम् । अदासीत् ।{$ {!1060 ख्या!} प्रकथने$} । अयं सार्वधातुकमात्रविषयः ॥<!सस्थानत्वं नमः ख्यात्रे इति वार्तिकम् !> (वार्तिकम्) ॥ तद्भाष्यं चेह लिङ्गम् । सस्थानो जिह्वामूलीयः । स नेति ख्शाञादेशस्य ख्शादित्वे प्रयोजनमित्यर्थः । संपूर्वस्य ख्यातेः प्रयोगो नेति न्यासकारः ।{$ {!1061 प्रा!} पूरणे$} ।{$ {!1062 मा!} माने$} । अकर्मकः । तनौ ममुस्तत्र न कैटभद्विष इति माघः । उपसर्गवशेनार्थान्तरे सकर्मकः । उदरं परिमाति मुष्टिना । नेर्गद-<{SK2285}> इत्यत्र नास्य ग्रहणम् । प्रणिमाति- प्रनिमाति ।{$ {!1063 वच!} परिभाषणे$} । वक्ति । वक्तः । अयमन्तिपरो न प्रयुज्यते । बहुवचनपर इत्यन्ये ॥ झिपर इत्यपरे । वग्धि । वच्यात् । उच्यात् । अवोचत् ।{$ {!1064 विद!} ज्ञाने$} ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.111 sutra: लङः शाकटायनस्यैव


आदन्तात्परस्य लङो झेर्जुस् वा स्यात्। अयुः, अयान्। यायात्। यायाताम्। यायुः। यायात्। यायास्ताम्। यायासुः। अयासीत्। अयास्यत्। ॥ {$ {! 5 वा !} गतिगन्धनयोः $} ॥ {$ {! 6 भा !} दीप्तौ $} ॥ {$ {! 7 ष्णा !} शौचे $} ॥ {$ {! 8 श्रा !} पाके $} ॥ {$ {! 9 द्रा !} कुत्सायां गतौ $} ॥ {$ {! 10 प्सा !} भक्षणे $} ॥ {$ {! 11 रा !} दाने $} ॥ {$ {! 12 ला !} आदाने $} ॥ {$ {! 13 दाप् !} लवने $} ॥ {$ {! 14 पा !} रक्षणे $} ॥ {$ {! 15 ख्या !} प्रकथने $} ॥ अयं सार्वधातुक एव प्रयोक्तव्यः॥ {$ {! 16 विद !} ज्ञाने $} ॥

Balamanorama

Up

index: 3.4.111 sutra: लङः शाकटायनस्यैव


लङः शाकटायनस्यैव - लङः शाकटायनस्यैव ।झेर्जुसि॑ति 'आत' इति चानुवर्तते । तदाह — आदन्तादिति । जुस्वेति । शाकटायनग्रहणाद्वकल्पलाभ इति भावः । एवकारस्तु 'लिट् च'लिङाशिषी॑त्युत्तरार्थ इति भाष्ये स्पष्टम् । नचलोटो लङ्व॑दित्यतिदेशाद्यान्तु इत्यत्रापिजुस्विकल्पः शङ्क्यः,॒नित्यं ङितः॑ इत्यतो हित इत्यनुवृत्त्यैव सिद्देर्लङ्ग्रहमस्य लङ्वद्भावमादाय प्रवृत्तिनिवारणार्थत्वात् । इदमपि भाष्ये स्पष्टम् । अयानिति । जुसभावे रूपम् । अयासीत् । ष्णाधातुः षोपदेशः । नस्य ष्टुत्वेन णत्वनिर्देशः । स्नाति । स्नायात्-स्नेयात् । पा रक्षणे ।एर्लिङी॑ति सूत्रेगातिस्थे॑त्यत्र च पिबतेरेव ग्रहणादेत्त्वसिज्लुकौ न । तदाह — पायास्ताम् । अपासीदिति । दाप् लवने । घुत्वाऽभावात्शेषे विभाषे॑ति णत्वविकल्पं मत्वा आह — प्रणिदाति प्रनिदातीति । घुत्वाऽभावादाशीर्लिङि एत्वं, लुङि लुक्, च नेति मत्वाऽऽह अदायास्तामिति । अदासीदिति च । ख्या प्रकथन.सार्वधातुकमात्रविषय इति । मात्रशब्दोऽवधारणे । सार्वधातुक एवास्य ख्याधातोः प्रयोगः,न त्वार्धधातुक इत्यर्थः । कुत इत्यत आह — सस्थानत्वमिति ।चक्षिङ ख्या॑ञिति सूत्रे ख्यास्थाने 'ख्याञ्' इति वक्तव्यम् । अस्य शकारस्यपूर्वत्रासिद्ध॑मित्यधिकारे यकारो वक्तव्य इत्युक्तवाप्रयोजननं सौप्रख्ये वुञ्विधि॑रित्युपक्रम्यसस्थानत्वं नमः ख्यात्रे॑ इत्युक्तं वार्तिके । तत्र नञमध्याह्मत्य 'नमः ख्यात्रे' इति सस्थानत्वं न भवतीति व्याख्यातं भाष्ये । तदिदं वार्तिकं भाष्यं च ख्याधातोरस्य सार्वधातुके एव प्रयोग इत्यत्र ज्ञापकमित्यर्थः । तत्र सस्थानपदं व्याचष्टे - सस्थानो जिह्वामूलीय इति । प्राचीनाचार्यसमयादिति भावः । स नेति । स = जिह्वामूलीयो नमः ख्यात्रे इत्यत्र न भवतीत्येतत् ख्याञादेशस्य ख्श्यादित्वविधौ, शस्य यत्वविधौ च प्रयोजनमित्यर्थः । ख्श्यादित्वे इति । यत्वविधावित्यस्याप्युपलक्षणम् । शकार्थानिकयत्वस्याऽसिद्धत्वात् 'शर्परे विसर्जनीयः' इति विसर्जनीय इष्टः सिध्यति, जिह्वामूलीयस्त्वनिष्टो न भवतीति भाष्यवार्तकह्मदयम् । ख्याधातोरस्यार्धधातुकेऽपि प्रयोदसत्त्वे तु तृजन्ते ख्यातृशब्दे यकारस्य शकारस्थानिकत्वाऽभावादसिद्धत्वाऽभावात् 'शर्परे विसर्जनीयः' इत्यस्याऽप्रवृत्तौ कुप्वोर्जिह्वामूलीयोदुर्वारः स्यात् । ततश्चाद्र्धदातुके सर्वत्र न ख्याधातोः प्रयोग इति विज्ञायते,ज्ञापकस्य सामान्यापेक्षत्वादिति भावः । संपूर्वस्येति । सार्वधातुकेऽपीति भ#आवः । अत्र व्याख्यानमेव शरणम् । एवं चसङ्ख्यती॑त्यादि नास्तीति फलितम् । सङ्ख्यादिशब्दास्तु ख्याञादेशस्येति बोध्यम् । मा माने इति । मानं परिमितिरिति भावः । तदाह — अकर्मक इति ।माति घृतं पात्रेऽस्मि॑ न्निति उदाहरणम् । परिमितं भवतीत्यर्थः । संगृहीतं भवतीति यावत् । अत्रार्थे शिष्टप्रयोगसंवादं दर्शयति — तनो ममुस्तत्रेति ।तनौ मुमस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः॑ इति माघकाव्ये तपोधनस्य नारदस्य अभ्यागमेन आगमनेन संभवाः मुदः = संतोषाः, कैटभद्विषः = श्रीकृष्णस्य तनौ = शरीरे , न ममुः= परिमिता न बभूवुः । आधिक्यान्न संगृहीता बभूवुरिति यावत् । अर्थान्तरे त्विति । परिच्छेदे त्वित्यर्थः । उदरमिति ।उदरंपरिमाति मुष्टिना कुतुकी कोऽपिदमस्वसुः किमु॑ इति नैषधकाव्ये । कोऽपिकुतुकी दमस्वसुः =दमयन्त्याः, उदरं मुष्टिना परिमाति किमु , किमुपरिगृह्णातीत्यर्थः । नास्य ग्रहणमिति ।घुप्रकृतिमा॑ङिति भाष्यादिति भावः । एवं च 'शेषे विभाषाऽकखादौ' इति णत्वविकल्प इति मत्वाऽऽह -प्रणिमाति प्रनिमातीति । ममौ ।ममिथ — ममाथ । ममिव । मात । मास्यति । मातु । अमात् । अमासीत् । अमास्यत् । वचपरिभाषणे । अनिट् । अयमन्तीति । लटि प्रथमपुरुषबहुवचनं नास्तीत्यर्थः । बहुवचनपर इति । 'न प्रयुज्यते' इति शेषः । अस्मिन् पक्षे पुरुषत्रये बहुवचनं नास्ति । झिपर इति । 'न प्रयुज्यते' इति शेषः । अस्मिन् पक्षे लिडादिष्वपि [प्रथमपुरुष] बहुवचनं नास्तीति भावः । तत्र लिटि अकितिलिटभ्यासस्ये॑ति संप्रसारणम् । उवाच । किति तुवचिस्वपी॑ति संप्रसारणम् । ऊचतुः । उवचिथ — उवक्थ । ऊचिव । वक्ता वक्ष्यति । वक्तु । अवक् । वच्यादिति । विधिलिङि रूपम् । आशीर्लिङिवचिस्वपी॑ति संप्रसारणं मत्वाऽऽह — उच्यादिति । अवोचदिति । लुङिअस्यतिवक्ती॑ति च्लेरङिवच उ॑मिति भावः । विद ज्ञाने इति । अनिट्सु लुग्विकरणस्याऽग्रहणादयं सेट् ।

Padamanjari

Up

index: 3.4.111 sutra: लङः शाकटायनस्यैव


अयुः, अवुरिति । शपो लुक्, ठुस्यपदान्तात्ऽ इति पररूपत्वम् ॥ लणेóवेति । लुड्लिङेस्तावद्भवितव्यम्, लृङ्स्तु स्यप्रत्ययेन झेर्व्यवधानमिति भावः । यान्तु, वान्त्विति ।'लोटो लङ्वत्' इत्यत्र तु वाग्रहणानुवृत्याप्ययमर्थः साधितः । ननु च लङ्ग्रहणाद्यत्नज्जुस्भावोऽयं लोटो मा भूत्,'सिजभ्यस्त' इत्ययं तु स्यादेव ? तत्राह - सिजभ्यस्तेत्यादि । कथमित्यत्राह - जुस्भावमात्रं हीति । कथं पुनः ठातःऽ इत्यनुवर्तमाने जुस्भावमात्रं मुख्येन लङ शक्यं विशेषयितुम् ?'लङ्ः' इति योगविभागः कर्तव्य इति मन्यते । ननु च ठात इत्येतत्सिज्ग्रहणानुवृत्या नियमार्थम्ऽ इत्युक्तम् , ततश्चायुरित्यत्र केनचिदप्राप्तत्वाद्विध्यर्थमेतत्किमेवकारेण ? इत्यत्राह - एवकार उतरार्थ इति ।'लिट् च' ,'लिङशिषि' इत्यत्रास्य प्रयोजनं दर्शयिष्यति ॥