लिट् च

3-4-115 लिट् च प्रत्ययः परः च आद्युदात्तः च धातोः लस्य आर्धधातुकं

Sampurna sutra

Up

index: 3.4.115 sutra: लिट् च


लिट् च तिङ् आर्धधातुकम्

Neelesh Sanskrit Brief

Up

index: 3.4.115 sutra: लिट् च


लिट्-लकारस्य तिङ्-प्रत्ययाः साक्षात् आर्धधातुकाः सन्ति ।

Neelesh English Brief

Up

index: 3.4.115 sutra: लिट् च


The तिङ्-प्रत्ययs of the लिट्-लकार get the term आर्धधातुक.

Kashika

Up

index: 3.4.115 sutra: लिट् च


लिडादेशः तिङार्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। पेचिथ। शेकिथ। जग्ले। मम्ले। ननु च एकसंज्ञाधिकारादन्यत्र समावेशो भवति? सत्यम् एतत्। इह तु एवकारोऽनुवर्तते, स नियमं करिष्यति।

Siddhanta Kaumudi

Up

index: 3.4.115 sutra: लिट् च


लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः । तेन शबादयो न ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.115 sutra: लिट् च


लिडादेशस्तिङ्ङार्धधातुकसंज्ञः॥

Neelesh Sanskrit Detailed

Up

index: 3.4.115 sutra: लिट् च


तिङ्शित्सार्वधातुकम् 3.4.113 इत्यनेन सर्वेषाम् तिङ्-प्रत्ययानाम् सार्वधातुकसंज्ञा विधीयते । अस्य अपवादत्वेन लिट्-लकारस्य विषये तिङ्-प्रत्ययाः वर्तमानसूत्रेण आर्धधातुकसंज्ञकाः भवन्ति ।

अस्य प्रयोगः यत्र दृश्यते तस्य कानिचन उदाहरणानि एतानि -

  1. अस्तेर्भूः 2.4.52 इत्यनेन अस्-धातोः आर्धधातुके प्रत्यये परे भू-आदेशः भवितुमर्हति । लिट्-लकारस्य प्रत्ययाः आर्धधातुकसंज्ञकाः सन्ति, अतः लिट्-लकारस्य विषये अस्य सूत्रस्य प्रयोगं भवितुमर्हति । अतः अस्-धातोः लिट्-लकारस्य रूपाणि 'बभूव बभूवतुः बभूवुः' एतादृशानि भवन्ति ।

  2. पठ्-धातोः लिट्लकारस्य मध्यमपुरुषैकवचनम् 'पेठिथ' इति भवति । लिट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रत्ययः 'थल्' इति वलादि-आर्धधातुकः अस्ति, अतः पठ्-धातोः अस्मिन् प्रत्यये परे आर्धधातुकस्य इड्वलादेः 7.2.35 इत्यनेन इडागमः भवितुमर्हति ।

  3. कर्तरि शप् 3.1.68 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य औत्सर्गिकम् शप्-विकरणम् भवति । लिट्-लकारस्य प्रत्ययाः आर्धधातुकाः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्ति नास्ति । यथा - 'गम्' धातोः लिट्लकारस्य प्रथमपुरुषैकवचनम् 'जगाम' इत्यत्र गम्-धातोः 'गच्छ्' आदेशः न भवति, यतः अयमादेशः इषुगमियमां छः 7.3.77 इत्यनेन केवलं शित्-प्रत्यये परे एव विधीयते । अत्रः शप्-विकरणम् न आगच्छति, अतः अत्र शित्-विशिष्टस्य सूत्रस्यापि प्रसक्तिः नास्ति ।

Balamanorama

Up

index: 3.4.115 sutra: लिट् च


लिट् च - लिट् च ।लि॑डिति लुप्तस्थानषष्ठन्तम् ।तिङ्शित्सार्वधातुक॑मित्यस्मात्तिङित्यनुवर्तते । 'आर्धधातुकं शेष' इत्यस्मार्धधातुकमिति । तदाह — लिडादेशस्तिङिति । एकसंज्ञाधिकारबहिर्भूतत्वात्सार्वधातुकसंज्ञाया अपि समावेशे प्राप्ते आह — आर्धधातुकसंज्ञ एवेति ।लङः शाकटायनस्यैवे॑ति सूत्रादेवकारानुवृत्तेरिति भावः । तेनेति । सार्वधातुकतवाऽभावेन तन्निमित्ताः शप्श्यनादयो न भवन्तीत्यर्थः ।

Padamanjari

Up

index: 3.4.115 sutra: लिट् च


पेचिथ, शेकिथेति । ठृतो भारद्वाजस्यऽ इति नियमादिट्,'थलि च' सेटिऽ इत्येत्वाभ्यासलोपौ । जग्ले मम्ल इति । आर्धधातुकत्वात् ठातो लोप इटि चऽ इत्याकारलोपः । यदुक्तम् - सार्वधातुकसंज्ञाया अपवाद इति, तद्विघटयति - ननु चेति । सत्यमित्यादिना अपवादत्वं समर्थयते ॥