आतः

3-4-110 आतः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य झेः जुस्

Sampurna sutra

Up

index: 3.4.110 sutra: आतः


आतः सिचः (लुगन्तात्) ङितः झेः जुस्

Neelesh Sanskrit Brief

Up

index: 3.4.110 sutra: आतः


आकारात् अङ्गात् परस्य यः सिच्, तस्य लुकि अपि तस्मात् परस्य ङित्-लकारस्य झि-प्रत्ययस्य जुस्-आदेशः भवति ।

Neelesh English Brief

Up

index: 3.4.110 sutra: आतः


For an आकारान्त अङ्ग, even when the सिच् प्रत्यय is removed, the झि-प्रत्यय of a ङित्-लकार is converted to जुस्.

Kashika

Up

index: 3.4.110 sutra: आतः


सिज्ग्रहणमनुवर्तते। सिच आकारान्ताच् च परस्य झेः जुसादेशो भवति। कथमाभ्यामानन्तर्यम्? सिचो लुकि कृते प्रत्ययलक्षणेन सिचोऽनन्तरः, श्रुत्या चाकारान्तादिति। अदुः। अधुः। अस्थुः। तकारो मुखसुखार्थः। पूर्वेण एव सिध्द्धे नियमार्थं वचनम्, आत एव सिज्लुगन्तात्, न अन्यस्मातिति। अभूवन्। प्रत्ययलक्षनेन जुस् प्राप्तः प्रतिषिध्यते, तुल्यजातीयापेक्षत्वान् नियमस्य। श्रूयमाने हि सिचि भवत्येव, अकार्षुः, अहार्षुः।

Siddhanta Kaumudi

Up

index: 3.4.110 sutra: आतः


सिज्लुक्यादन्तादेव झेर्जुस् स्यात् । अभूवन् । अभूः । अभूतम् । अभूत् । अभूवम् । अभूव । अभूम ।

Laghu Siddhanta Kaumudi

Up

index: 3.4.110 sutra: आतः


सिज्लुकि आदन्तादेव झेर्जुस्॥

Neelesh Sanskrit Detailed

Up

index: 3.4.110 sutra: आतः


अस्य सूत्रस्य अर्थम् स्पष्टरूपेण ज्ञातुम् सूत्रे 'लुगन्तात्' इति पदम् स्वीकरणीयम् । अस्मिन विषये भाष्ये एकं वार्तिकं दीयते - <!आतः सिज्लुगन्तादिति वक्तव्यम् !> । इत्युक्ते, सिच्-प्रत्ययस्य यदि लुक्-भवति, तर्हि तस्मात् परस्य झि-प्रत्ययस्य जुस्-आदेशः तदैव भवति यदा अङ्गमाकारान्तमस्ति ।

यथा, भ्वादिगणस्य पा-धातोः लुङ्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -

पा + लुङ् [लुङ् 3.2.110 इति लुङ्]

→ पा + च्लि + ल् [च्लि लुङि 3.1.43 इति च्लि]

→ पा + सिच् + ल् [च्लेः सिच् 3.1.44 इति सिच्]

→ पा + ल् [गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु 2.4.77 इति सिचः लुक्]

→ अट् + पा + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + पा + झि [तिप्तस्.. 3.4.78 इति झि-प्रत्ययः]

→ अ + पा + जुस् [आतः 3.4.110 इत्यनेन आकारान्त-अङ्गात् परस्य सिच्-लुकः परस्य झि-इत्यस्य जुस्-आदेशः

→ अपुस् [उस्यपदान्तात् 6.1.96 इति आकार-उकारयोः पररूप-एकादेशः उकारः]

→ अपुः [विसर्गनिर्माणम्]

यदि अङ्गमाकारान्तम् नास्ति तर्हि अस्य सूत्रस्य प्रसक्तिः न भवति । यथा, भू-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् यद्यपि गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु 2.4.77 इति सिचः लुक् भवति, तथापि अङ्गमाकारान्तम् नास्ति अतः अस्मात् परस्य झि-इत्यस्य जुस्-आदेशः न भवति ।

Balamanorama

Up

index: 3.4.110 sutra: आतः


आतः - आतः ।झेर्जु॑सिति सूत्रमनुवर्तते ।आतः सिज्लुगन्तादिति वक्तव्य॑मिति वार्तिकं भाष्ये पठितम् । ततस्च सिज्लुकि यदाकारान्तं तस्मात्परस्य झेर्जुसिति लभ्यते । सिजभ्यस्तेति पूर्वसूत्रेणैव सिद्धे नियार्थमिदम् । तदाह — आदन्तादेवेति । अभूवन्निति । झिः । च्लिः । सिच् । लुक् । अट् । झोऽन्तः । इतश्चेति इकारलोपः । तकारस्य संयोगान्तलोपः ।भुवो वुग्लुङ्लिटो॑रिति वुक् । सिज्लुकि आतः परस्यैवेति नियमात्सिजभ्यस्तेति न जुसिति भावः । अभूरिति । सिप् च्लिः सिच् लुक् अट् इकारलोपः । रुत्वविसर्गौ । अभूतमिति । थसस्तम् च्लिः सिच् लुक् अट् । गुणनिषेधः । एवं थस्य तादेशे अभूतेति रूपम् । अभूवमिति । मिप् अम् । च्लिः सिच् । लुक् । अट् वुक् । अभूवेति । वस् च्लिः सिच् लुक् अट् । नित्यं ङित इति सकारलोपः । गुणनिषेधः । एवं मसि अभूमेति रूपम् । अथ माङि लुङि विशेषमाह — न माङयोगे । शेषपूरणेन सूत्रं व्याचष्टे -अडादौ न स्त इति ।लुङ्लङ्लृङ्क्ष्वडुदात्त॑ इत्यत,आडजादीना॑मित्यश्च तदनुवृत्तेरिति भावः । मा भवान्भूदिति ।मा स्म भवद्भूद्वेति । एवं बहुवचने मा स्म भवन् मा स्म भूवन्निति चोदाहरणं बोध्यम् । इति लुङ्प्रक्रिया ।

Padamanjari

Up

index: 3.4.110 sutra: आतः


सिच आकारान्ताच्च परस्य झेरिति । द्वाभ्यामनन्तरस्येत्यर्थः । कथमिति । आतः सिचा व्यवधानाद् द्वाभ्यामानन्तर्य न सम्भवतीति प्रश्नः । सिज्लुगन्ताद् झेर्जुस् भवतीत्युक्तं भवति । अभूवन्निति ।'भुवो वुग्लुङ्लिटोः' इति वुक् । तुल्यजातीयापेक्षत्वाच्चेति । द्वाभ्यामानन्तर्यस्याश्रवणात् सिज्लुगन्तस्य ग्रहणमित्युक्तम् । तेन - सिज्लुगन्ताद्यदि भवति आत एवेति नियमाश्रयणात् श्रूयमाणे सिचि अकार्षुरित्यादावनाकारान्तादपि भवत्येवेत्यर्थः ॥