3-4-112 द्विषः च प्रत्ययः परः च आद्युदात्तः च धातोः लस्य झेः जुस् लङः शाकटायनस्य एव
index: 3.4.112 sutra: द्विषश्च
लङः शाकटायनस्य इत्येव। द्विषः परस्य लङादेशस्य झेर्जुसादेशो भवति, शाकटायनस्य आचार्यस्य मतेन। अद्विषुः। अन्येषां मते अद्विषन्।
index: 3.4.112 sutra: द्विषश्च
लङो झेर्जुस्वा स्यात् । अद्विषुः । अद्विषन् । अद्वेषम् । द्विषीत । द्विक्षीष्ट । अद्विक्षत् ।{$ {!1014 दुह!} प्रपूरणे$} । दोग्धि । दुग्धः । धोक्षि । दुग्धे । धुक्षे । धुग्ध्वे । दोग्धु । धुग्धि । दोहानि । धुक्ष्व । धुग्ध्वम् । दोहै । अधोक् । अदोहम् । अधुग्ध्वम् । अधुक्षत् । अधुक्षत । लुग्वा दुह <{SK2365}> इति लुक्पक्षे तथास्ध्वंवहिषु लङ्वदपि ।{$ {!1015 दिह!} उपचये$} । उपचयो वृद्धिः । प्रणिदेग्धि ।{$ {!1016 लिह!} आस्वादने$} । लेढि । लीढः । लिहन्ति । लेक्षि-लीढे । लिक्षे । लीढ्वे । लेढु । लीढाम् । लेहानि । अलेट् । अलिक्षत । अलिक्षताम् । अलीढ । अलिक्षावहि ।{$ {!1017 चक्षिङ्!} व्यक्तायां वाचि$} । अयं दर्शनेऽपि । इकारोऽनुदात्तो युजर्थः । विचक्षणः प्रथयन् । नुम्तु न । अन्तेदितः इति व्याख्यानात् । ङकारस्तु [(परिभाषा - ) अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्] इति ज्ञापनार्थः । तेन स्फायन्निर्मोकसन्धीत्यादि सिध्यति । चष्टे । चक्षाते । आर्धधातुके <{SK2377}> इत्यधिकृत्य ॥
index: 3.4.112 sutra: द्विषश्च
द्विषश्च - द्विषश्च ।झेर्जु॑सितिलङः शाकटायनस्ये॑ति चानुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — लङो झेरिति । अद्विषन्निति । अद्वेट् अद्विष्टमद्विष्ट । अद्वेषमद्विष्व अद्विष्म । विधिलिङि परस्मैपदे आह - द्विष्यादिति । द्विष्याताम् द्विष्युः — इत्यादि । तङि आह — द्विषीतेति । द्विषीयाताम् द्विषीरन् इत्यादि । आशीर्लिङि द्विष्यास्ताम् — इत्यादि । तङ्याह — द्विक्षीष्टेति ।लिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । द्विक्षीयास्तामित्यादि । लुङि परस्मैपदे आह — अद्विक्षदिति । 'शल इगुपधात्' इति क्सः । अद्विक्षतामद्विक्षन्नित्यादि । तङित्यादौ प्रकृष्टपूरणस्यार्थस्यानवगमादाह — प्रपूरणं पूरणाऽभाव इति । ऊधः पूरणप्रतिकूलीभाव इत्यर्थः । ऊधशः सकाशात्क्षारणे इति यावत् । ननु प्रपूरणशब्दस्य कुतोऽयमर्थ इत्यत आह — धात्वर्थं बाधते कश्चिदिति । प्रसिद्धं धात्वर्तं कश्चिदुपसर्गो बाधित्वा अर्थान्तरं नयतीत्र्थः । दोग्धीति ।दादे॑रिति हस्य घः,झषस्तथो॑रिति तकारस्य धकारः, घस्य जश्त्वेन गः । एवं दुग्ध इत्यपि । दुहन्ति । धोक्षीति । हस्य घः, चर्त्वेन कः, षत्वमिति भावः । दुग्धः दुग्ध.दोहृ दुह्वः दुह्मः । लटि आत्मनेपदे आह — दुग्धे इति । घधगाः । दुहाते दुहते । धुक्षे इति । हस्य घः, दस्य भष् धकारः, घस्य कः, षत्वम् । दुहाथे । धुग्ध्वे इति । हस्य घः, भष्, घस्य गः । दुह्वहे दुहृहे । दुदोह, दुदुहतुः, दुदुहुः । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमान्नित्यमिट् । दुदोहिथ, दुदुहथुः दुदुह.दुदोह दुदुहिव दुदुहिम । दुदुहे दुदुहाते दुदुहिरे दुदुहिषे दुदुहाथे दुदुहिढ्वे — दुदुहिध्वे । दुदुहे दुदुहे दुदुहिवहे दुदुहिमहे । दोग्धा । धोक्ष्यति । धोक्ष्यते । दोग्ध्विति.दुग्धात् दुग्दाम् दुहन्तु । दुग्धीति । हेर्धिः ।घत्वजश्त्वे । दुग्धात् । दुग्धम् । दुग्ध । जश्त्वचर्त्वे । षत्वम् । दुहाथाम् । धुग्ध्वमिति । हस्य घः, भष्, घस्य जश्त्वम् । दोहै इति । आटः पित्त्वादङित्त्वाद्गुण इति भावः । दोहावहै दोहामहै । लङि परस्मैपदे आह — अधोगिति । तिप इकारलोपः, हल्ङ्यादिलोपः, हस्य घः, दस्य भष्, घस्य चर्त्वविकल्पः । अदुग्धामदुहन् । अधोक् अदुग्धमदुग्ध । अदोहमिति । अदुह्व अदुहृ । लङस्तङ्याह — अदुग्धेति । हस्य घः, तकारस्य धः, घस्य गः । अदुहातामदुहत । अदुग्धाः, अदुहाथाम् । अधुग्ध्वमिति ।क्सस्याऽचि॑ । अधुक्षातामधुक्षन्त । अधुक्षथाः, अधुक्षाथाम्, अधुक्षध्वम् । अधुक्षि, अधुक्षावहि, अध#उक्षामहि । लुग्वेति । त थास् ध्म् वहि — एषु चतुर्षु दन्त्यादिषु परेषुलुग्वा दुहे॑ति क्सस्य लुक्पक्षे लङीव रूपाणीत्यर्थः । तथा च अदुग्ध, अदुग्धाः, अधुग्ध्वम्, तदुह्वहि — इत्यपि रूपाणीति फलितम् । अधोक्ष्यत् । अधोक्ष्यत । दिह उपचये इति । #उपचयो वृद्धिःओओ । अनिट् । प्रणिदेग्धीति ।नेर्गदे॑ति णत्वम् । दुहधातुवद्रूपाणि । लिह आस्वादने इति । अनिट् । लेढीति । शपो लुकि ढत्वधत्वष्टुत्वढलोपाः । लेक्षीति । सिपि हस्य ढः ।षढो॑रिति ढस्य क इति भावः । लीढः लीढ । लेहमि लिह्वः लिह्मः । लटि तङ्याह — लीढे इति.लिहाते लिहते । लिक्षे इति । ढकषाः । लिहाते इति सुगमम् । लीढ्वे इति । ढत्वधत्वष्टुत्वढलोपदीर्घाः । लिहे लिह्वहे लिहृहे । लेढा । लेक्ष्यति । लेक्ष्यते । लेढ्विति । लीढात् लीढाम् लिहन्तु । लीढीति । हेर्धिः । ढत्वधत्वष्टुत्वढलोपदीर्घाः । लीढात् लीढम् लीढ । लेहानीति । आटः पित्त्वेन ङित्त्वाऽभावाद्गुण इति भावः । लेहाव लेहाम । लीढाम् लिहाताम् लिहताम् । लिक्ष्व लिहाथाम् लीढ्वम् । लेहै लेहावहै लेहामहै । अलेडिति । लङि तिपि शपो लुकि इकारलोपे हल्ङ्यादिलोपे हस्य ढः । चर्त्वविकल्प इति भावः । अलीढामलिहन् । अलेट् अलीढमलीढ । अलेहमलिह्व अलिहृ । अलीढ अल#इहातामलिहत । अलीढाः । अलिहाथामलीढ्वम् । अलिहि अलिह्वहि अलिहृहि । अलिक्षिदिति । लुङि क्सः । अलिक्षतामलिक्षन्त । अलिक्षथाः — अलीढाः, अलिक्षाथामलिक्षध्वम् — अलीढ्वम् । अलिक्षि ।लुग्वा दुहे॑ति लुग्विकल्पं मत्वा आह — अलिक्षावहि अलिह्वहीति । अलेक्ष्यत् अलेक्ष्यतेति । लृङि रूपे । द्विषादयश्चत्वारः स्वरितेतो गताः । चक्षिङ् व्यक्तायां वाचीति । गूढार्थस्य स्पष्टप्रतिपत्त्यर्थे विवरणे इत्यर्थः । अयं दर्शनेऽपीति । श्रुतौपूर्वाऽपरं चरतो माययैतो । शिशू क्रीजन्तौ परियातो अध्वरम् । विआआन्यन्यो भुवनानि चक्षे । ऋतूनन्यो विदधज्जायते पुनः इत्यादौ तथा दर्शनादिति नाप्यनुदात्तेत्त्वप्रयुक्तात्मनेपदार्थं तदिति शक्यं वक्तुं,ङित्त्वादेव तत्सिद्धेरित्यत आह — इकारोऽनुदात्तो युजर्थ इति । नाप्यनुदात्तेत्त्वप्रयुक्तात्मनेपदार्थं तदिति शक्यं वक्तुं, ङित्त्वादेव तत्सिद्धेरित्यत आह — इकारोऽनुदात्तो युजर्थ इति ।अनुदात्तेतश्च हलादे॑रिति ल्युडपवादयुच्प्रत्ययार्थ इत्यर्थः । अकारमुल्लङ्घ्य इकारोच्चारणं तु उच्चारणार्थत्वाऽभावप्रतिपत्त्यर्थमिकारस्य इत्संज्ञावश्यकत्वे नुमागमः स्यादित्यत आह — नुम् तु नेति । कुत इत्यत आह — अन्ते इदित इति ।इदितो नुम् धातो॑रित्यत्र 'गोः पादान्ते' इत्यस्मादन्ते इत्यनुवृत्तेरिति भावः । नन्विकारे युजर्थमनुदात्तत्वस्य इत्संज्ञकत्वस्य च आवश्यकत्वे तत एवात्मनेपदसंभवान्ङकारोच्चारणं व्यर्थमित्याशङ्क्य आह — ङकारस्त्विति । ङकारो नित्यात्मनेपदार्थः । अनुदात्तेतत्वप्रयुक्तं त्वात्मनेपदं कदाचिन्न स्यात्, अतो ङकारोच्चारणम् । अत एवअनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्य॑मिति विज्ञायत इत्यर्थः । स्फायन्निति ।स्फायी वृद्धा॑वित्यनुदात्तेतोऽपि लटः शत्रादेश न त्वात्मनेपदं शानजिति बावः । वस्तुतस्तु अन्त्येकत्ववयाघातेन चरितार्थत्वान्ङकारोच्चारणमुक्तार्थे कथं ज्ञापकम् , भाष्ये तथाऽनुक्तत्वाच्च । अतःपृषोदरादित्वकल्पनया स्फायन्निति कथंचित्साध्यमित्याहुः । चष्टे इति ।स्को॑रिति कलोपः, ष्टुत्वं चेति भाव- । चक्षाते इति । चक्षते । थासः सेभावेस्को॑रिति कलोपेषढोरिति षस्य कत्वे षत्वे च कृते चक्षे चक्षाथे । ध्वमिस्को॑रिति कलोपे षस्य जश्त्वेन ङकारे चड्ढ्वे । चक्षे चक्ष्वहे चक्ष्महे । आर्धधातुके इत्यनन्तरम् 'इत्यनुवर्तमाने' इति शेषः ।
index: 3.4.112 sutra: द्विषश्च
द्विषिरदादिः ॥