यासुट् परस्मैपदेषूदात्तो ङिच्च

3-4-103 यासुट् परस्मैपदेषु उदात्तः ङित् च प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लिङः

Sampurna sutra

Up

index: 3.4.103 sutra: यासुट् परस्मैपदेषूदात्तो ङिच्च


लिङः परस्मैपदेषु यासुट् उदात्तः ङित् च

Neelesh Sanskrit Brief

Up

index: 3.4.103 sutra: यासुट् परस्मैपदेषूदात्तो ङिच्च


लिङ्लकारस्य परस्मैपदस्य प्रत्ययानामुदात्तः ङित् यासुट् आगमः भवति ।

Neelesh English Brief

Up

index: 3.4.103 sutra: यासुट् परस्मैपदेषूदात्तो ङिच्च


The परस्मैपदस्य प्रत्ययाः of लिङ्लकार get a 'यासुट्' आगम which is both - उदात्त and ङित्.

Kashika

Up

index: 3.4.103 sutra: यासुट् परस्मैपदेषूदात्तो ङिच्च


लिङः इत्येव। परसमैपदविषयस्य् लिङो यासुडागमो भवति, स च उदात्तो भवति ङिच् च। सीयुटोऽपवादः। आगमानुदात्तत्वे प्राप्ते, ङित्त्वं तु लिङ एव विधीयते, तत्र तत्कार्याणां सम्भवाद्, न आगमस्य। कुर्यात्, कुर्याताम्, कुर्युः। स्थनिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्वचनं ज्ञापनार्थम्, लकाराश्रयङित्त्वमादेशानां न भवतीति। अचिनवम्। अकरवम्।

Siddhanta Kaumudi

Up

index: 3.4.103 sutra: यासुट् परस्मैपदेषूदात्तो ङिच्च


लिङः परस्मैपदानां यासुडागमः स्यात्स चोदात्तो ङिच्च । ङित्त्वोक्तेर्ज्ञायते क्वचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेध इति । श्नादेशस्य शानचः शित्त्वमपीह लिङ्गम् ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.103 sutra: यासुट् परस्मैपदेषूदात्तो ङिच्च


लिङः परस्मैपदानां यासुडागमो ङिच्च॥

Neelesh Sanskrit Detailed

Up

index: 3.4.103 sutra: यासुट् परस्मैपदेषूदात्तो ङिच्च


लिङ्लकारस्य विषये परस्मैपदस्य सर्वेषाम् नव-प्रत्ययानाम् लिङस्सीयुट् 3.4.102 इत्यनेन सीयुट्-आगमे प्राप्ते अपवादत्वेन अनेन सूत्रेण 'यासुट्' इति आगमः विधीयते । टित्-त्वात् अयमागमः आद्यन्तौ टकितौ 1.1.46 इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति । 'यासुट्' इत्यत्र टकारस्य इत्संज्ञा लोपश्च भवति, उकारः उच्चारणार्थः अस्ति । अतः 'यास्' इत्येव अवशिष्यते ।

अयम् यासुट्-आगमः वर्तमानसूत्रेण उदात्तः तथा ङित् इति विधीयते । किम् प्रयोजनमस्य ङित्वस्य ? अस्मिन् आगमे परे क्ङिति च 1.1.5 इत्यनेन अङ्गस्य गुणवृद्ध्योः निषेधः भवेत् इति स्पष्टीकर्तुमयमागमः 'ङित्' अस्तीति निर्दिष्टमस्ति । (परन्तु आशीर्लिङ्लकारस्य विषये किदाशिषि 3.4.104 इत्यनेन एतत् ङित्वं बाधित्वा अयमागमः कित्-भवति - इति अपि स्मर्तव्यम्) ।

  1. भू-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषैकवचनम् -

भू + लिङ् [आशिषि लिङ्लोटौ 3.3.173 इति लिङ्लकारः]

→ भू + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः । लिङ्गाशिषि 3.4.116 इत्यनेन अयमार्धधातुकसंज्ञकः भवति]

→ भू + यासुट् + ति [किदाशिषि 3.4.104 इत्यनेन उदात्तः कित् यासुट् आगमः । अतः सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन उकारस्य गुणे प्राप्ते आगमस्य कित्त्वात् क्ङिति च 1.1.5 इति गुणनिषेधः]

→ भू + यास् + सुट् + ति [सुट् तिथोः 3.4.107 इति सुट्-आगमः]

→ भूयास्स्त् [इतश्च 3.4.100 इति इकारलोपः]

भूयास्त् [स्कोः संयोगाद्योरन्ते च 8.2.29 इत्यनेन 'स्स्' इत्यस्य प्रथमसकारस्य तकारे परे (झलि परे) लोपः]

→ भूयात् [स्कोः संयोगाद्योरन्ते च 8.2.29 इत्यनेन स्त्' इत्यस्य सकारस्य पदान्ते लोपः]

  1. भू-धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनम् -

भू + लिङ् [विधिनिमन्त्रणा.. 3.3.161 इति लिङ्लकारः]

→ भू + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः । तिङ्शित् सार्वधातुकम् 3.4.113 इत्यनेन अयम् सार्वधातुकसंज्ञः भवति]

→ भू + शप् + ति [कर्तरि शप् 3.1.68 इति सार्वधातुकप्रत्यये परे औत्सर्गिकं गणविकरणम् शप्]

→ भो + अ + ति [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]

→ भो + अ + यासुट् + ति [यासुट् परस्मैपदेषूदात्तो ङिच्च 3.4.103 इति यासुट्-आगमः ]

→ भो + अ + यास् + सुट् + ति [सुट् तिथोः 3.4.107 इति सुट्-आगमः]

→ भो + अ + या + ति [लिङः सलोपोऽनन्त्यस्य 7.2.79 इति द्वयोः सकारयोः लोपः]

→ भो + अ + इय् + ति [अतो येयः 7.2.80 इति 'या' इत्यस्य इय्-आदेशः]

→ भो + अ + इय् + त् [इतश्च 3.4.100 इति इकारलोपः]

→ भो + अ + इत् [लोपो व्योर्वलि 6.1.66 इति यकारलोपः]

→ भव + इत् [एचोऽयवायावः 6.1.78 इति अवादेशः]

→ भवेत् [आद्गुणः 6.1.87 इति गुण-एकादेशः]

विशेषः - अस्मिन् सूत्रे यासुट्-आगमः 'उदात्तः' पाठितः अस्ति । अस्मिन् आगमे 'आ' इति एकः एव स्वरः विद्यते, अतः अस्य स्वरस्य उदात्तत्वमनेन विधीयते । परन्तु; वस्तुतः सर्वे प्रत्ययाः आद्युदात्तश्च 3.1.3 इत्यनेन मूलरूपेणैव आद्युदात्ताः सन्ति । तर्हि 'यासुट्' इत्यस्य पुनः उदात्तविधानस्य किम् प्रयोजनम् - इति प्रश्नः उपतिष्ठति । अस्मिन् विषये भाष्यकारः वदति - 'एतत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति - इति' । इत्युक्ते, अत्र 'उदात्त'ग्रहणमस्य ज्ञापकमस्ति यत् आगमाः औत्सर्गिकरूपेण अनुदात्ताः भवन्ति ।

Balamanorama

Up

index: 3.4.103 sutra: यासुट् परस्मैपदेषूदात्तो ङिच्च


यासुट् परस्मैपदेषूदात्तो ङिच्च - अथ लिङस्तिपि इतश्चेतीकारलोपे शपि गुणेऽवादेशे भव त् इति स्थिते — यासुट् पर ।लिङ सीयु॑डित्यतो लिङ इत्यनुवर्तते । षष्ठर्थे सप्तमी । तदाह — लिङः परस्मैपदानामिति । सीयुटोऽपवादः । यासुटि टकार इत्, उकार उच्चारणार्थः । टित्त्वात्तिबादीनामाद्यवयवः । अवयवे ङित्त्वं चआनर्थक्यात्तदङ्गेषु॑ इति न्यायेन समुदाये आगमविशिष्टतिबादौ विश्राम्यति । 'आगमा अनुदात्ता' इति यासुटोऽनुदात्तत्वे प्राप्ते उदात्तवचनम् । इदमेव वचनम् 'आगमा अनुदात्ता' इत्यत्र ज्ञापकमिति भाष्यम् । स्तुयात् स्तुयातामित्यादौ गुणादिनिषेधार्थं यासुटो ङित्त्ववचनम् । ननु यदागमा इति न्यायेन यासुडागमो लिङादेशपरस्मैपदावयवः, ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटो ङित्तवविधिर्व्यर्थः । न च स्थानिभूतलिङो ङकारस्याऽल इत्त्वेन गुणनिषेधविधावाश्रयणादनल्विधाविति निषेधः शङ्क्यः,घुमास्थागापाजहातिसां हली॑ति क्ङिति विहितस्य ईत्वस्यन ल्यपी॑ति निषेधेन लिङ्गेनाऽनुबन्धकार्ये अनल्विधाविति निषेधाऽभावज्ञापनादित्यत आह — ङित्त्वोक्तेरिति । क्वचदनुबन्धकार्येऽपि अनल्विधाविति निषेध इति । यासुटो ङित्त्वेन ज्ञायत इत्यन्वयः । तथा च एतज्ज्ञापनार्थमेव यासुटो ङित्त्वमिति भावः । ज्ञापनफलं तु वक्ष्यमाणेत्यत्र ङीबभावः । अन्यथा लृडादेशस्य शानचः स्थानिवत्त्वेन टित्त्वान्ङीप् स्यात् । ननुक्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेध॑ इत्यत्र यासुटो ङित्त्ववचनं न ज्ञापकम् । अनुबन्धकार्ये सर्वत्र अनल्विधाविति निषेधाऽभावे सत्यपि यासुटो ङित्त्वस्य तिप्सिप्मिबागमयासुटो ङित्त्वार्थमावश्यकत्वात्, नह लिङादेशत्वेऽपि तिपसिप्मिपां ङित्त्वं स्थानिवत्त्वलभ्यम् ।हलश्श्नश्शानज्झा॑विति सूत्रभाष्येङिच्च पिन्न पिच्च ङिन्ने॑ति प्रपञ्चितत्वादित्यस्वरसादाह — श्नः शानचः शित्तवमपीह लिङ्गमिति । इह — अनुबन्धकार्येऽपि क्वचदनल्विधाविति निषेधोऽस्तीत्यस्मिन्नर्थे, श्नः — श्नाप्रत्ययस्य, यः शानजादेशो हलः श्नश्शानज्झाविति विहितः, तस्य शित्त्वमपि लिङ्गं — ज्ञापकमित्यर्थः । अन्यथा स्थानिवत्त्वेनैव तस्य शित्त्वसिद्धेस्तद्वचनं व्यर्थं स्यादिति भावः । अत्र च यद्वक्तव्यं तत्स्त्रीप्रत्ययप्रकरणे वक्ष्यमाणेत्यत्र प्रपञ्चितम् ।

Padamanjari

Up

index: 3.4.103 sutra: यासुट् परस्मैपदेषूदात्तो ङिच्च


परस्मैपदविषयस्येति । लिङ्ः परेषा परस्मैपदानामसम्भवात् । सीयुटोऽपवाद इति । नाप्राप्ते तस्मिन्नारम्भात्, तेन यासुटि कृते तस्य तिङ्भक्तत्वातदादेः सीयुट्प्रसङ्ग इति न चोदनीयम् । सत्यपि हि सम्भवे सामान्यविधेर्वशेषविधिर्बाधकः । कथं तर्हि कृषीष्ट इत्यादिषु सुटि कृते सीयुड् भवति, ननु तत्रापि सुटा सींयुड् बाधनीयः ? अत्र परिहारं सुड्विधौ वृत्तिकारः स्वयमेव वक्ष्यति । आगमत्वादनुदातत्वै प्राप्त इति । अत एव यासुडुदातवचनाद्विज्ञायते - आगमा अनुदाता भवन्तीति, अन्यथा यासुटः प्रत्ययभक्तत्वात्प्रत्ययस्वरेणैव सिद्धमुदातत्वम् । नैतदस्ति ज्ञापकम्, यानि पिद्वचनानि तदर्थमेतत्स्यात् । यद्येतावत्प्रयोजनम्, अपिदित्येव ब्रूयात् ! तदेतदुदातवचनं ज्ञापकमेव - आगमा अनुदाता भवन्तीति । तत्र तत्कार्याणां सम्भवादिति । ग्रहिज्यादिसूत्रेऽपि धातोः स्वरूपग्रहणे तत्प्रत्ययो कार्यविज्ञानात्प्रत्ययस्यैव ग्रहणम् । कुर्यादिति । विकरणाश्रयो धातोर्गुणः, ठत उत्सार्वधातुकेऽ इत्युत्वम्,'ये च' इत्युकारलोपः । कुर्युरिति । झेर्जुस्,'लिङ्ः सलोपो' नन्त्यस्यऽ ठुस्यपदान्तात्ऽ । स्थानिविद्भावादेवेति ।'सार्वधातुकमपित्' इत्यतिदेशादिति नोक्तम् ; पिदर्थत्वान् चनम्य । यासुटो चनमिति । यासुडादेर्लिङे चनमित्यर्थः । इदानीमेव ह्युक्तम् - ङ्त्विं तु लिङ् एव विधीयते इति ? एतच्च ज्ञापनम् -'पिच्च ङ्न्नि भवति' इत्येतदनाश्रित्योच्यते । तदाक्षयणे तु स्थानिवद्भावेन प्राप्तं ङ्त्विमौपदेशिकेन पित्वेन बाध्यते इति प्राप्त्यर्थमेव चनं स्यात् ॥