दीधीवेवीटाम्
1-1-6 दीधीवेवीटाम् इकः गुणवृद्धी न धातुलोपः आर्धधातुके
Sampurna sutra
Up
दीधी-वेवी-इटाम् इकः गुण-वृद्धी न
Neelesh Sanskrit Brief
Up
दीधीङ्-धातोः, वेवीङ्-धातोः तथा च इडागमस्य इक्-वर्णस्य गुणवृद्धी न भवतः । यथा - दीध्यनीयः, वेव्यनीयः, भविता ।
Neelesh English Brief
Up
The इक् letter of - (a) the verb दीधीङ्, (b) The verb वेवीङ् , and (c) इडागम - do not undergo a गुण or a वृद्धि.
Kashika
Up
दीधीवेव्योरिटश्च ये गुणवृद्धी प्राप्नुतस्ते न भवतः। आदीध्यनम्। आदीध्यकः। आवेव्यनम्। आवेव्यकः । इटः खल्वपि — कणिता श्वः, रणिता श्वः। वृद्धिरिटो न संभवतीति लघूपधगुणस्यात्र प्रतिषेधः॥
Siddhanta Kaumudi
Up
दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
दीधीङ् (दीप्तिदेवनयोः) तथा च वेवीङ् (गतिव्याप्तिप्रजनकान्त्यसनस्वादनेषु) एतौ अदादिगणस्य धातू । एतौ द्वौ अपि धातू छान्दसौ स्तः (इत्युक्ते, केवलं वेदेषु एव एतयोः प्रयोगः दृश्यते) । एतयोः धात्वोः विद्यमानस्य अन्तिम-ईकारस्य इक्-वर्णस्य गुणः वृद्धिः वा न भवति । एवमेव इडागमस्य इकारस्य अपि गुणादेशः न भवति (इडागमस्य वृद्धिः नैव सम्भवति, अतः तस्य निषेधस्य अपि न प्रयोजनम्, अतः केवलम् गुणनिषेधः एव अत्र क्रियते) । क्रमेण उदाहरणानि एतानि —
1.दीधीङ्/वेवीङ्-धातोः गुणनिषेधः
दीधीङ्/वेवीङ्-धात्वोः अनीयर्-प्रत्यये परे <<सार्वधातुकार्धधातुकयोः>> 7.3.84 अनेन अङ्गस्य प्राप्तः गुणादेशः प्रकृतसूत्रेण निषिध्यते —
दीधीङ् (दीप्तिदेवनयोः, अदादिः, <{2.71}>) / वेवीङ् (गतिव्याप्तिप्रजनकान्त्यसनस्वादनेषु, अदादिः, <{2.72}>)
→ दीधी / वेवी + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः]
→ दीध्यनीय / वेव्यनीय [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन अङ्गस्य गुणादेशे प्राप्ते <<दीधीवेवीटाम्>> 1.1.6 इति सः निषिध्यते, अतः अत्र <<एरनेकाचोऽसंयोगपूर्वस्य>> 6.4.82 इति यणादेशे कृते रूपं सिद्ध्यति ]
2.दीधीङ्/वेवीङ्-धातोः वृद्धिनिषेधः
दीधीङ्/वेवीङ्-धात्वोः ण्वुल्-प्रत्यये परे <<अचो ञ्णिति>> 7.2.115 अनेन अङ्गस्य प्राप्तः वृद्ध्यादेशः प्रकृतसूत्रेण निषिध्यते —
दीधीङ् (दीप्तिदेवनयोः, अदादिः, <{2.71}>) / वेवीङ् (गतिव्याप्तिप्रजनकान्त्यसनस्वादनेषु, अदादिः, <{2.72}>)
→ दीधी / वेवी + ण्वुल् [<<ण्वुल्तृचौ>> 3.1.133 इति ण्वुल्-प्रत्ययः]
→ दीधी / वेवी + अक [<<युवोरनाकौ>> 7.1.1 इति अक-आदेशः]
→ दीध्यक / वेव्यक [<<अचो ञ्णिति>> 7.2.115 इत्यनेन अङ्गस्य वृद्ध्यादेशे प्राप्ते <<दीधीवेवीटाम्>> 1.1.6 इति सः निषिध्यते, अतः अत्र <<एरनेकाचोऽसंयोगपूर्वस्य>> 6.4.82 इति यणादेशे कृते रूपं सिद्ध्यति ]
3. इडागमस्य गुणनिषेधः
यत्र विकरणप्रत्ययस्य इडागमः भवति, तत्र अयं इडागमः तस्मात् अग्रे विद्यमानस्य प्रत्ययस्य कृते अङ्गावयवरूपेण स्वीक्रियते । अस्यां स्थितौ इडागमस्य गुणादेशे प्राप्ते प्रकृतसूत्रेण सः निषिध्यते । यथा, भू-धातोः लुट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपे अस्य सूत्रस्य इत्थं प्रयोगः भवति —
भू (सत्तायाम्, भ्वादिः, <{1.1}>)
भू + लुट् [<<अनद्यतने लुट्>> 3.3.15 इति लुट्]
→ भू + तास् + लुट् [<<स्यतासी लृलुटोः>> 3.1.33 इति तास्-विकरणप्रत्ययः]
→ भू + ता + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झि...>> 3.4.78 इति तिप्-प्रत्ययः]
→ भू + ता + डा [<<लुटः प्रथमस्य डारौरसः>> 2.4.85 इति तिप्-प्रत्ययस्य डा-आदेशः । अनेकाल्त्वात् सर्वादेशः]
→ भू + इट् ता + आ [<<आर्धधातुकस्येड् वलादेः>> 7.2.35 इति तकारादिविकरणप्रत्ययस्य इडागमः]
→ भू + इता + आ [टकारस्य इत्संज्ञा, लोपः]
→ भो + इता + आ [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति विकरणप्रत्ययस्य अङ्गस्य गुणः]
→ भो + इत् + आ [<<टेः>> 6.4.143 इति डित्-प्रत्यये परे अङ्गस्य टिसंज्ञकस्य लोपः । अत्र डा-इति डित्-प्रत्ययस्य अङ्गम् 'भो + इता' इति अस्ति । अस्य टिसंज्ञकस्य अत्र लोपः विधीयते । एतादृशे लोपे कृते <<पुगन्तलघूपधस्य च>> 7.3.86 इति अङ्गस्य उपधा-इकारस्य गुणः प्राप्नोति । परन्तु अयम् इकारः इडागमस्य इकारः अस्ति, अतः प्रकृतसूत्रेण अयम् इडागमः प्रतिषिध्यते ।]
→ भव् + इत् + आ [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः]
→ भविता
भाष्ये सूत्रस्य प्रत्याख्यानम्
भाष्यकारेण अस्य सूत्रस्य विषये
अयं योगः शक्यः अवक्तुम् इति उक्त्वा अस्य सूत्रस्य अनावश्यकता स्पष्टीकृता अस्ति । तत्र भाष्यकारस्य आशयः अयम् —
दीधीङ् तथा
वेवीङ् धात्वोः केवलं वेदेषु एव प्रयोगः भवति, तत्र च गुणं कृत्वा अपि एतयोः रूपाणि दृश्यन्ते, अतः <<सर्वे विधयः छन्दसि विकल्प्यन्ते>> इति परिभाषया एव एतयोः यथायोग्यं गुणं गुणनिषेधं वा कृत्वा रूपाणि साधयितुम् शक्यन्ते, तदर्थम् प्रकृतसूत्रे एतयोः निर्देशः नैव आवश्यकः — इति । एवमेव, इडागमस्य विषये भाष्यकारः ब्रूते —
आर्धदातुकस्येड्वलादेः इत्यत्र इड् इति अनुवर्तमाने पुनः इड्ग्रहहणस्य प्रयोजनम् इट् इट्-एव यथा स्यात्; यदन्यत् प्राप्नोति तत् मा भूद् इति । अस्य आशयः अयम् — <<नेड् वशि कृति>>
7.2.8 इत्यस्मात् सूत्रात्
इड् इति पदस्य वस्तुतः <<आर्धधातुकस्येड् वलादेः>>
7.2.35 इत्यत्र अनुवृत्तिः अवश्यं सम्भवति । तथापि पाणिनिना <<आर्धधातुकस्येड् वलादेः>>
7.2.35 इत्यत्र पुनः
इड् इति शब्दः स्थापितः अस्ति । अस्याः पुनरुक्तेः प्रयोजनम् '
इडागमः इट्-स्वरूपे एव भवेत्, तस्य अन्यः कोऽपि आदेशः नैव करणीयः' इति अस्ति । अतश्च
भविता इत्यादिषु उदाहरणेषु इडागमस्य गुणः मूलतः एव न सम्भवति, अतश्च अप्राप्तस्य गुणस्य निषेधार्थम् प्रकृतसूत्रं नैव आवश्यकम् — इति । अस्मिन् विषये अधिकं ज्ञातुम् जिज्ञासवः भाष्यम् पश्येयुः ।
Balamanorama
Up
<<दीधीवेवीटाम्>> - दीधीवेवी ।दीधीह् दीप्तिदेवनयोः॑वेवीङ् वेतिनी तुल्ये॑ । दीधीश्च वेवीश्च इट् चेति द्वन्द्वात् षष्ठी । 'इको गुणवृद्धी' इत्यतो गुणवृद्धी इति, 'न धातुलोप' इत्यतो नेति चानुवर्तते ।
Padamanjari
Up
ऽदीधीवेव्योऽरिति । 'दीधीङ् दीप्तदेवनयोः' 'वेवीङ् वेतिना तुल्ये' इत्येतयोः । अथ दीङ् क्षये' 'धीङ् अनादरे' 'वेञ् तन्तुसन्ताने' वी गत्यादिषु'-एतेषां ग्रहणं कस्मान्न भवति ? दीङस्तावन्न भवति, 'मीनातिमिनोतिदीङं ल्यपि च' इति चकारेणैज्विषय आत्वविधानात् । वेञोऽपि न भवति, गुणप्राप्त्यभावात्, नैतदस्ति; चकारस्तावन्मीनातिमिनोत्यर्थः स्यात्, दीङेऽपि ग्रहणं ल्यबर्थं स्यात्, वेञोऽपि प्रवेयमित्यत्र 'ईद्यति' इति ईत्वे कृते गुणः प्राप्नोति । एवं तर्हि चतुर्णां ग्रहणेऽभिप्रेते, असन्देहार्थं 'वीवेधीदीटाम्' इति ब्रूयात् । किञ्च-'अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी' । ऽइटश्चेऽति । आर्धधातुकस्येडित्यागमस्य । ननु धातुसाहचर्यात् 'इट किट गतौ' इत्यस्य धातोर्ग्रहणं युक्तम्, सत्यम्; प्रसिद्ध्यतिशयादागमस्य ग्रहणम्, आगमो हि प्रसिद्धतरः । शास्त्रेऽल्पाचरत्वेन पूर्वनिपाताभावाच्च धातुरिट्, दीधीवेव्योस्तु धातुत्वात्प्रकृतित्वाद् 'अभ्यर्हितं च' इति पूर्वनिपातः । अथ दीधीवेव्योः किमर्थं ग्रहणं, यावता छान्दसावेतौ च्छन्दसि च दृष्टानुविधिः, दृश्यते च गुणः 'होत्राय वृतः कृपयन्नदीधेत्', 'अधीधयुर्दाशराज्ञः' इति, अतस्तयोरनर्थकः प्रतिषेधः ? केचिदाहुः-'आदीध्यनमावेव्यनम् इत्युदाहरतो वृत्तिकारस्य नानयोश्छान्दसत्वमभिप्रेतम्, अन्यथा हि च्छन्दस्येव किंचिदुदाहार्यम्' इति, इदं तु वार्तिकविरुद्धम्; यदाह-'दीधीवेव्योश्छन्दोविषयत्वाद् दृष्टानुविधानाच्च च्छन्दस्यदीधेददीधयुरिति च गुणदर्शनादप्रतिषेधः' इति । ऽ आदीध्यनमिऽति । ल्युटि 'एरनेकाचः' इति यणादेशः । ऽकणितेऽति । 'कणिरणी शब्दार्थौ' लुटि तिपौ डादेशस्तासि टिलोपः, कणित् अ आ इति स्थिते तकारन्तं लघूपधमङ्गमिति प्राप्तस्य गुणस्य प्रतिषेधः । ननु च ङेड्वशि कृति' इत्यत इडित्यनुवर्तमाने 'आर्धधातुकस्येट्' इति पुनरिड्ग्रहणम् 'इडेव यथा स्याद्, विकारो मा भूद्' इत्येवमर्थं भविष्यति । यद्येवम्; अलावीत्, पिपठिषतेः क्विपि पिपठी रित्यत्र 'अकः सवर्णे दीर्घः' 'र्वोरुपधायाः' इति च दीर्घो न स्याद् । अङ्गप्रकरणे नियमादाङ्ग एव विकारो निवर्त्यते, इह च पिपठिषतेरप्रत्यये नपुंसके जसः शिः, अतो लोपस्य स्थानिवत्वान्नुम्न भवतीति शान्तमहतः' इति दीर्धत्वं न भवतीति पिपठिषि ब्राह्मणकुलानीति भवति ॥