ग्लाजिस्थश्च क्स्नुः

3-2-139 ग्लाजिस्थः च ग्स्नुः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Kashika

Up

index: 3.2.139 sutra: ग्लाजिस्थश्च क्स्नुः


छन्दसि इति निवृत्तम्। ग्ला जि स्था इत्येतेभ्यो धातुभ्यः, चकारात् भुवश्च तच्छीलादिषु क्ष्नुः प्रत्ययो भवति। ग्लास्नुः। जिष्णुः। स्थास्नुः। भूष्णुः। गिच्चायं प्रत्ययो न कित्। तेन स्थः ईकारो न भवति। क्ङिति च 1.1.5 इत्यत्र गकारोऽपि चर्त्वभूतो निर्दिश्यते, तेन गुणो न भवति। श्र्युकः किति 7.2.11 इत्यत्रापि गकरो निर्दिश्यते, तेन भुव इड् न भवति। क्ष्टोर्गित्त्वान् न स्थ ईकारः कङितोरीत्वशासनात्। गुणाभावस्त्रिषु स्मार्यः श्र्युकोऽनिट्त्वं गकोरितोः। दंशेश्छन्दस्युपसङ्ख्यानम्। दंक्ष्णवः पशवः।

Siddhanta Kaumudi

Up

index: 3.2.139 sutra: ग्लाजिस्थश्च क्स्नुः


छन्दसीति निवृत्तम् । गिदयं न तु कित् । तेन स्थः ईत्वं न । ग्लास्नुः । गित्त्वान्न गुणः । जिष्णुः । स्थास्नुः । चाद्भुवः । श्र्युकः किति <{SK2381}> इत्यत्र गकारप्रश्लेषान्नेट् । भूष्णुः ॥<!दंशेश्छन्दस्युपसंख्यानम् !> (वार्तिकम्) ॥ दङ्क्ष्णवः पशवः ॥

Balamanorama

Up

index: 3.2.139 sutra: ग्लाजिस्थश्च क्स्नुः


ग्लाजिस्थश्च क्स्नुः - ग्लाजिस्थश्च । निवृत्तमिति । व्याख्यानादिति भावः । चाद्भुव इत्यनुवकृष्यते । ग्ला, जि, स्था एषां द्वन्द्वात्पञ्चमी । ग्ला, जि,स्था, भू इत्येभ्यः क्स्नुः स्यात्तच्छीलादिष्वित्यर्थः । ककार इत् । 'स्थास्नु' इत्यत्र कित्त्वलक्षणं 'घुमास्थे' तीत्त्वमाशङ्क्याह — गिदयमिति । सूत्रे चर्त्वेन ककारनिर्देश इति भावः । गित्त्वान्न गुण इति ।क्क्ङिति चे॑त्यत्र गस्य चर्त्वेन ककारान्तरप्रश्लेषादिति भावः । ननु भूष्णुरित्यत्र इट् स्यात्,श्र्युकः किती॑ति कित एव इण्निषेधात् , अस्य च गित्त्वादित्यत आह — श्र्युक इति । प्रश्लेषादिति । चर्त्वेनेति भावः ।

Padamanjari

Up

index: 3.2.139 sutra: ग्लाजिस्थश्च क्स्नुः


ग्लाजिस्थश्च ग्स्नुः॥ चर्त्वभूत इति। चर्त्वं प्राप्तश्चर्त्वेन वा प्राप्त इत्यर्थः। र्श्युकः कितीत्यत्रापीति। गकारोऽपि चर्त्वभूतो निर्द्दिश्यत इत्यनुषङ्गः। वस्नोर्गित्वान्न स्थ ईकारः। स्थास्नुरित्यत्र ईकारो न भवति, क्स्नोर्गित्वात्। कङितोरीत्विशासनात्। ककारेऽकार उच्चारणार्थः। क्ङितोहिण्त्वमुच्यते, अयं तु गित्। यद्येवं जिष्णुर्भूष्णुरित्यत्र गुणः प्राप्नोति? - गुणाभावस्त्रिषु स्मार्यः। गित् कित् ङिदिति त्रिषु गुणाभावः स्मर्तव्यः;'क्ङिति च' इत्यत्र गकारप्रश्लेषात्। इह तर्हि भूष्णुरिति र्ठ्श्युकः कितिऽ इतीट्प्रतिषेधो न प्राप्नोति? - र्श्युकोऽनिट्त्वं गकोरितोः। र्श्युकः परस्य यदनिट्त्वं तद्गकारककारयोर्द्वयोरपीतोर्भवति, न केवलं ककारे; तत्रापि गकारस्य चर्त्वभूतस्य निर्द्देशात्। यद्येवम्, चर्त्वस्यासिद्धत्वाद्'हशि च' इत्युत्वं प्राप्नोति? सौत्रो निर्द्देशः, असंहितया वा निर्द्देशः करिष्यते च्छन्दसि। दंक्ष्णवः पशव इति। क्स्नोर्गित्वादुपधालोपाभावः॥