हलो यमां यमि लोपः
8-4-64 हलः यमां यमि लोपः पूर्वत्र असिद्धम् संहितायाम् ययि परसवर्णः अन्यतरस्याम्
Sampurna sutra
Up
हलः यमाम् यमि अन्यतरस्याम् लोपः
Neelesh Sanskrit Brief
Up
हल्-वर्णात् परस्य यम्-वर्णस्य यम्-वर्णे परे विकल्पेन लोपः भवति ।
Neelesh English Brief
Up
A यम्-letter sandwiched between a हल्-letter (on left) and the same यम्-letter (on right) is optionally removed.
Kashika
Up
अन्यतरस्यामिति वर्तते। हल उत्तरेषां यमां यमि परतो लोपो भवत्यन्यतरस्याम्। शय्या इत्यत्र द्वौ यकारौ, क्रमजस्तृतीयः, तत्र मध्यमस्य वा लोपो भवति। शय्या, शय्य्या। अदितेरपत्यमादित्य इत्यत्र तकारात् पर एको यकारः,<<यणो मयः०>> (८.४.४७ वा०) इति क्रमजो द्वितीयः, तत्र मध्यमस्य वा लोपो भवति — आदित्यः, आदित्य्यः। आदित्यो देवता अस्य स्थालीपाकस्येति आदित्य्यः, आदित्यः, आदित्य्य्य इति। अत्रापि द्वौ यकारौ, क्रमजस्तृतीयः, तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति। हल इति किम्? अन्नम्। यमामिति किम्? अर्घ्यम्। यमीति किम्? शार्ङ्गम्॥
Siddhanta Kaumudi
Up
हलः परस्य यमो लोपः स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भफलं तु, आदित्यो देवताऽस्येत्यादित्यं हविरित्यादौ । यमां यमीति यथासङ्ख्यविज्ञानान्नेह । माहात्म्यम् ॥
Laghu Siddhanta Kaumudi
Up
हलः परस्य यमो लोपः स्याद् वा यमि। इति यलोपः। आदित्यः। प्राजापत्यः। <<देवाद्यञञौ>> (वार्त्तिकम्) । दैव्यम्। दैवम्। <<बहिषष्टिलोपो यञ्च>> (वार्त्तिकम्)। बाह्यः <<ईकक्च>> (वार्त्तिकम्)॥
Neelesh Sanskrit Detailed
Up
हल् = सर्वाणि व्यञ्जनानि ।
यम् = अन्त:स्थाः + वर्गपञ्चमाः ।
हल्-वर्णात् अनन्तरम्, यम्-वर्णात् पूर्वम् विद्यमानस्य यम्-वर्णस्य प्रकृतसूत्रेण वैकल्पिकः लोपः भवति । अस्य सूत्रस्य द्वे उदाहरणे एतादृशे —
1. आदित्यः देवता यस्य अस्मिन् अर्थे <<दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः>> 4.1.85 अनेन सूत्रेण आदित्य शब्दात् ण्य-प्रत्यये कृते प्रकृतसूत्रेण यकारस्य लोपः विधीयते —
आदित्यः देवता अस्य [तद्धितवृत्तिः]
= आदित्य + ण्य [<<दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः>> 4.1.85 इति ण्य-प्रत्ययः]
→ आदित्य + य [णकारस्य <<चुटू>> 1.3.7 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः]
→ आदित्य् य [<<यस्येति च>> 6.4.148 इति अकारलोपः]
→ आदित् य [<<हलो यमां यमि लोपः>> 8.4.64 इति तकारात् (हल्-वर्णात्) परस्य यकारस्य (यम्-वर्णस्य) यकारे परे (यम्-वर्णे परे) विकल्पेन लोपः भवति ।]
→ आदित्य
2. आस्ये भवः अस्मिन् अर्थे आस्य-शब्दात् <<शरीरावयवाच्च>> 4.3.55 इति सूत्रेण यत्-प्रत्यये कृते पुनः आस्य इत्येव शब्दः सिद्ध्यति । अस्य प्रक्रियायां यकारस्य प्रकृतसूत्रेण लोपः कृतः दृश्यते —
आस्ये भवः [तद्धितवृत्तिः]
→ आस्य + यत् [<<शरीरावयवाच्च>> 4.3.55 इति यत्]
→ आस्य् + य [<<यस्येति च>> 6.4.148 इति अकारलोपः]
→ आस् + य [<<हलो यमां यमि लोपः>> 8.4.64 इति सकारात् (हल्-वर्णात्) परस्य यकारस्य (यम्-वर्णस्य) यकारे परे (यम्-वर्णे परे) विकल्पेन लोपः भवति ।]
→ आस्य
<<अनचि च>> 8.4.47 तथा च <<अचो रहाभ्यां द्वे>> 8.4.46 इत्यादिभिः सूत्रैः (वार्त्तिकैः च) द्वित्वे कृते अपि अस्य सूत्रस्य प्रयोगः सम्भवति, परन्तु कोऽपि नूतनः शब्दः न सिद्ध्यति, अपितु कृतद्वित्वस्य वर्णस्य एव अनेन सूत्रेण लोपं कृत्वा मूलशब्दस्य पुनः विधानं क्रियते । कानिचन उदाहरणानि एतानि —
1. <<अनचि च>> 8.4.47 इत्यस्मात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः —
शय्या
→ शय्य्या [<<अनचि च>> 8.4.47 इति यकारस्य वैकल्पिकं द्वित्वम्]
→ शय्या [द्वितीयस्य यकारस्य <<हलो यमां यमि लोपः>> 8.4.64 इति विकल्पेन लोपः]
2. <<अचो रहाभ्यां द्वे>> 8.4.46 इत्यस्मात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः —
दुर्लभ
→ दुर्ल्लभ [<<अचो रहाभ्यां द्वे>> 8.4.46 इति लकारस्य वैकल्पिकम् द्वित्वम् ]
→ दुर्लभ [प्रथम-लकारस्य <<हलो यमां यमि लोपः>> 8.4.64 इति विकल्पेन लोपः]
3. <!यणो मयो द्वे वाच्ये!> इत्यस्मात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः —
वाल्मीकि
→ वाल्म्मीकि [<!यणो मयो द्वे वाच्ये!> (वार्त्तिकम् 8.4.47) इति इति मकारस्य वैकल्पिकम् द्वित्वम् ]
→ वाल्मीकि [प्रथम-मकारस्य <<हलो यमां यमि लोपः>> 8.4.64 इति विकल्पेन लोपः]
यम्-वर्णस्य सवर्णे यम्-वर्णे परे एव लोपः
यद्यपि प्रकृतसूत्रे यम्-वर्णस्य यम्-वर्णे परे लोपः उक्तः अस्ति, तथापि अत्र केवलम् यम्-वर्णस्य तस्मिन् यम्-वर्णे परे एव लोपः विधीयते । इत्युक्ते, यकारस्य यकारे परे, लकारस्य लकारे परे — इत्यनेन प्रकारेणैव लोपः विधीयते । अतएव अस्य सूत्रस्य कौमुदीव्याख्याने यथासङ्ख्यविज्ञानात् इति शब्दः प्रयुक्तः अस्ति । अतएव माहात्म्यम् इत्यस्मिन् शब्दे विद्यमानस्य मकारस्य यकारे परे प्रकृतसूत्रेण लोपः नैव विधीयते ।
<<हलो यमां यमि लोपः>> 8.4.64 तथा च <<झरो झरि सवर्णे>> 8.4.65 इति द्वयोः सूत्रयोः पृथक् विधानस्य प्रयोजनम्
<<हलो यमां यमि लोपः>> 8.4.64 तथा च <<झरो झरि सवर्णे>> 8.4.65 इति द्वाभ्याम् अपि सूत्राभ्याम् लोपकार्यम् एव उक्तम् अस्ति । अतः एते द्वे सूत्रे एकत्रीकृत्य (इत्युक्ते, यम् + झर् = यर् इति यर्-प्रत्याहारस्य प्रयोगं कृत्वा) <<हलो यरां यरि सवर्णे लोपः>> इति एकम् सूत्रम् अपि कर्तुम् शक्यते । परन्तु तादृशं क्रियते चेत् मूर्ध्नः, शार्ङ्गम्, आर्त्नी इत्यादिषु शब्देषु हल्-वर्णात् परस्य (रेफात् परस्य) यर्-वर्णस्य (धकारस्य) सवर्णे यर्-वर्णे परे (नकारे परे) अनिष्टः लोपः सम्भवेत् । तादृशं मा भूत् इति ज्ञापयितुम् पाणिनिना यर्-प्रत्याहारस्य स्थाने यम् तथा झर् इति द्वौ प्रत्याहारौ पृथक् पृथक् प्रयुज्य द्वयोः भिन्नसूत्रयोः निर्माणम् कृतम् अस्ति । मूर्ध्नः, शार्ङ्गम्, आर्त्नी इत्यादिषु उदाहरणेषु झर्-वर्णात् परः झर्-वर्णः न हि विद्यते, अतः एतादृशेन भिन्नसूत्रस्य निर्माणेन एतेषु उदाहरणेषु अनिष्टः लोपः अपि न भवति ।
Balamanorama
Up
<<हलो यमां यमि लोपः>> - उभयत्रापि प्रथमयकारस्य लोपविधिमाह — हलो यमां यमि लोपः ।झयो होऽन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवर्तते । तच्च विभक्तिप्रतिरूपकमव्ययं वार्थे वर्तते । यमामिति बहुत्वं प्रयोगबहुत्वापेक्षम् । एकैकस्मिन् प्रयोगे बहूनां यमामसम्भवात् । 'हल' इति दिग्योगे पञ्चमी ।परस्ये॑ति शेषः । तदाह-हलः परस्य यम इत्यादिना । अनेन सूत्रेण उदाहरणद्वयेऽपि प्रथमयकारस्य लोपे सति एकयकाररूपे संपद्यते । लोपाऽभावपक्षे तु द्वियकाररूपं संपद्यते । ननुहलो यमा॑मिति सूत्रमेतदर्थं नारम्भणीयम्, अचो रहाभ्यामिति यकारद्वित्वस्य वैकल्पिकतया द्वित्वे सति द्वियकाररूपस्य, द्वित्वाऽभावे एकयकाररूपस्य च सिद्धेरित्याशङ्क्य नास्य सूत्रस्यात्र प्रयोजनमित्याह — इति लोपेति । तर्हि किमस्य सूत्रस्य फलमित्यत आह — लोपारम्भेति ।दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॑ इत्यादित्यशब्दाच्छेषार्थण्यान्ताद्देवतार्थेण्यः । आदित्य — य इति स्थितेयस्येति चे॑ति यकारादकारस्य लोपे तकाराद्यकारस्याऽनेन सूत्रेण लोपः । तस्मिन् सत्येव आदित्यमित्येकयकारं रूपं सिध्यति, नान्यथा । अतः सूत्रारम्भो न विफल इति भावः । अत्रआपत्यस्य च तद्धितेऽनाती॑ति लोपस्तु न, जाताद्यर्थकत्वेन आपत्यत्वाऽभावात् । अत्र त्वतत्सूत्रं न्याय्यत्वादुपन्यस्तमिति भावः । नन्वेवमपि महात्मनो भाव इत्यर्थेगुणवचनब्राआहृणादिभ्यः॑ इति ष्यञि टिलोपे आदिवृद्धौ माहात्म्यमित्यत्रापि तकारान्मकारस्य लोपः स्यात्, तस्य यम्त्वात्, यकाररूपयम्परकत्वाच्चेत्यत आह — यमामिति । यथासंख्यविज्ञानादिति । विज्ञायते अनेनेति विज्ञानं=सूत्रम् ।विज्ञानं शिल्पशास्त्रयोः॑ इत्यमरः । यथासंख्यसूत्रादित्यर्थः । तथाच मकारस्य मकारे परत एव लोपलाभाद्यकारे परे न लोप इत्यर्थः ।
Padamanjari
Up