मृजेर्वृद्धिः

7-2-114 मृजेः वृद्धिः

Sampurna sutra

Up

index: 7.2.114 sutra: मृजेर्वृद्धिः


मृजेः अङ्गस्य वृद्धिः

Neelesh Sanskrit Brief

Up

index: 7.2.114 sutra: मृजेर्वृद्धिः


मृज्-धातोः अङ्गस्य इक्-वर्णस्य वृद्धिः भवति ।

Neelesh English Brief

Up

index: 7.2.114 sutra: मृजेर्वृद्धिः


The verb root मृज् undergoes a वृद्धि.

Kashika

Up

index: 7.2.114 sutra: मृजेर्वृद्धिः


विभक्तौ इति निवृत्तम्। मृजेरङ्गस्य इको वृद्धिर्भवति। मार्ष्टा। मार्ष्टुम्। मार्ष्टव्यम्। मृजेरिति धातुग्रहणम् इदम्, धातोश्च कार्यमुच्यमानं धातुप्रत्यय एव वेदितव्यम्। तेन किंसपरिमृड्भ्याम्, कंसपरिमृड्भिः इत्यत्र न भवति।

Siddhanta Kaumudi

Up

index: 7.2.114 sutra: मृजेर्वृद्धिः


मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे ।<!क्ङित्यजादौ वेष्यते !> (वार्तिकम्) ॥ व्रश्च <{SK294}> इति षः । मार्ष्टि । मृष्टः । मृजन्ति-मार्जन्ति । ममार्ज । ममार्जतुः-ममृजतुः । ममार्जिथ । ममार्ष्ठ । मार्जिता-मार्ष्टा । मृड्ढि । अमाटर् । अमार्जम् । अमार्जीत्-अमार्क्षीत् ।{$ {!1067 रुदिर्!} अश्रुविमोचने$} ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.114 sutra: मृजेर्वृद्धिः


मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः। मार्ग्यः॥

Neelesh Sanskrit Detailed

Up

index: 7.2.114 sutra: मृजेर्वृद्धिः


'मृज्' (शुद्धौ) इति अदादिगणस्य धातुः । अस्य धातोः अङ्गस्य अनेन सूत्रेण वृद्धि-आदेशः भवति । इको गुणवृद्धी 1.1.3 इत्यनेन अस्मिन् सूत्रे 'इकः' इति पदमुपतिष्ठते, अतः 'मृज्-धातोः अङ्गस्य इकः वृद्धिः भवति' इति ज्ञायते । मृज्-इत्यत्र ऋकारमात्रः इक्-वर्णः अस्ति, अतः अस्य वृद्धि-आदेशं कृत्वा आकारः भवति, उरण् रपरः 1.1.51 इत्यनेन च सः रपरः भवति । अतः मृज्-इत्यस्य स्थाने 'मार्ज्' इति जायते ।

अयं आदेशः आर्द्धधातुके प्रत्यये परे अपि भवति, सार्वधातुके प्रत्यये परे अपि भवति । परन्तु कित् / गित् / ङित् प्रत्यये परे तु अनेन सूत्रेण वृद्ध्यौ प्राप्ते ग्क्ङिति च 1.1.5 इत्यनेन वृद्धेः निषेधः भवति । उदाहरणानि एतानि -

  1. मृज्-धातोः लट्लकारस्य प्रथमैकवचनस्य रूपम् -

मृज् + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ मृज् + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]

→ मृज् + शप् + ति [कर्तरि शप् 3.1.68 इति शप्]

→ मृज् + ति [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ मार्ज् + ति [पुगन्तलघूपधस्य च 7.3.86 इत्यनेन ऋकारस्य गुणे प्राप्ते अपवादत्वेन मृजेर्वृद्धिः 7.2.114 इति अङ्गस्य वृद्धिः]

→ मार्ष् + ति [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इति जकारस्य षकारः]

→ मार्ष् टि [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम्]

→ मार्ष्टि

  1. मृज्-धातोः तृच्-प्रत्यये परे वैकल्पिकः इडागमः भवति अतः रूपद्वयं जायते -

अ) इडागमस्य उपस्थितौ प्रक्रिया इयम् -

मृज् + तृच् [ण्वुल्तृचौ 3.1.133 इति तृच् -प्रत्ययः]

→ मृज् + इट् + तृ [स्वरतिसूतिसूयतिधूञूदितो वा 7.2.44 इति वैकल्पिकः इडागमः ]

→ मार्ज् + इट् + तृ [मृजेर्वृद्धिः 7.2.114 इति अङ्गस्य वृद्धिः]

→ मार्जितृ

आ) इडागमस्य अभावे प्रक्रिया इयम् -

मृज् + तृच् [ण्वुल्तृचौ 3.1.133 इति तृच् -प्रत्ययः]

→ मार्ज् + तृ [मृजेर्वृद्धिः 7.2.114 इति अङ्गस्य वृद्धिः]

→ मार्ष् + तृ [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इति जकारस्य षकारः]

→ मार्ष् + टृ [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम्]

→ मार्ष्टृ

  1. मृज्-धातोः क्त-प्रत्ययान्तरूपे यस्य विभाषा 7.2.15 इत्यनेन इडागमनिषेधः भवति, अतः प्रक्रिया इयम् जायते -

मृज् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]

→ मृज् + त [मृजेर्वृद्धिः 7.2.114 इत्यनेन मृज्-धातोः वृद्ध्यौ प्राप्ते ग्क्ङिति च 1.1.5 इत्यनेन तस्य निषेधः । यस्य विभाषा इत्यनेन इडागम-निषेधः]

→ मृष् + त [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इति जकारस्य षकारः]

→ मृष् + ट [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम्]

→ मृष्ट

Balamanorama

Up

index: 7.2.114 sutra: मृजेर्वृद्धिः


मृजेर्वृद्धिः - मृजेर्वृद्धिः । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितम् । मृजेरित्यवयवषष्ठी । तदाह — मृजेरिको वृद्धिः स्यादिति ।धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञान॑मिति परिभाषामभिप्रेत्य आह — धातुप्रत्यये परे इति । धातोर्विहिते प्रत्यये इत्यर्थः । तेन परिमृङ्भ्यामित्यत्र न वृद्धिरिति भावः । गुणापवादोऽयम् । क्ङित्यजादौ वेष्यते ।मृजेर्वृद्धि॑रिति शेषः । 'इको गुणवृद्धी' इति सूत्रभाष्ये इदं पठितम् । व्रश्चेति ष इति । मृज्-तीति स्थिते ऋकारस्य वृद्धौ रपरत्वे जकारस्य व्रश्चेति षत्वे तकारस्य ष्टुत्वेन टकारे मार्ष्टीति रूपमित्यर्थः । मृष्ट इति । ङित्त्वान्न वृद्धिर्नापि गुण इति भावः । मृजन्ति मार्जन्तीति ।क्ङित्यजादा॑विति वृद्धिविकल्प इति भावः । मार्षि मृष्ठः मृष्ठ । मार्ज्मि मृज्वः मृज्मः । ममार्जेति । णलिमृजेर्वृद्धि॑रिति अतुसादावजादौ किति वृद्धिविकल्पं मत्वा आह — ममार्जतुः ममृजतुरिति । ममार्जुः ममृजुरित्यपि ज्ञेयम् । ऊदित्त्वादिड्विकल्पं मृजेर्वृदिंध च मत्वा आह — ममार्जिथ ममार्ष्ठेति । इडभावे जस्य व्रश्चेति षः । थस्य ष्टुत्वेन ठ इति भावः । ममार्जथुः — ममृजथुः, ममार्ज — ममृज । ममार्ज, ममार्जिव-ममृजिव-मम#ऋज्व, ममार्जिम-ममृजिम- ममृज्म । लुटआह - मार्जिता मार्ष्टेति । ऊदित्त्वदिटि, तदभावे चमृजेर्वृद्धि॑रिति भावः । मार्जिष्यति — माक्ष्र्यति । मार्ष्टु — मृष्टात्, मृष्टाम्, मार्जन्तु — मृज्नतु । मृड्ढीति । हेरपित्त्वेन ङित्त्वान् वृद्धिः । व्रश्चादिना जस्य षः । हेर्धिः, षस्य जश्त्वेन डः, धस्य ष्टुत्वे ढः । मृष्टात् मृष्टम् मृष्ट । मार्जानि मार्जाव मार्जाम । लङ्याह — अमार्डिति । तिप इकारलोपे वृद्धौ रपरत्वे हल्ङ्यादिना तकारलोपे व्रश्चादिना जस्य षः, तस्य जश्त्वचर्त्वे इति भावः । अमृष्टाममार्जन्- अमृजन् । अमार्ट् अमृष्टममृष्टं । अमार्जमिति । अमृज्व अमृज्म । मृज्यात् । मृज्याताम् । मृज्यात् । मृज्यास्ताम् । अमार्जीत् अमार्क्षीदिति । ऊदित्त्वादिड्विकल्प इति भावः । इट्पक्षे अमार्जिष्टाममार्जिषुरित्यादि सुगमम् । इडभावे आमार्ष्टाममार्क्षुः । अमार्क्षीः । अमाष्र्टममाष्र्ट । अमाक्र्षममार्क्ष्व अमार्क्ष्म । अमार्जिष्यत — अमाक्ष्र्यत् । रुधिर्धातुरितित् । सेट् ।

Padamanjari

Up

index: 7.2.114 sutra: मृजेर्वृद्धिः


धातोश्च कार्यमुच्यमानमिति । वस्तुतो धातोर्यत्कार्यमुच्यते, तदिह धातोरुच्यमानमिति विवक्षितम् । स धातुः स्वरूपेणैव गृह्यतां मा वा, ग्राहितेन अनुदातस्य चर्दुपधस्यान्यतरस्याम् इत्ययमप्यमागमो धातुप्रत्यय एव भवति, न प्रमृज्भ्यामित्यादौ । तत्प्रत्यय इति । धातोरित्येवं विहिते । कंसपरिमृड्भ्यामिति । अत्र तदन्तविधिना प्रसङ्गः ॥