3-2-172 स्वपितृषोः नजिङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
छन्दसीति निवृत्तम्। स्वपेस्तृषेश्च तच्छीलादिषु कर्तृषु नजिङ् प्रत्ययो भवति। स्वप् — स्वप्नक् । तृष्णक् ॥ धृषेश्चेति वक्तव्यम्॥ धृष्णक् ॥
स्वप्नक् । तृष्णक् । तृष्णजौ । तृष्णजः । धृषेश्चेति वाच्यमिति काशिकादौ । धृष्णक् ॥
<<स्वपितृषोर्नजिङ्>> - स्वपितृषोर्नजिङ् । पञ्चम्यर्थे षष्ठी । स्वपेर्नजिङ् स्यात्तच्छलादिष्वित्यर्थः । जकारादिकार उच्चारणार्थः । ङकार इत् । स्वप्नगिति । स्वपनशील इत्यर्थ- । स्वप्नजौ स्वप्नजः । एवं तृष्णक् । तर्षणशीलः इत्यर्थः । धृषेश्चेति ।नजि॑ङिति शेषः । काशिकादाविति । भाष्ये तु न दृश्यते इति भावः ।