ई च खनः

3-1-111 ई च खनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च

Kashika

Up

index: 3.1.111 sutra: ई च खनः


खनेर्धातोः क्यप् प्रत्ययो भवति, ईकारश्च अन्तादेशः। खेयम्। दीर्घनिर्देशः प्रश्लेषार्थः। तत्र द्वितीय इकारो ये विभाषा 6.4.43 इति आत्त्वबाधनार्थः।

Siddhanta Kaumudi

Up

index: 3.1.111 sutra: ई च खनः


चात्क्यप् । आद्गुणः <{SK69}> । खेयम् । इ चेति ह्रस्वः सुपठः ॥

Balamanorama

Up

index: 3.1.111 sutra: ई च खनः


ई च खनः - ई च खनः । चात्क्यविति । खनेः क्यप् स्यात्प्रकृतेरीकारोऽन्तादेशश्चेत्यर्थः । ह्रस्व सुपठ इति । ह्रस्वस्य इकारस्य आद्गुणेनखेय॑मिति सिद्धेरिति भावः ।

Padamanjari

Up

index: 3.1.111 sutra: ई च खनः


ई च खनः॥ दीर्घोच्चारणं किमर्थम्, न ठि च खनःऽ इत्येवोच्येत, दीर्घस्य ह्रस्वस्य वा आद्गुणे नास्ति विशेषः, ह्रस्वादेशे'षत्वतुकोरसिद्धः' इत्येकादेशस्यासिद्धत्वाद् ध्रस्वाश्रयस्तुक् स्यादिति चेत्? न; पदान्तपदाद्योरेकादेशस्तुग्विधावसिद्धः, अन्यथा वृक्षेच्छत्रमिति ङवाद्गुणस्यासिद्धत्वाद्'छे च' इति ह्रस्वाश्रयो नित्यस्तुक् स्यादित्यत आह - दीर्घनिर्द्देश इत्यादि। एतेन ह्रस्वद्वयमत्र विधीयते, न दीर्घ इति दर्शयति। पूर्व तु यथाश्रुताश्रयणेनोक्तमीकारश्चान्तादेश इति। तत्रेति। प्रश्लेषे सति। ये विभाषेत्यात्वबाधनार्थ इति। अन्यथा'ये विभाषा' इत्यस्यावकाशः - खायते, खन्यते; अस्य त्ववकाशः - यस्मिन्पक्षे आत्वं नास्ति; आत्वपक्षे उभयप्रसङ्गे परत्वादन्तरङ्गत्वाच्चात्वं स्यात्। एतच्च'ये विभाषा' इति विषयसप्तमीपक्ष उच्यते। तदा हि यकारादौ बुद्धिस्थ एव भवदात्वमन्तरङ्गम्, अयं त्विकारः क्यपा सह विधानाद्बहिरङ्गः। परसप्तमीपक्षे त्विदमेवेत्वमन्तरङ्गम्, परनिमितमनपेक्ष्य विधानात्॥