1-1-3 इकः गुणवृद्धी वृद्धिः गुणः
गुणः, वृद्धिः (इत्येताभ्यां निर्दिष्टौ) गुण-वृद्धी इकः
यत्र 'गुण'शब्देन गुणादेशः निर्दिश्यते उत 'वृद्धि'शब्देन वृद्ध्यादेशः निर्दिश्यते, तत्र सः आदेशः इक्-वर्णस्य स्थाने भवति ।
If the words गुण or वृद्धि are used to denote the operation of गुणादेश or वृद्धि-आदेश without specifying where such an आदेश happens, then this आदेश should be done in place of the 'इक्' letter.
परिभाषेयं स्थानिनियमार्था। अनियमप्रसङ्गे नियमो विधीयते। वृद्धिगुणौ स्वसंज्ञया शिष्यमाणाविक एव स्थाने वेदितव्यौ। वक्ष्यति — <<सार्वधातुकार्धधातुकयोः>> ७.३.८४ अङ्गस्य गुण इति। स इक एव स्थाने वेदितव्यः। तरति। नयति। भवति। वृद्धिः खल्वपि — अकार्षीत्। अहार्षीत्। अचैषीत्। अनैषीत्। अलावीत्। अस्तावीत्। यत्र गुणवृद्धी स्वसंज्ञया विधीयेते तत्र इक इति एतदुपस्थितं द्रष्टव्यम्। किं कृतं भवति? द्वितीया षष्ठी प्रादुर्भाव्यते। मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्वङ्गेनेग् विशेष्यते। जुसि सार्वधातुकादिगुणेष्विकाङ्गं विशेष्यते। मेद्यति। अबिभयुः। इक इति किम्? आत्सन्ध्यक्षरव्यञ्जनानां मा भूत् — यानम्। ग्लायति। उम्भिता। पुनर्गुणवृद्धिग्रहणं स्वसंज्ञया विधाने नियमार्थम्। इह मा भूत् — द्यौः। पन्थाः। सः। इममिति॥
गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते ॥
यत्र
<<इको गुणवृद्धी>> - इको गुणवृद्धि । 'इक' इति षष्टन्तशब्दः स्वरूपपरो नपुंसकलिङ्गः प्रथमैकवचनान्तः । सोर्लुका लुप्तत्वादत्वसन्तस्येति दीर्घो न ओ ।इकस्शब्द इत्यर्थः । 'उपतिष्ठते' इति शेषः । 'वृद्धिरादैच्' 'अदेङ्गुणः' इत्यतो वृद्धिरिति गुण इति चानुवर्तते । इतिशब्दोऽध्याहार्यः ।यत्र विधीयते तत्रे॑त्यप्यध्याहार्यम् । गुणो वृद्धिरित्युच्चार्य यत्र गुणवृद्धि विधीयेते तत्र इक इति षष्ठन्तं पदमुपतिष्ठत इति योजना । तदाह — गुणवृद्धिशब्दाभ्यामित्यादिना । उपतिष्ठत इति । सङ्गतं भवतीत्यर्थः ।उपाद्देवपूचासङ्गतिकरणे॑त्यात्मनेपदम् । सोऽयं पदोपस्थितिपक्षो भाष्यादौ सिद्धान्तितः ।सार्वधातुकार्धधातुकयोः॑, मिदेर्गुणः॑ इत्याद्युदाहरणम् । इक इत्यस्यान्वयप्रकारस्तु तत्र तत्र स्पष्टीभवष्यति । 'यत्र विधीयेते' इत्युक्त्यावृद्धिर्यस्याचा॑मित्याद्यनुवादे इक इति नोपतिष्ठते । अनुवादे परिभाषामनुपस्थितेः । 'त्यदादीनामः' इत्यादावपि नेदमुपतिष्ठते, तत्र गुणवृद्धिशब्दयोरश्रवणात् ।
ऽपरिभाषेयमिऽति । नाधिकारः; अस्वरितत्वात्, असंयुज्यनिर्देशाच्च । अधिकारे हि 'इको गुणवृद्धी न धातुलोपः' इति संयुज्यैव निर्दिशेत् । नापि विधिः, 'इकः स्थाने गुणवृद्धी भवतः' इति लक्षणान्तरेण विधास्यामानत्वात् । ननु यदायं स्वतन्त्रो विधिस्तदा तेष्विक इत्यस्योपस्थापकाभावाद् यातेत्यादावनिकोऽपि विधिः स्यात्, इह तु सार्वधातुकाद्यभावेऽपि दधि मध्वित्यादौ विधिरस्तु ? एवं तर्हि गुणवृद्ध्यधिकारे पुनर्गुणवृद्धिग्रहणान्न विधिः । यद्यपि प्रकृतं गुणवृद्धिग्रहणं संज्ञापरम्, इह त्वनुवृत्तिसामर्थ्यात्संज्ञिपरं भविष्यति । 'अदेङ् गुणः' इत्यत्र चानुवर्तमानमपि वृद्धिग्रहणं न संबध्यते, अन्यवचनाच्चकाराकरणाच्च । अन्या हि तत्र गुणसंज्ञोच्यते, चकारश्च न क्रियते; अतो विधिपक्षे पुनर्गुणवृद्धिग्रहणं न कर्तव्यम् । अत एवाधिकारोऽपि न भवति । परिभाषायां तु तस्यां विशिष्टविषयत्वसिद्धये कर्तव्यं तदिति वक्ष्यामः । अतः परिभाषेयम् । योगो वायं व्यपदिश्येत, सूत्रं वा, तत्कथम् 'इयम्' इति स्त्रीलिङ्गनिर्द्देशः ? उच्यते-यथायं योगः, यथा वा सूत्रमिदम्, एवं परिभाषापि, तत्सामानाधिकरण्यादियमिति निर्देशः । ननु परिभाषात्वं विधित्सितम्, इदंशब्दस्तु उद्देशकः, सिद्धरूपस्य चोद्देशः, सूत्ररूपता योगरूपता वा सिद्धेति पुनरप्युद्देशकस्य स्त्रीलिङ्गानुपपतिः । कश्चिदत्र परिभाषेयमित्यनूद्य स्थानिनियमार्थता विधीयते-'येयं परिभाषा सा स्थानिनियमार्थेति, न तु परिभाषारूपता विधीयते' इत्याह, स वाच्यः-'असिद्धं परिभाषात्वं कथमनूद्यते' इति । अव्यापकश्चायं परिहारः शमर्थः पदविधिः' इत्यादौ । तत्र परिभाषेयमित्येतावच्छ्रूयते, न पुनरेतदर्थेति । वयं तु ब्रूमः-निर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गभाञ्जि भवन्ति । तत्र यथा 'अणौ यत्कर्म णौ चेत्स कर्ता' इति कर्माकारपरामर्शिनोऽपि तच्छब्दस्य विधीयमानस्य कर्त्राकारस्य लिङ्गं भवति, तद्वदिहापि सूत्रमेवोद्दिश्यत इदंशब्दस्य विधीयमानपरिभाषाकारस्य लिङ्गं भविष्यति । ऽस्थानिनियमार्थेऽति । इगाख्ये स्थानिनि गुणवृद्ध्योर्नियमोऽर्थः उ प्रयोजनं यस्याः सा तथोक्ता । 'द्वन्द्वे घि' इत वृइद्धिशब्दस्य पूर्वनिपातः प्राप्तः सूत्रनिर्देशेन नित्यं बाध्यते;'धर्मादिषु उभयम्' इति वचनादिति सूचयन्नाह-ऽवृद्धिगुणाऽवित्यादि । किं पुनरनेन ग्रन्थेनोच्यते ? ननु नियमरूपेणास्य सूत्रस्य प्रवृत्तिरिति; यथा 'एच इग्घ्रस्वादेशे' ह्रस्व आदिश्यमान एच इगेवेति । यद्येवम्, अनियमप्रसङ्गे नियम इति 'सार्वधातुकार्धधातुकयोः','सिचि वृद्धिः' इत्यत्रैव स्यात्, अत्र ह्यसत्यस्मिन्योगेऽलोऽन्त्यस्य भवन्तौ वृद्धिगुणावनन्त्यस्याविशेषितत्वादिकश्चानिकश्व प्राप्नुतः, न तु मिदिमृजिपुगन्तलधूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्वपि। अत्रालोन्त्यस्येत्यनिक एव प्रसङ्गः । अथ सर्ववाक्यानां सावधारणत्वात् प्राप्तमेवावधारणमिक एवेत्येव शब्देनाभिधीयते, न पुनर्नियमोऽनेन प्रदर्श्यते; यथा-'तपस्तपः कर्मकस्यैव' इति । अतो विधिरूपेणैवास्य व्यापारो विवक्षितः, परिभाषात्वाच्च गुणवृद्धिविधेः संस्कारकं विध्यन्तरमिदम्, यथा 'इद्गोण्याः' इत्यादेः'अलोऽन्त्यस्य' इत्ययमिति पक्षः । ततो नाप्राप्तायामलोऽन्त्यपरिभाषायामियमारभ्यमाणा तस्या बाधिका स्यात् । ततश्च यत्रैषा, न तत्र सा प्रवर्तेतेति जुसि गुणो यथेह भवति - अबिभयुः अबिभरुरिति, एवमनेनिजुः पर्यवेविषुरत्रापि प्राप्नोति । 'सार्वधातुकार्धधातुकयोः' यथेह भवति चेता स्तोतेति; एवमीहिता, ऊहिता, उम्भिता अत्रापि प्राप्नोति । अथ तु सामान्यविशेषयोरसम्भवे बाध्यबाधकभावः; अस्ति चात्र सम्भवो यद् अलोऽन्त्यस्य गुणवृद्धी स्याताम् इकश्च, ततः 'जुसि च' इत्यादौ गुणवृद्धिलिङ्गादिक्परिभाषाप्युपतिष्ठत, अङ्गस्येति स्थानषष्ठीनिर्देशात्, 'अलोऽन्त्यस्य' इत्येषापि । तत्र च न समुच्चयोऽङ्गान्त्यस्यानिकोऽपि गुणो भवति, तदवयवस्य चेकोऽनन्त्यस्यापीति । नापि विकल्पः;कदाचिदङ्गान्त्यस्यानिकोऽपि, कदाचितदवयवस्येकोऽनन्त्यस्यापीति, एकत्वात् षष्ठ।ल्र्थस्यैक एव हि सकृच्छ्4%अताया अङ्गस्येति षष्ठ।ल अर्थः-स्थानेयोगो वा थ अवयवयोगो वा, न द्वौ समुच्चितौ नापि विकल्पितौ । तत्र यद्यङ्गस्येत्येतत्पूर्वमिक इत्यनेन वैयधिकरण्येन संबध्येत-'अङ्गस्य य इक्, तस्य गुणः' इति, ततोऽलोऽन्त्यस्येत्येतदनन्वितं स्यात् । अतः पूर्वमलोन्त्यस्येत्यनेन संबध्यते, स चान्त्येका विशेष्यते 'अङ्गान्त्यस्येको गुणः' इति । यद्वा-इकाऽङ्गं विशिष्यते, विशेषणेन च तदन्तविधिः-इगन्तस्याङ्गस्येति । एवमपि हि स्थानषष्ठीत्वानपायादलोन्त्यस्येत्यव्याहतप्रसरं सर्वथाङ्गान्त्यस्येको गुण इति जुसि सार्वधातुकार्धधातुकगुणे न कश्चिद्दोषः । मिदादिषु पूर्वोक्तेन प्रकारेण द्वयोरन्वयासंभावदन्यतरद्धातव्यम् । तत्राविशेषादुभयमपि त्यज्येत, उच्येते च वृद्धिगुणौ 'मृजेर्वृद्धिः' 'मिदेर्गुणः' इति, तौ सर्वादेशौ स्याताम् । अतो विधिरूपेण नियमरूपेण वास्य सूत्रस्य व्यापारो नाभ्युपगन्तव्यः, किं तर्हि ? अनेन क्रियते पदोपस्थापनम्; यत्र ब्रूयाद् गुणो भवतीति, वृद्धिर्भवतीति; तत्रेक इत्येतत् षष्ठ।ल्न्तं पदमुपतिष्ठतामिति । 'अलोऽन्त्यस्य' इत्यस्य तु वाक्यभावः । एवं हि विज्ञायमाने 'सिचि वृद्धिः' इत्यादौ यत्रान्त्य इक् संभवति, तत्रेक इत्येतेनोपस्थितेनाङ्गे विशेषिते तदन्तविधौ सतीगन्ताङ्गस्य गुण इति वाक्यव्यापारे परिनिष्ठते पश्चादलोऽन्त्यस्येत्येतदिगन्तस्य प्राप्तं गुणं ततोऽपकृष्याङ्गान्त्यस्य विधते, न त्विक इत्यस्योपस्थानवेलायामुपतिष्ठते । 'मिदेर्गुणः' इत्यादौ तु यत्रान्त्य इङ् न संभवति तत्राङ्गेनेकि विशेषितेऽङ्गस्येको गुण इति वाक्यव्यापारे परिसमाप्ते स्थानषष्ठ।ल्भावात्स्वयं न प्रवर्तते, न त्विक इत्यनेन सहोपतिष्ठते, येनाविशेषादुभयोर्निवृत्तिः स्यादिति सिद्धमिष्टम् । वृत्तिकारेण त्वस्य सूत्रस्य प्रयोजनं पिण्डीकृत्य प्रदर्शितम्-सर्वथान्त्यस्य वाऽनन्त्यस्य वेक एव गुणवृद्धी भवतः, न त्वक्षरव्यापारः । अत एव ऽवेदितव्यौऽ इत्याह । अक्षरव्यापारप्रदर्शने तु इक एव स्थाने भवत इत्येतावद्वक्तव्यं स्यात् । ऽस्वसंज्ञया शिष्यमाणाऽविति । वृद्धिर्भवति गुणो भवतीत्येवं विधीयमानावित्यर्थः । ऽइक इति किमिऽति । प्रधानावयवाक्षेपेण समुदायस्यैवाक्षेपः-सूत्रं किमर्थमित्यर्थः । ऽआत्सन्ध्यक्षरेऽत्यादि । ननु 'गापोष्टक्' इति टकः कित्करणं सामग इत्यादावाल्लोपे च सिद्धं स्यात् सामग इति । तथा ग्लायतीत्यादौ सन्ध्यक्षराणामप्युपदेशसामर्थ्याद् गुणो न भविष्यति, इतरथा प्रक्रियालाघवार्थमेकारमेवोपदिशेत् । 'जनेर्डः' इति डित्करणाद्व्यञ्जनानामपि गुणो न भविष्यति । यदि हि तस्य स्याद्, अर्द्धमात्रस्य मात्रिकेऽकारे गुणे कृते सिद्धं स्यादुपसरज इति । यद्येवम्,मिदेर्गुणोऽन्त्याद्व्यावर्तितः सर्वादेशः स्यात् । किं च गमेरप्ययं डो भवति, तस्य च स्थानत आन्तर्यादोकारो गुणः स्यात्; रैनौग्लौशब्देभ्यश्चाचाराक्विबन्तेभ्यस्तृजादौ गुणप्रसङ्गो यद्यभिधानमस्ति; तथा चितः, चिनुतः,भिन्नः, बेभिद्यते इत्यादौ 'क्ङिति च' इति प्रतिषेधार्थमपि गुणस्येग्लक्षणत्वमेषितव्यम् । अथ वृद्धिग्रहणं किमर्थम् ? 'मृजेर्वृद्धिः' इको यथा स्यात्, अलोऽन्त्यस्य मा भूत् । योगविभागात्सिद्धम् - 'मृजेर्वृद्धिरचः', मृजेरचो वृद्धिर्भवति, अङ्गाक्षिप्तेन प्रत्ययेनाचो विशेषणात् ङ्यमार्ट्' अटो न भविष्यति, सिचि वृद्धिस्तर्ह्यकारस्य मा भूत्, अचिकीर्षीत् । अतो लोपो भविष्यति, 'ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषिद्धम्?' इति वचनात्, यथा-चिकीर्षक इति । आकारस्य नास्ति विशेषः; सग्विधानादसंभवश्च । एजन्तमपि न संभवति; आत्वविधानात् । रैनौग्लोशब्दानामाचारक्विबन्तानामविशेषः, गोशब्दस्य क्विबन्तस्य 'आञ्त इद्धातोः' इत्यतः 'धातोः' इत्यनुवृतेः धातुरेव यो धातुरिति विज्ञानात् सिचि वृद्ध्यभावः । अभैत्सीदित्यादौ 'सिचि वृद्धिः' इत्यनेन व्यञ्जनस्य नाप्राप्तायां वृद्धौ विधीयमाना हलन्तलक्षणा वृद्धिर्बाधिका, ङेटि' इत्ययं च निषेधो यावती हलन्तस्य वृद्धिः, सिचि वृद्धिरिति वा, हलन्तस्याचेति वा, सा सर्वा न भवतीति विज्ञायते । तेन अनर्दीदित्यादौ अन्त्यस्य वृद्धिर्न भविष्यति । तदेवम् 'इको वृद्धिर्यथा स्याद् अदेङ्व्यञ्जनानां मा भूद्' इत्येवमर्थं तावद् वृद्धिग्रहणं न कर्तव्यम् । एवं तर्हि मृज्यते, मृष्ट इत्यादौ 'क्ङिति च' इति प्रतिषेधार्थं मृजेर्वृद्धेरिग्लक्षणत्वम् । इदमपि योगविभागात्सिद्धम् - मृजेर्वृद्धिरित्यस्यानन्तरमजादौ क्ङिति वेति वक्तव्यम् - परिमृजन्ति परिमार्ज्जन्ति,परिममृजतुः परिममार्जतुरित्येवमर्थम् । तत्र योगविभागः-'अजादौ क्ङिति मृजेरचो वृद्धिर्भवति' । किमर्थमिदम् ? नियमार्थम् - क्ङिति यदि भवति अजादावेवेति । तेन मृज्यते मृष्ट इत्यादौ न भविष्यति, ततो वा, अजादावपि विकल्पेनेति । सिचि वृद्धेस्तर्हि प्रतिषेधार्थमिग्लक्षणत्वम् । 'णु स्तुतौ' 'धू विधूनने' कुटादी, न्यनुवीद् न्यधुवीद् । अत्राप्यन्तर्भूतसिज्मात्रापेक्षत्वादन्तरङ्ग उवङ् सिति हलन्तत्वात् ङेटि' इति निषेधः । यदि सिच्यन्तरङ्गं भवति, अचैषीद् अहौषीद् अहौषीद्-गुणः स्यात् । अस्तु, तस्यैव वृद्धिः करिष्यते ? अकार्षीदित्यादौ हलन्तलक्षणा वृद्धिः, अतारीदित्यादौ हलन्तलक्षणायाः ङेटि' इति प्रतिषेधे 'अतो हलादेः ' इति विकल्पं बाधित्वा 'अतो लरन्तस्य' इति नित्या वृद्धिः । अलावीदित्यादावुवर्णान्तेषु सेटि सिच्यन्तरङ्गत्वाद् गुणावादेशयोः कृतयोरपि 'अतो लरन्तस्य' इत्यत्र वकारस्यापि लुप्तनिर्दिष्टत्वान्नित्या वृद्धिः । यद्येवम्, मा भवानवीत्, अमवीदित्यत्रापि तर्हि वकारप्रश्लेषान्नित्या वृद्धिः स्यात् । सिच्यन्तरङ्गं भवतीत्युक्ते 'ह्म्यन्तक्षण' इत्यत्र णिश्विग्रहणं न कर्तव्यम्; औनयीत्?, अश्वयीदित्यत्रान्तरङ्गत्वाद् गुणावयादेशयोः कृतयोर्यान्तानां नेत्येव सिद्धत्वात् । तत्स्थाने 'अविमवीङिवेशयिष्यामः-'अतो लरन्तस्य' इत्यत्र वकारप्रश्लेषेण प्राप्तवृद्धिरविमव्योर्नेति । तदेवमनर्थकं वृद्धिग्रहणम् ? नानर्थकम्, सिच्यन्तरङ्गस्य प्रवृत्तिमाश्रित्य हि वृद्धिग्रहणं प्रत्याख्यायते,यदि च सिच्यन्तरङ्गं स्यात् चिनीप्रभृतिभ्यो यङ्गलुगन्तेभ्यश्चिरिणोतिजिरिणोतिभ्यां च लुङ् इसिचि अचेचायीद्; अनेनायीद्, अचिरायीद्, अजिरायीदिति? न स्याद्; गुणायादेशयोः कृतयोः यान्तानां नेति प्रतिषेधप्रसङ्गाद् । इग्लक्षणायां तु सिचि वृद्धौ तयैवान्तरङ्गं बाध्यते, यदि स्याद्, न क्वापि सिचीगन्तमङ्गं भवेत्, ततश्चाचिरायीदित्यादि सिद्धम् । यथा च तया गुणायदेशौ बाध्येते, एवं न्यनुवीदित्युवङपि बाध्येत । अतः प्रतिषेधार्थमपि वृद्धेरिग्लक्षणत्वमेषितव्यमिति सर्वमवदातम् । एवं बहुवक्तव्यत्वाद् वृत्तिकारेण वृद्धिग्रहणस्य प्रयोजनं न दर्शितम् । अथ कथं स्वसंज्ञया शिष्यमाणावित्येष विशेषो लभ्यते इत्याह-ऽगुणवृद्धिग्रहणमिऽत्यादि । इह पूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते । तेनैवादेङमादैचां च ग्रहणे सिद्धे यत्पुनर्गुणवृद्धिग्रहणं तत्स्वसंज्ञया विधाननियमार्थम्; अन्यथा प्रकृतंगुणवृद्धिग्रहणं तटस्थमुपलक्षणं स्याद् - ऽवस्तुतो ये गुणवृद्धी तद्विधौऽ इति । स तु विधिर्गुणवृद्धिशब्दाभ्यां प्रकारान्तरेण वेत्येव विशेषो नाश्रितः स्यात्, पुनर्गुणवृद्धिग्रहणसामर्थ्यातु शब्दव्यापारोऽप्याश्रीयते - गुणवृद्धी ये गुणवृद्धी, एवं शब्दिते ये गुणवृद्धी इत्यन्यतरस्य गुणवृद्धिग्रहणस्य स्वरूपप्रधानत्वं सम्पद्यते । तेनायं विशेषो लभ्यत इत्यर्थः । अन्यथा 'अचश्च' इत्यस्य स्वसंज्ञया विधाने नियमस्य 'दिव उत्' इत्यादिष्वगुणवृद्धिसंज्ञकेषु; तत्संज्ञेषु च यत्रेङ् न संभवति 'अष्टन आ विभक्तौ' इत्यादौ, तत्र चरितार्थत्वात् 'दिव औत्' इत्यादिषु गुणवृद्धिसंज्ञकेषु यत्रेक् संभवति तत्रायं नियमः स्यात् । द्यौः पन्थाः, सः,इममिति । स इत्येतदनुदाहरणम्, न ह्यत्रेगस्ति । एवं प्रकटितोऽस्माभिर्भाष्ये परिचयः परः । तस्य निःशेषतो मन्ये प्रतिपतापि दुर्लभः ॥