1-2-41 अपृक्तः एकाल् प्रत्ययः
एकाल् प्रत्ययः अपृक्तः
यस्मिन् प्रत्यये केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते ।
A प्रत्ययः that contains only one letter is called अपृक्त ।
अपृक्त इतीयं संज्ञा भवति एकाल् यः प्रत्ययस्तस्य । असहायवाची एकशब्दः। <<स्पृशोऽनुदके क्विन्>> (३.२.५८) — घृतस्पृक्। <<भजो ण्विः>> (३.२.६२) — अर्धभाक्। पादभाक्। एकालिति किम्? दर्विः। जागृविः। प्रत्यय इति किम्? सुराः। अपृक्त — प्रदेशाः — <<वेरपृक्तस्य>> (६.१.६७) इत्येवमादयः॥
एकाऽल्प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ॥
एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात्॥
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अपृक्त' इति संज्ञा । यस्मिन् प्रत्यये एकः एव वर्णः विद्यते, तस्य अनेन सूत्रेण 'अपृक्त' इति संज्ञा भवति । यथा - 1) प्रथमैकवचनस्य सुँ-प्रत्ययस्य इत्संज्ञालोपात् अनन्तरम् 'स्' इति एकाल् रूपम् अवशिष्यते । अस्य 'अपृक्तः' इति संज्ञा भवति । 2) लङ्लकारस्य स्थाने विहितस्य प्रथमपुरुषैकवचनस्य 'तिप्' प्रत्ययस्य पकारस्य इतसंज्ञालोपे कृते 'ति' इत्यत्र विद्यमानस्य इकारस्य <<इतश्च>> 3.4.100 इत्यनेन लोपे कृते अवशिष्टे 'त्' इत्यस्मिन् अंशे एकः एव वर्णः विद्यते, अतः 'त्' इति अपृक्तः प्रत्ययः । 3) 'क्विप्' प्रत्यये इत्संज्ञकयोः ककारपकारयोः लोपं कृत्वा, ततः उच्चारणार्थं स्थापितस्य वकारोत्तरस्य इकारस्यापि लोपं कृत्वा अवशिष्टः 'व्' इति प्रत्ययः अपि अपृक्तसंज्ञकः भवति ।
<<अपृक्त एकाल् प्रत्ययः>> - सखान् स् इति स्थिते अपृक्तकार्यं वक्ष्यन्नपृक्तसंज्ञामाह — अपृक्तः । एकालिति कर्मधारयः । अत्रैकशब्दो ।ञसहायवाची ।एके मुख्यान्यकेवलाः॑ इत्यमरः । 'स्' इत्यस्याऽपृक्तसंज्ञायाम् ।
घृतस्पृगिति । ऽक्विन्प्रत्ययस्य कुःऽ इति कुत्वम् । अर्थभागिति । अत्र ऽवेरेपृक्तस्यऽ इति लोपः प्रयोजनम् । एकाल्ग्रहणं किमिति । समुदायद्वारेणायमेकपदविषयः प्रश्नः, अन्यथा प्रत्ययमात्रस्य संज्ञा स्यादिति प्रदेशेषु प्रत्ययग्रहणमेव कर्तव्यं स्यात्, किं सञ्ज्ञया ! यत्र यद्यलन्तस्य स्यात्, केवलस्य चाप्यन्तवद्भावात् अल्ग्रहणं व्यर्थं स्यादिति तत्सामर्थ्यादल्समुदायस्य न भविष्यतीति भावः । दर्विरिति । ऽदृ विदारणेऽ औणादिको विन् प्रत्ययः । वर्णग्रहणे जातिग्रहणादल्समुदाया गृह्यन्ते इति भावः । स्यादेतत्-ऽवेरपृक्तस्यऽ इत्यत्र ऽवोऽपृक्तस्यऽ इत्यस्तु, क्विबादिषु च मा भूदिकारः, न चान्यः प्रत्ययो वकारोऽस्तीति, तन्नः ऽराजनि युधिकृञःऽ राजकृत्वा, तमाचष्ट इति णिचि टिलोपे क्विपि णिलोपे च कृते क्वनिपः सम्बन्धी प्रत्ययो वकारोऽस्ति । अवश्यं च क्विबादीनामुच्चारणार्थे कश्चिदजासंजनीयः, तत्राकारे ऽसृशृभ्यां वःऽ इत्यादिष्वपि लोपः प्रसज्येत । उकारे तु ण्वुलादिषु । अन्यत्र तु गौरवमिति यथान्यासमेव साधीयः । ननु च यद्यल्समुदायोऽपि गृह्यते, अल्ग्रहणमनर्थकं स्याद् । अतो यद्यपि ऽनिपात एकाजनाङ्ऽ इत्यत्रैकग्रहणाद्वर्णग्रहणे जातिग्रहणं ज्ञापितम्, तथाप्यत्राल्ग्रहणसामर्थ्यात्समुदायस्य न भविष्यतीति चिन्त्यप्रयोजनमेकग्रहणम् । तथाऽपृक्तप्रदेशरेष्वल्ग्रहणेनैव सिद्धे नार्थः संज्ञया; नतराम्महत्या, नतमाम्पूर्वनिर्द्दिष्टया । सुरा इति । सुरां सुनोतीति क्विपि तुक् सुरासुतमाचष्टे इति णिचि टिलोपः क्विब् णिलोपः, अत्र धातुसकारस्य ऽहल्ङ्याब्भ्यऽ इति लोपो न भवति, प्रत्ययपरिभाषया सिद्धम् । तिपा साहचर्याच्चैकवचनस्य ग्रहणं सिद्धमिति प्रत्ययग्रहणमपि चिन्त्यप्रयोजनमेव ॥