रात्सस्य

8-2-24 रात् सस्य पदस्य पूर्वत्र असिद्धम् संयोगान्तस्य लोपः

Sampurna sutra

Up

संयोगान्तस्य पदस्य रात् सस्य लोपः

Neelesh Sanskrit Brief

Up

पदान्ते विद्यमाने संयोगे रेफः विद्यते चेत् रेफात् परस्य केवलम् पदान्तसकारस्य एव लोपः भवति, अन्यवर्णस्य न ।

Neelesh English Brief

Up

For a संयोग occurring at end of a पद which contains रेफ as the first letter, the last letter is deleted only if it is a सकार and not otherwise.

Kashika

Up

संयोगान्तस्य पदस्य यो रेफस्तस्मादुत्तरस्यान्त्यस्य सकारस्य लोपो भवति। गो — भि॑रक्षाः॒ (ऋ० ९.१०७.९)। प्॒रत्यञ्च॑मत्साः(ऋ० १०.२८.४)। क्षरतेः त्सरतेश्च लुङिसिचश्छान्दसत्वादीडभावो <<बहुलं छन्दसि>>७.३.९७ इति वचनात्। वृद्धौ सत्यां रूपमेतत्। मातुः, पितुरिति <<ऋत उत्>>६.१.१११ इत्युत्वे कृते रपरत्वे १.१.५१ च सति रात् सस्येति सलोपः। सिद्धे सत्यारम्भो नियमार्थः — रात् सस्यैव लोपो भवति, नान्यस्येति। ऊर्जेः क्विप् — ऊर्क। मृजेर्लङि — न्यमार्ट्॥

Siddhanta Kaumudi

Up

रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य । रेफस्य विसर्गः । क्रोष्टुः । आमि परत्वात्तृज्वद्भावे प्राप्ते ।<!नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन !> (वार्तिकम्) ॥ क्रोष्टूनाम् । क्रोष्टरि । क्रोष्ट्रोः । पक्षे हलादौ च शम्भुवत् ॥ इत्युदन्ताः ॥ हूहूः । हूह्वौ । हूह्वः । हूहूम् । हूह्वौ । हूहूनित्यादि । अतिचमूशब्दे तु नदीकार्यं विशेषः । हे अतिचमु । अतिचम्वै । अतिचम्वाः । अतिचम्वाः । अतिचमूनाम् । अतिचम्वाम् । खलपूः ॥

Laghu Siddhanta Kaumudi

Up

रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य। रस्य विसर्गः। क्रोष्टुः क्रोष्टुः । क्रोष्ट्रोः क्रोष्ट्रोः। <<नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन>> (वार्त्तिकम्) । क्रोष्टूनाम्। क्रोष्टरि। पक्षे हलादौ च शम्भुवत्॥ हूहूः। हूह्वौ। हूह्वः। हूहूम् इत्यादि॥ अतिचमूशब्दे तु नदीकार्य्यं विशेषः। हे अतिचमु। अतिचम्वै। अतिचम्वाः। अतिचमूनाम्॥ खलपूः॥

Neelesh Sanskrit Detailed

Up

<<संयोगान्तस्य लोपः>> 8.2.23 इति सूत्रेण संयोगान्तस्य पदस्य अन्तिमवर्णस्य लोपः विधीयते । परन्तु अस्मिन् संयोगे प्रथमवर्णः रेफः अस्ति चेत् तस्मात् परस्य केवलं सकारस्य एव लोपः भवति, अन्यवर्णस्य न । उभयथा उदाहरणानि एतानि — 1. पदान्तसंयोगे विद्यमानात् रेफात् परस्य सकारस्य लोपः — पितृ-शब्दस्य पञ्चम्येकवचनस्य रूपसिद्धौ प्रकृतसूत्रेण रेफात् परस्य सकारस्य लोपः भवति — पितृ + ङस् [पञ्चम्येकवचनस्य प्रत्ययः] → पितुर् + स् [<<ऋत उत्>> 6.1.111 इत्यनेन पितृ-इत्यस्य ऋकारस्य तथा ङस्-इत्यस्य अकारस्य पूर्वपरयोः एकः उकारादेशः भवति । सः च <<उरण् रपरः>> 1.1.51 इति रपरः भवति । ] → पितुर् [<<रात्सस्य>> 8.2.24 इत्यनेन रेफात् परस्य सकारस्य लोपः] → पितुः[ <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] 2. पदान्तसंयोगे विद्यमानात् रेफात् परस्य अन्यवर्णस्य लोपनिषेधः — ऊर्ज् इति प्रातिपदिकस्य प्रथमैकवचनस्य रूपसिद्धौ <<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन रेफात् परस्य पदान्तजकारस्य लोपे प्राप्ते <<रात्सस्य>> 8.2.24 इति नियमेन सः न प्रवर्तते — ऊर्ज् + सुँ → ऊर्ज् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँ-प्रत्ययस्य लोपः ] → ऊर्ग् [<<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन रेफात् परस्य जकारस्य लोपे प्राप्ते <<रात्सस्य>> 8.2.24 इति नियमेन सः न प्रवर्तते; अतः अग्रे <<चोः कुः>> 8.2.30 इत्यनेन जकारस्य गकारः भवति । → ऊर्क् / ऊर्ग् [<<वाऽवसाने>> 8.4.56 इति विकल्पेन चर्त्वम्]

Balamanorama

Up

<<रात् सस्य>> - क्रोष्टुर् स् इति स्थिते-रात्सस्य । 'संयोगान्तस्य लोप' इत्येव सिद्धे नियमार्थमिदमित्याह — सस्यैवेति । तेन ऊर्गित्यादौ न संयोगान्तलोपः । रेफस्य विसर्ग इति ।खरवसानयो॑रिति विसर्ग इत्यर्थः । परत्वादिति । परत्वान्नुटं बाधित्वा तृज्वत्त्वे कृते ततो नुटिनामी॑ति दीर्घे णत्वे कृते क्रोष्टृणामिति स्यादित्यर्थः । नच नुट् नित्य इति वाच्यं, तृज्वत्त्वे कृते संनिपातपरिभाषया नुटो दुर्लभत्वात् ।नुमचिरेति ।अचिरे॑त्यनुकरणम् । 'अचि र' इति विहितो रेफो विवक्षितः । प्रकृतिवदनुकरणं भवतीति त्वनित्यम् । ततश्चअचि-रे॑त्यस्य समासप्रवेशेऽपि न लुक् । क्रोष्टनामिति । तृज्वत्त्वं बाधित्वा नुटि कृतेनामी॑ति दीर्घे रूपम् । क्रोष्टरीति । तृज्वत्त्वे क्रोष्टु-इ इति स्थितेऋतो ङी॑ति गुणे रपरत्वे रूपम् । क्रोष्ट्रोरिति । तृज्वत्त्वे ऋकारस्य यण् रेफः । पक्षे इति । तृतीयादिष्वजादिषु तृज्वत्त्वाऽभावपक्षे इत्यर्थः । ननुतृज्वत्क्रोष्टुः,॒॑स्त्रियां च॑,विभाषा तृतीयादिष्वची॑ति त्रिसूत्री व्यर्था । सृगालवाचिनोःक्रोष्टृक्रोष्टु शब्दयोः स्वतन्त्रयोः सत्त्वादिति चेत्, शृणु-॒सर्वनामस्थाने स्त्रियां च ऋदन्तस्यैव क्रोष्टृशब्दस्य प्रयोगः । तृतीयादिष्वजादिषु तूभयस्य, शसि हलादिषु च उदन्तस्यैवे॑ति नियमार्था त्रिसूत्रीति । इति उदन्ताः । अथ ऊदन्ताः । हूहूरिति । गन्धर्वविशेषवाच्यव्युत्पन्नं प्रातिपदिकमेतत् । हूह्वा हूह्व इत्यादि । दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधः ।इको यणची॑ति यणि रूपम् । हे हूहूः । हूहूम् हूह्वौ हूहून् हूह्वा । हूह्वे । हूह्वः । हूह्वोः । हूह्वाम् । हूह्वि । अतिचमूशब्दे त्विति । चमूमतिक्रान्तोऽतिचमूः ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः । स्त्रीप्रत्ययान्तत्वाऽभावाद्गोस्त्रियो॑रिति ह्रस्वो न भवति । नदीकार्यमिति ।प्रथमलिङ्गग्रहणं चे॑ति वचनादिति भावः । खलपूरिति । खलं पुनातीति क्विप् । खलपू-औ, खलपू-अस् इति स्थितेअचि श्नुधात्वि॑त्युवङि प्राप्ते ।

Padamanjari

Up