एङः पदान्तादति

6-1-109 एङः पदान्तात् अति संहितायाम् अचि एकः पूर्वपरयोः पूर्वः

Sampurna sutra

Up

पदान्तात् एङः अति पूर्वः

Neelesh Sanskrit Brief

Up

पदान्त-एङ्-वर्णात् ह्रस्व-अकारे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः भवति ।

Neelesh English Brief

Up

If a पदान्त ए / ओ letter is followed by a ह्रस्व अकार, then both of them combine to form a पूर्वरूप एकादेश.

Kashika

Up

एङ् यः पदान्तस्तस्मादति परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति। अग्नेऽत्र। वायोऽत्र। अयवादेशयोरयमपवादः। एङ इति किम् ? दध्यत्र। मध्वत्र। पदान्तादिति किम् ? चयनम्। लवनम्। अतीति किम् ? वायो इति। भानो इति। वायविति। भानविति। तपरकरणं किम् ? वायवायाहि॥

Siddhanta Kaumudi

Up

पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ॥

Laghu Siddhanta Kaumudi

Up

पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णोऽव॥

Neelesh Sanskrit Detailed

Up

एच्-वर्णात् संहितायाम् स्वरः विद्यते चेत् <<एचोऽयवायावः>> 6.1.78 इति सूत्रेण एच्-वर्णस्य यथासङ्ख्यम् अयादिषु कश्चन आदेशः भवति । परन्तु अयम् एच्-वर्णः यदि पदान्त-एकारः, पदान्त-ओकारः वा अस्ति, तथा च तस्माद् अग्रे ह्रस्वः अकारः विद्यते, तर्हि <<एचोऽयवायावः>> 6.1.78 इति सूत्रेण प्राप्तस्य अय्/अव्-आदेशस्य प्रकृतसूत्रेण बाधं कृत्वा तत्स्थाने प्रकृतसूत्रेण पूर्वरूप-एकादेशः विधीयते । यथा - 1. वने + अस्मिन् → वनेस्मिन् । अत्र पदान्त-एकारस्य अकारेण सह पूर्वरूप-एकादेशः भवति । 2. विष्णो + अव → विष्णोव । अत्र पदान्त-ओकारस्य अकारेण सह पूर्वरूप-एकादेशः भवति । सामान्यरूपेण <<एङः पदान्तादति>> 6.1.109 इति सूत्रेण प्राप्तः एकादेशः अवग्रहचिह्नेन सह निर्दिश्यते । यथा — वनेऽस्मिन्, विष्णोऽव इति । अत्र विद्यमानम् अवग्रहचिह्नम् केवलम् लेखनशैली इत्येव ज्ञेयम्, न हि कश्चन वर्णविशेषः उच्चारणविशेषः वा । अवग्रहचिह्नम् विना वनेस्मिन्, विष्णोव इति लिख्यते चेदपि नैव दोषाय । इत्युक्ते, वनेऽस्मिन् तथा वनेस्मिन् इति द्वौ भिन्नौ शब्दौ न स्तः; एकस्यैव शब्दस्य द्वे लेखनपद्धती स्तः । दलकृत्यम् 1. पदान्तात् इति किमर्थम् ? अपदान्त-एकार-ओकारयोः विषये इदं सूत्रं न प्रवर्तते । यथा, चि-धातोः ल्युट्-प्रत्यये कृते चि + अन इति स्थिते, <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन गुणे कृते चे + अन इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः चे इति पदम् नास्ति । अतः अत्र <<एचोऽयवायावः>> 6.1.78 इत्यनेन अयादेशे कृते चयन इत्येव रूपं सिद्ध्यति । 2. अति इत्यत्र तपरकरणम् किमर्थम् ? केवलम् 'अ' इति निर्दिश्यते चेत् <<अणुदित् सवर्णस्य चाप्रत्ययः>> 1.1.69 इत्यनेन सवर्णग्रहणम् भवेत्, येन आकारस्य विषये अपि अस्य सूत्रस्य अनिष्टा प्रसक्तिः स्यात् । अतः अस्मिन् सूत्रे तपरकरणम् कृत्वा अकारेण आकारग्रहणम् निषिध्यते, येन आकारस्य विषये इदं सूत्रं न प्रवर्तते । अतः वने आसीत् इत्यत्र <<एचोऽयवायावः>> 6.1.78 इत्यनेन अयादेशे कृते वनयासीत् इत्येव रूपं सिद्ध्यति । प्रकृतिभावः द्विवचनस्य एकारान्तपदस्य विषये <<ईदूदेद्द्विवचनं प्रगृह्यम्>> 1.1.11 इत्यनेन प्रगृह्यसंज्ञायां जातायाम् <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इत्यनेन अच्सन्धौ प्रकृतिभावः विधीयते । अतः अस्मिन् स्थले <<एङः पदान्तादति>> 6.1.109 इत्यनेन पूर्वरूप-एकादेशः न भवति । यथा, पचेते + अत्र → पचेते अत्र ।

Balamanorama

Up

<<एङः पदान्तादति>> - एङः पदान्तादति । 'अमि पूर्व' इत्यतः पूर्व इत्यनुवर्तते । एकः पूर्वपरयोरित्यधिकृतं । तदाह — पदान्तादित्यादिना । हरे-अवेति स्थितेऽयादेशं बाधित्वा पूर्वरूपमेकारः । विष्णो-अवेत्यत्राऽवादेशं बाधित्वा पूर्वरूपमोकारः ।

Padamanjari

Up