6-4-34 शासः इत् अङ्हलोः असिद्धवत् अत्र आभात् नलोपः उपधायाः
index: 6.4.34 sutra: शास इदङ्हलोः
शास उपधाया इकारादेशो भवति अङि परतो हलादौ च क्ङिति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। हलादौ कितिशिष्टः। शिष्टवान्। ङिति आवां शिष्वः। वयं शिष्मः। इत्त्वे कृते शासिवसिघसीनां च 8.3.60 इति षत्वम्। अङ्हलोः इति किम्? शासति। शशासतुः। शशासुः। क्वौ च शास इत्त्वं भवतीति वक्तव्यम्। आर्यान् शास्तीति आर्यशीः। मित्रशीः। यस्मात् शासेः अङ् विहितः शासु अनुशिष्टौ इति, तस्य एव इदं ग्रहणम् इष्यते। आङः शासु इच्छायाम् इति अस्य न भवति। आशास्ते। आशास्यमानः। क्विप्प्रत्यये तु तस्य अपि भवतीति वक्तव्यम्। आशीः, आशिषौ, आशिषः। क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् 8.2.104 इति निपातनाद् वा सिद्धम्।
index: 6.4.34 sutra: शास इदङ्हलोः
शास उपधाया इत्स्यादङि हलादौ क्ङिति च । शासिवसि-<{SK2410}> इति षः । शिष्टः । शासति । शशासतुः । शास्तु-शिष्टात् । शिष्टाम् । शासतुः ॥
index: 6.4.34 sutra: शास इदङ्हलोः
शास उपधाया इत्स्यादङि हलादौ क्ङिति। शिष्यः। वृत्यः। आदृत्यः। जुष्यः॥
index: 6.4.34 sutra: शास इदङ्हलोः
शास इदङ्हलोः - शास इदङ्हलोः । 'अनिदितां हलः' इत्यत उपधायाः क्ङिति इत्यनुवर्तते । तदा — शास उपधाया इति । शासतीति । जक्षादित्वेन अभ्यस्तत्वाददादेश इति भावः । शास्सि शिष्ठः शिष्ठ । शास्मि शिष्वः शिष्मः । 'आशास्ते' इत्यत्र तु नेत्त्वम्, अडओग्यस्य परस्मैपदिन एव ग्रहणादिति भाष्ये स्पष्टम् । शशासेति । शशासिथ । शासिता । शासिष्यति । शास् हि इति स्थिते आह -
index: 6.4.34 sutra: शास इदङ्हलोः
अङ्गाक्षिप्तस्य प्रत्ययस्य हला विशेषणातदादिविधिरित्याह - हलादौ च क्ङितीति । क्वौ च शास इति । नित्यात्वात्क्विपो लोपे हलादेरभावाद्वचनम् । प्रत्ययलक्षणेन तु सिद्धम्, यत्र कार्ये वर्णरुपमेव निमितत्वे नाश्रीयते तद्वर्णाश्रयत्वात् प्रत्ययलक्षणेन न भवति, यथा - रायः कुलं रैकुलमित्यायादेशः । यतु वर्णविशिष्टप्रत्ययनिमितं तद्भवत्येव, यथा - अतृणेडिति, हलादौ पिति सार्वधातुके विधीयमानस्तृणह इमागमः, इदमपीत्वं हलादौ क्ङिति प्रत्यये विधीयमानं लोपेऽपि भवति । आर्यशीरिति । सकारस्य रुत्वे र्वोरुपधायाः इति दीर्घः । अथाऽऽशास्ते, आशास्यामान इत्यत्र कस्मान्न भवति इत्याह - यस्माच्छासेरिति । अङ्विधौ तावत्परस्मैपदिभ्यामर्तिसर्तिभ्यां साहचर्यात्परस्मैपदिनः शासेर्ग्रहणम्, इहाप्यङ्संसर्गाद्विशिष्टस्य शासेर्ग्रहणं संसर्गस्य विशेषावगतिहेतुत्वात् । यथा - सवत्सा धेनुरानीयतां सकलभा सकिशोरेति गवादिर्घेनुः प्रतीयते । ननु च नात्राङ् केवलो निमितम्, अपि तु हलादिरपि, स चात्मनेपदिनोऽपि सम्भवति, तत्कुतः संसर्गाद्विशिष्टस्य प्रतीतिः नैष दोषः साधारणासाधारणसम्बन्धिसन्निपाते यस्यासाधारणः सम्बन्धी सन्निहितस्तस्यैव ग्रहणं भवति, यथा वृद्धानां किशोरीणां च मध्ये धेनवो बध्यन्ते इत्युक्ते बडवा धनवो बध्यन्ते । एतस्मादङ्हलोर्द्वयोरप्युपादाने यस्माच्छासेरङ् विहितस्तस्यैव ग्रहणम् । शासिवसिघसीतनां चेति षत्वविधौ शासिमात्रस्य ग्रहणं द्रष्टव्यमाशिषिलिङ्लोटौ इत्यादिनिर्देशात् ॥