1-2-45 अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम्
index: 1.2.45 sutra: अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
अर्थवद् अधातुः अप्रत्ययः प्रातिपदिकम्
index: 1.2.45 sutra: अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
यः अर्थवान् शब्दः धातुसंज्ञकः, प्रत्ययसंज्ञकः, प्रत्ययान्तः च नास्ति, तस्य 'प्रातिपदिकम्' इति संज्ञा भवति ।
index: 1.2.45 sutra: अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
A meaningful word which is not a धातु, not a प्रत्यय, and which does not end in प्रत्यय is called a 'प्रातिपदिक'.
index: 1.2.45 sutra: अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
अभिधेयवचनोऽर्थशब्दः। अर्थवच्छब्दरूपं प्रातिपदिकसंज्ञं भवति धातुप्रत्ययौ वर्जयित्वा। डित्थः। कपित्थः। कुण्डम्। पीठम्। अर्थवतिति किम्? वनम्, धनम् इति न अन्तस्य अवधेर्मा भूत्। नलोपो हि स्यात्। अधातुः इति किम्? हन्तेर्लङ्। अहन्। अलोपः स्यत्। अप्रत्ययः इति किम्? काण्डे। कुड्ये। ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47 इति ह्रस्वः स्यात्। अनर्थकस्य अपि निपातस्य प्रातिपदिकसंज्ञा इष्यते। अध्यागच्छति। प्रलम्बते। प्रातिपदिकप्रदेशाः ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47 इत्येवमाद्यः।
index: 1.2.45 sutra: अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
॥ अथ अजन्तपुल्लिङ्गप्रकरणम् ॥
धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वार्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् ॥
index: 1.2.45 sutra: अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्॥
index: 1.2.45 sutra: अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'प्रातिपदिकम्' इति संज्ञा । धातुभिन्नानाम् प्रत्ययान्तभिन्नानाम् अर्थवताम् शब्दानाम् अनेन सूत्रेण 'प्रातिपदिकम्' इति संज्ञा भवति ।
भूवादयो धातवः १.३.१ इत्यनेन सूत्रेण धातुपाठे उपस्थिताः क्रियावाचिनः शब्दाः, तथा च तथा सनाद्यन्ताः धातवः ३.१.३२ इत्यनेन सूत्रेण सनादि-प्रत्ययान्तशब्दाः धातुसंज्ञकाः भवन्ति । एतादृशाः शब्दाः यद्यपि अर्थवन्तः सन्ति, तथापि तेषां प्रातिपदिकसंज्ञा न भवति । यथा - भू, चुर्, चोरि, पिपठिष - एतेषां शब्दानाम् (क्रियावाचिनि अर्थे) प्रातिपदिकसंज्ञा न भवति ।
सर्वे प्रत्ययाः प्रत्ययः 3.1.1 अस्मिन् अधिकारे पाठिताः सन्ति । एते प्रत्ययाः प्रातिपदिकसंज्ञकाः न भवन्ति । अपि च, एते प्रत्ययाः येषाम् अन्ते विद्यन्ते, ते शब्दाः अपि प्रकृतसूत्रेण प्रातिपदिकसंज्ञकाः न भवन्ति । यथा - 'रामः' इति सुँ-प्रत्ययान्तशब्दः प्रातिपदिकसंज्ञकः नास्ति । एवमेव 'पठति' इति तिप्-प्रत्ययान्तशब्दः प्रातिपदिकसंज्ञकः नास्ति ।
यः शब्दः भाषायाम् कञ्चित् अर्थम् गृह्णाति, परन्तु धातुसंज्ञकः, प्रत्ययसंज्ञकः, प्रत्ययान्तः वा नास्ति, तस्य प्रकृतसूत्रेण 'प्रातिपदिक'संज्ञा विधीयते । यथा, 'हूहू' इति कस्यचन गन्धर्वस्य नाम । अयं शब्दः न हि धातुसंज्ञक , न हि प्रत्ययः, न च प्रत्ययान्तः अस्ति । परन्तु अस्य शब्दस्य विशिष्टः अर्थः विद्यते । अतः अस्य शब्दस्य प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति ।
प्रातिपदिकसंज्ञायाः मुख्यम् प्रयोजनम् अस्ति प्रत्ययविधानम् । सुप्-प्रत्ययाः, स्त्री-प्रत्ययाः तद्धितप्रत्ययाः च प्रातिपदिकेभ्यः विधीयन्ते । यथा, 'बाल' इत्यस्मात् प्रातिपदिकात् 'सुँ' इति सुप्-प्रत्यये कृते 'बालः' इति शब्दः सिद्ध्यति, 'टाप्' इति स्त्रीप्रत्यये कृते 'बाला' इति शब्दः सिद्ध्यति, 'ष्यञ्' इति तद्धितप्रत्यये कृते 'बाल्य' इति शब्दः सिद्ध्यति ।
प्रातिपदिकसंज्ञायाः अन्यानि अपि प्रयोजनानि सन्ति । यथा, न लोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन पदसंज्ञकस्य प्रातिपदिस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति -
नामन् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
--> नामन् + स् [उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]
--> नामन् + ० [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्तसकारस्य लोपः । प्रत्ययस्य लोपे कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति प्रत्ययलक्षणा सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा भवति ।]
--> नाम [पदसंज्ञकस्य प्रातिपदिकस्य अन्ते विद्यमानस्य नकारस्य न लोपः प्रातिपदिकान्तस्य 8.2.7 इति लोपः]
अष्टाध्याय्यां प्रातिपदिकसंज्ञायाः साक्षात् प्रयोगः षट्सु सूत्रेषु कृतः अस्ति -
ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा 2.3.46
सुपो धातुप्रातिपदिकयोः 2.4.71
ङ्याप्प्रातिपदिकात् 4.1.1
नलोपः प्रातिपदिकान्तस्य 8.2.7
प्रातिपदिकान्तनुम्विभक्तिषु च 8.4.11
अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति ।
'कर्तृ', 'पाठक' एतादृशाः कृत्-प्रत्ययान्तशब्दानां, तथा च 'वासदेव, राघव' एतादृशः तद्धितप्रत्ययान्तशब्दानां तेषाम् 'प्रत्ययान्तत्वात्' प्रकृतसूत्रेण प्रातिपदिकसंज्ञा न भवति । परन्तु एतेषाम् शब्दानाम् प्रातिपदिकसंज्ञा अवश्यम् इष्यते । तदर्थम् पाणिनिना कृत्तद्धितसमासाश्च 12।46 इति अग्रिमं सूत्रम् निर्मितम् अस्ति । अनेन सूत्रेण कृदन्तानाम् तद्धितान्तानां च प्रातिपदिकसंज्ञा भवति ।
'बाला', 'देवी' एतादृशानां स्त्रीप्रत्ययान्तशब्दानाम् 'प्रत्ययान्तत्वात्' प्रकृतसूत्रेण तेषां प्रातिपदिकसंज्ञा न भवति । वस्तुतः तु स्त्रीप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञा एव न भवति, यतः तदर्थम् अष्टाध्याय्यां किमपि सूत्रम् न पाठ्यते । परन्तु <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> अनया परिभाषया - 'यत्र प्रातिपदिकम् अनुसृत्य किञ्चन कार्यम् उक्तम् अस्ति, तत्र तस्मात् प्रातिपदिकात् स्त्रीप्रत्ययं कृत्वा सिद्धे शब्दे अपि तत् कार्यम् भवितुम् अर्हति' इति अर्थः उच्यते, अतः प्रातिपदिकसंज्ञायाः अभावात् अपि स्त्रीप्रत्ययान्तशब्दैः सह प्रातिपदिकसदृशः एव व्यवहारः क्रियते । अपि च, ङ्याप्प्रातिपदिकात् 4.1.1 इत्यस्मिन् सूत्रे 'ङी' तथा 'आप्' एतयोः ग्रहणेन बहूनाम् स्त्रीप्रत्ययान्तशब्दानाम् साक्षात् ग्रहणं कृत्वा तेभ्यः सुप्-प्रत्ययाः तद्धितप्रत्ययाः च उक्ताः सन्ति, अतः तादृशम् अपि तेभ्यः प्रत्ययविधानम् कर्तुं शक्यते ।
बहूनाम् अर्थवताम् शब्दानाम् निर्माणम् धातुभ्यः उणादिप्रत्ययान् योजयित्वा कृतम् अस्ति । यथा, 'लक्ष्मीः' इति शब्दः 'लक्ष्' धातोः लक्षेर्मुट् च (उणादिः ३.१६०) इत्यनेन 'ई' इति प्रत्ययं कृत्वा सिद्ध्यति । एतादृशाः उणादिप्रत्ययान्तशब्दाः प्रातिपदिकानि सन्ति । परन्तु एते शब्दाः प्रातिपदिकत्वं कथं प्राप्नुवन्ति अस्मिन् विषये पण्डितेषु मतान्तराणि विद्यन्ते । अत्र मुख्यरूपेण पक्षद्वयं विद्यते -
अ) उणादयः व्युत्पन्नानि प्रातिपदिकानि - अस्मिन् पक्षे 'सर्वे उणादिप्रत्ययाः कृत्संज्ञकाः सन्ति' इति सिद्धान्तं संस्थाप्य उणादिप्रत्ययान्तशब्दानां कृदन्तत्वं स्वीक्रियते । अस्यां स्थितौ प्रकृतसूत्रेण तु एतेषाम् प्रातिपदिकसंज्ञा न भवति ।परन्तु कृत्तद्धितसमासाश्च 1.2.46 इत्यनेन अग्रिमसूत्रेण एतेषाम् प्रातिपदिकसंज्ञा भवितुम् अर्हति ।
आ)उणादयः अव्युत्पन्नानि प्रातिपदिकानि - अस्मिन् पक्षे उणादिप्रत्ययानाम् अष्टाध्याय्याः सन्दर्भे साक्षात् प्रत्ययत्त्वं नानुमन्यते, अतः उणादिप्रत्ययान्तशब्दाः अष्टाध्याय्याः दृष्ट्या अव्युत्पन्नाः सन्ति । तेषाम् प्रकृति-प्रत्ययरूपेण विभागः न भवितुम् अर्हति इत्याशयः । अस्यां स्थितौ सर्वेषाम् उणादिप्रत्ययान्तशब्दानाम् अर्थवत्त्वात् प्रकृतसूत्रेणैव तेषाम् प्रातिपदिकसंज्ञा भवितुम् अर्हति ।
index: 1.2.45 sutra: अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् - अथ स्वौजसमौडित्यादिना स्वादिप्रत्ययान्वक्ष्यति । तत्र ङ्याप्प्रातिपदिकादित्यधिकृतम् । किं तत्प्रातिपदिकमिति जिज्ञासायामाह — अर्थवदधातुः । अर्थोऽस्यास्तीत्यर्थवत् । नपुंसकलिङ्गनुसारात्-॒शब्दस्वरूप॑मिति विशेष्य मध्याहार्यम् । अधातुरिति, अप्रत्यय इति च तद्विशेषणम् । न धातुरधातुरिति नञ्तत्पुरुषः ।परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॑ इति पुंस्त्वम् । 'अप्रत्यय' इत्यावर्तते । प्रत्ययभिन्नं प्रत्ययान्तभिन्नं च विवक्षितम् । पूर्ववत्पुंस्त्वम् ।संज्ञाविधा॑विति निषेधस्तुं प्रत्ययस्य यत्र संज्ञा तद्विषय इति भावः । तदाह — धातु प्रत्ययमित्यादिना । अव्युत्पन्ना डित्थादिशब्दा इहोदाहरणानि । अर्थवदिति किम् । दनं वनमित्यादौ प्रतिवर्णं प्रातिपदिकसंज्ञा मा भूत् । सत्यां हि प्रातिपदिकसंज्ञायां प्रतिवर्णं सुवुत्पत्तिः स्यात्, सङ्ख्याकारकाभावेऽपि प्रथमैकवचनस्य सोर्दुर्वारत्वात्प्रथमाविभक्तेः कारकानपेक्षत्वात्तदेकवचनस्य सङ्ख्यानवगमे ।ञपि प्रवृत्तेर्भाष्ये सिद्धान्तितत्वाच्च । नच हल्ङ्यादिना सुलोपात्प्रतिवर्णं सोरुत्पत्तावपि न क्षतिरिति वाच्यम्, एवमपि नलोपस्य दुर्वारत्वादकारात्सो रुत्वविसर्गापत्तेश्चेत्यलम् । अधातुरिति किम् । हनधातोर्लङि, तिपि, शपि लुकि, इतश्चेतीकारलोपे, अडागमे, हल्ङ्यादिलोपेऽहन्निति रूपम् । अत्र धातोः प्रातिपदिकसंज्ञायां सुबपबादे तिङि उत्पन्ने लुप्ते तस्मिन् प्रातिपदिकसंज्ञायाः प्रागुत्पन्नाया अनपगमान्नलोपः स्यात् । नच प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासादेव न प्रातिपदिकत्वमिति वाच्यम् । एवमपि प्राक्प्रवृत्तप्रातिपदिकत्वस्यानपगमात् । नचैवमपि कार्यकालपक्षे नलोपार्थं प्रातिपदिकसंज्ञायां क्रियमाणायां प्रत्यलक्षणेन प्रत्ययान्तस्य प्रातिपदिकसंज्ञा न स्यादिति वाच्यम् । तर्हि हे राजन्नित्यत्रापि प्रत्ययलक्षणेन प्रत्ययान्तत्वात्प्रातिपदिकत्वाभावे सति नलोपस्याऽप्रसक्तौ 'न ङिसंबुद्ध्योः' इति तन्निषेधवैयथ्र्यप्रसङ्गात् । नच राजन्शब्दस्यौणादिककनिन्प्रत्ययान्तस्य कृत्तद्धितेति प्रातिपदिकत्वान्नलोपप्रसक्तौ 'न ङिसंबुद्धयोः' इति निषेधो ।ञर्थवानिति वाच्यम्, उणादीनामव्युत्पत्तिपक्षे कृत्तद्धितेत्यस्याऽप्रवृत्तेः । एवं चास्मादेव निषेधात्प्रत्ययलक्षणमाश्रित्याऽप्रत्ययान्त इति पर्युदासो न प्रवर्तत इति विज्ञायते । एवं च अह न्नित्यत्राप्यप्रत्ययान्तत्वात्प्रातिपदिकत्वप्राप्तौ तन्निवृत्त्यर्थमधातुग्रहणम् । अप्रत्यय इति किम् । हरिषु करोषीत्यत्र सुप्सिपोरर्थवत्त्वादप्रत्ययान्तत्वाच्च प्रातिपदिकत्वे प्राप्ते तन्निवृत्त्यर्थमप्रत्यय इति प्रत्ययपर्युदासः । नचात्र सुप्सिपोव्र्यपदेशिवद्भावेन प्रत्ययान्तत्वात्प्रत्ययान्तपर्युदासेनैव प्रातिपदिकत्वनिवृत्तिसंभवात्क प्रत्ययपर्युदासेनेति वाच्यम्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषया प्रकृतिप्रत्ययसमुदायस्यैव प्रत्ययान्ततया केवलप्रत्यययोः सुप्सिपोः पर्युदासाऽलाभात् । अप्रत्ययान्त इति किम् ।हरिषु करोषि अत्र प्रक-तिप्रत्ययसमुदाययोः प्रत्ययभिन्नत्वादर्थवत्त्वाच्च प्रातिपदिकत्वं मा भूत् ।
index: 1.2.45 sutra: अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
अभिधेयवचनोऽर्थशब्द इति । न प्रयोजनवचनोऽव्यभिचारात्; न निवृत्तिवचनः, स्वयं निवृतस्य किं संज्ञया ! न धनवचनः, स्वस्वामिभावस्यासम्भवात् । तच्चाभिधेयं चतुर्द्धा-चातिगुणक्रियाद्रव्यभेदेन; गौः, शुल्कः, पाचकः, डित्थ इति । यद्यर्थवतः संज्ञा, अभावशशविषाणादीनां न प्राप्नोति; अर्थाभावात् । मा भूदनेन, समास इति भविष्यति ? न; अर्थंवदित्यनुवृतेः । अन्यर्थाऽनर्थकेऽत्र विधिसम्भावत् समासग्रहणं नियमार्थं न स्यात्, उच्यते; येषां तावद्भूतलाद्याश्रयं घटादिप्रतियोगिकं नास्तीति बुद्धिबोध्यं तत्वान्तरमभावस्तन्मते तेनार्थेनार्थवत्वम्; येषामप्याश्रयाभिमतं भूतलादिस्वरूपमेव तद्बुद्धिविशेषो वा प्रतियोगिनो घटादेरभावस्तन्मते तेनैव भूतलादिनार्थऽवत्वमित्यभावस्य तावत्सिद्धा संज्ञा । शशविषाणमित्यत्रापि गवादिष्वनुभूतविषाणं शशमस्तकवर्तितया बुद्ध्योत्प्रेक्ष्य तस्यैवाभिधानाय शब्दप्रयोगः । बुद्ध्युपारोह एव चार्थस्य शब्दप्रयोगे कारणम्, न बहिः सता । यदि बहिः सन्तमेवार्थं शब्दा अभिदधति; घटो नास्तीति प्रयोगो न स्याद्; एकत्र पौनरुक्त्याद्, अपरत्र विरोधाद् । बुद्ध्युअरूढस्य बहिः सत्वासत्वाप्रतिपादनायोपपद्यतए प्रयोगः । एवमपाक्षीत्, पक्ष्यति, अस्य सूत्रस्य शाटकं वयेत्यादावपि बुद्ध्युपारूढ एव पच्यादीनामर्थः; न तु शब्दप्रयोगकाले बहिः सिद्धः । डित्थादीन्यव्युत्पन्नान्युदाहरणानि । व्युत्पतौ कृदन्तत्वादेव सिद्धम् । सर्वनाम धातुजमित्यत्रापि पक्षेऽव्ययार्थमनुकरणशब्दार्थं च सूत्रमारभ्यमेव । ननु लौकिके प्रयोगे शब्दानामर्थवताध्यवसायः, स च वाक्यस्यैव पदस्य वा विभक्त्यन्तस्य; न तु प्रकृतिभागमात्रस्येति कथं तस्य निष्कृष्यार्थवत्वनिश्चयः ! येषां हि सहैव प्रयोगस्तेषां सङ्घातस्यैवार्थवता यथा वर्णानाम् ? उच्यते; अन्वयव्यतिरेकाभ्यां शब्दार्थनिश्चयः, यस्य शब्दस्यान्वये योऽर्थः प्रतीयते, व्यतिरेके च व्यतिरिच्यते स तस्यार्थः । वृक्षौ वृक्षा इत्यादौ च प्रत्ययसामान्यव्यभिचारेऽपि तद्विशेषव्यभिचारः, वृतौ सामान्यव्यभिचारश्च वृक्षखण्डं वार्क्षी शाखेति, अर्थस्तु मूलस्कन्धफलपलाशादिमान् यावद्वृक्षशब्दं प्रतीयते । नान्तस्यावधेरिति । ननु ऽवन षण सम्भक्तौऽ,ऽधन धान्येऽ इत्येतयोर्धात्वोरेतौ शब्दौ पचाद्यचि व्युत्पादितौ, तत्राधातुरिति निषेधो भविष्यति । एवं तर्ह्यव्युत्पत्तिपक्ष एतदुक्तम्, अत एवोदाहरणत्वेनाप्यनयोरुपन्यासः । किं चासत्यर्थ वद्ग्रहणे प्रतिवर्णं संज्ञाप्रसङ्गः, न च प्रतिवर्कणं धातुसंज्ञा, न चाधातुरप्ररत्यय इति पर्युदासाश्रयणाद् अर्थवतो ग्रहणम् । अनर्थकयोरपि धातुप्रत्यययोः सम्भवाद्, यथा-अधीते, यावक इति । अत्र ह्यधिपूर्वस्येङेऽर्थवत्वं न तु इङ्; तिस्य क्वचिदप्यप्रयोगाद् । यावक इत्यत्रापि यावशब्दस्यैवार्थवत्वं न तु कनः; अन्तरेणापि तदर्थावगमात् । न च ज्ञायते-केन धर्मेण सादृश्यमिति ! न चार्थवद्ग्रहणपरिभाषयार्थवतो ग्रहणम् ? एषा हि नियतरूपोपादाने व्यवस्थापयति, न चात्र रूपविशेषोपादानम् । ननु सत्यामप्यनर्थकस्य संज्ञायां संख्याकर्मादिषु विधीयमानाः स्वादयो न भविष्यन्ति, नैतदस्ति; अविशेषेणोत्पद्यन्ते, उत्पन्ना नामर्थनियमः, ततश्चाव्ययवत् स्वादयः स्युरेव । नलोपो हि स्यादिति । विभक्तेस्तु श्रवणं न भवति, समुदायस्यापि पृथक् प्रातिपदिकसंज्ञायां तदन्तर्भावाल्लुको भावात् । यद्येवम्, द्विर्वचनन्यायेनावयवस्य न भविष्यति, युक्तं तत्र पज् इत्यत्र येनैवाचा समुदाय एकाच्, तेनैव तदवयवोऽच्छब्दः पशब्दश्च; न चैकस्यैकदाऽनेकं प्रत्यवयवत्वं निरूपयितुं शक्यम् । किञ्च - समुदायद्विर्वचनेनावयवा अपि द्विरुच्यन्ते, तदात्मकत्वात्त्स्य । इह त्ववयवानां समुदायस्य च संज्ञानिबन्धनं शब्दत्वं पृथगेव । तत्र समुदायस्य यत् तेन यस्यैव कार्यं नावयवानाम् । ननु च एति, आभ्याम्, औपगवः, अ अपेहीति, धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनात् वृक्षादिष्वपि वर्णा अर्थवन्तः, तथा कूप इति ककारे सति कश्चिदर्थो गम्यते, यूप इति यकारोपजनेऽर्थन्तरम्, तेन मन्यामहे यः कूपे कूपार्थः स ककारस्य, यो यूपे यूपार्थः स यकारस्येति; तथा ऽब्राह्मणऽ इत्युक्ते योऽर्थो गम्यते नासौ बकारादीनामन्यतरापायेऽपि गम्यते । येषां च संघातो यत्कार्यं करोति प्रत्येकमपि तत् कुर्वन्ति, यथा-तिलानां खारी तैलमुत्पादयति, प्रत्येकं च तिलाः । ये च यस्मिन् प्रत्येकमसमर्थास्तेषां संघातोऽपि तत्रासमर्थः, यथा-प्रत्येकं सिकतास्तैलं नोत्पादयन्ति तथा खार्यति तासाम् । अतः संघातार्थवत्वाच्चार्थवन्तो वर्णाः, तत्कथमर्थवद्ग्रहणे सत्यपि तेषां निवृत्तिः । अनर्थकास्तु, प्रतिवर्णानामर्थानुपलब्धेः, न हि ऽब्राऽ इत्युक्ते कश्चिदर्थो गम्यते । अतो धात्वादीनामेकवर्णानामर्थवत्वाद् अन्यऽपि वर्णा अर्थवन्त इत्यनुपलब्धिबाधितमेतद् । एवमन्येऽपि हेतवो बाधितविषयाः । किं च कूपो यूप इत्यन्वयव्यतिरेकाभ्यां ककारयकारयोर्थवत्वे यूप इति चतुर्णां वर्णानामानर्थक्यमभ्युपगतं स्यात्; अथ तेषामर्थवत्वं भूयिष्ठः कूपे यूपार्थः स्यात्, कूपार्थश्च यूपे, यत्र भूयसामर्थवतामन्वयः, व्यतिरेकस्तु कस्यचित्; तत्रार्थानामपि भूयसानुमपृतिर्भवति, व्यतिरेकस्तु कस्यचिद्; यथा देवदत गामभ्याज शुक्लाम्, देवदत गामभायाज कृष्णामिति । अतः संघाता एव तेनार्थवन्तः । संघातार्थवत्वाच्चेति हेतुरनैकान्तिकः, तैलाग्निवर्तिसंघातेन दीपः, न प्रत्येकम्, रथावयवैश्चक्रादिभिः संहतैर्व्रजिक्रिया । किञ्चार्थवतां विपर्यासेऽर्थप्रत्ययस्यापि विपर्यासः-आहर पात्रं पात्रमाहरेति, अपाये चापायः-गामभ्याज शुक्लां गामभ्याजेति, उपजने चोपजनः-गामभ्याज शुक्लामिति । वर्णेषु तु नैवम्, हिनस्तीति सिंहो हन्ति हतः घ्नन्ति । अतः संघाता एवार्थवन्तः । अहन्निति । हन्तेर्लङ् इतिप् ऽइतश्चऽ लोपे हल्ङ्यादिलोपोऽट्, स हन्ग्रहणेनैव गृह्यते, अत्र प्रागेव लणुत्पतेः संज्ञायां तस्यामुतरकालं पदत्वे सति नलोपः स्यात् । यद्वा प्रातिपदिकसंज्ञा पदसंज्ञासमकालेमेव स्यात्, न वाऽप्रत्यय इति प्रतिषेधः; ऽन ङसिम्बुद्ध्योःऽ इति लिङ्गात्; अन्यथा हे राजन्नित्यादावप्रत्यय इति निषेधादप्रातिपदिकत्वादेव नलोपप्रसङ्गात् । अधातुरिति शक्यमकर्तुम्, ऽसुपो धातुऽ इति धातुगुरहणं ज्ञापकम्-न धातोरियं संज्ञेति । नैतदस्ति ज्ञापकम्, प्रतिषिद्धार्थमेतत् स्यात्, श्येनायत इत्यादावप्रत्यय इति निषिद्धा संज्ञेति भिद्, भूः, पूरित्येवमादौ क्विबन्तत्वे कृदन्तत्वादुतरसूत्रेण संज्ञा । न च तस्या अपि प्रतिषेधोऽयम्, ऽमध्येऽपवादाःऽ इति न्यायात्, पर्युदासत्वाद्वा । काण्डे इति । प्रथमाद्विवचनस्य ऽनपुंसकाच्चऽ इति शीभावः, अप्रत्यय इति च प्रत्ययग्रहणपरिभाषया तदन्तस्य निषेधः । यत्र हि प्रत्ययः संज्ञिरूपेऽनुप्रविशति, यथा- ऽतरप्तमपौ घःऽ इति, तत्र पदसंज्ञायामन्तवचनेन तदन्तविधिप्रतिषेधः । इह तु पर्युदासे प्रत्ययव्यतिरिक्तः संज्ञी, प्रसज्यप्रतिषेधेऽपि न संज्ञाविधौ प्रत्ययग्रणं, किं तर्हि ? प्रतिषेध इति, नास्ति निषेधः । ननूतरसूत्रे कृतद्धितग्रहणं नियमार्थं भविष्यति-प्रत्ययान्तस्य यदि भवति कृतद्धितान्तस्यैवेति, उच्यते; अस्मिन् सत्यप्रतिषेधे संज्ञाविधौ तदन्तविधिप्रतिषेधात्प्रत्ययस्य यदि भवति कृतद्धितस्यैवेति स्थानिनियमः स्यात् । सति त्वस्मिन्, अत्र तावत्प्रत्ययान्तस्य निषेध इति उतरसूत्रेऽपि तद्धितान्तस्य ग्रहणं भवति । अथ क्रियमाणेऽप्यप्रत्यय इत्यस्मिन्नपुंसकह्रस्वत्वं कस्मान्न भवति ? पर्युदासे तावत्प्रत्ययाप्रत्यययोरेकादेशस्य पूर्वं प्रत्यन्तवद्भावः, प्रसज्यप्रतिषेधेऽप्यन्तरङ्गत्वात् प्रागेव प्रत्ययोत्पतेः काण्डशब्दस्य प्रवृता संज्ञेति एकादेशस्यान्तवद्भाव इत्यास्त्येव प्रातिपदिकत्वम् । तथा च ब्रह्मबन्धूरित्यूणेóकादेशस्यान्तवत्वात् स्वाद्युत्पत्तिः । न चाप्रत्यय इत्यस्य वैयर्थ्यम्; त्रपुणी इत्यादौ यत्रैकादेशत्वं नास्ति तत्रार्थवत्वात् । एवं तर्हि नपुंसके यद्वर्तते तस्यह्स्वः, विभक्त्यन्तं तु संख्याप्रधानं कारकशक्तिप्रधानं च, न च तयोर्लिङ्गयोगः, न चान्यवद्भावेनार्थः शक्योऽतिदेष्टुअमिति न भवति ह्स्वः । यद्येवम्, त्रपुणी इत्यादावप्येवमेव न भविष्यति, नार्थोऽनेन, न चान्यः प्रत्ययान्तो व्यावर्त्यः सम्भवति । तथा हि, षड्विधाः प्रत्ययाः - सनादयः, कृतः तिङ्ः, सुपः, स्त्रीप्रत्ययाः,तद्धिताश्चेति । प्रतिपदिककार्यमपि ऽह्रस्वो नपुंसके प्रातिपदिकस्यऽ ऽगौस्त्रियोरुपसर्जनस्यऽ इति ह्रस्वत्वम्, ऽङ्याप्प्रातिपदिकात्ऽ इति प्रत्ययविधिश्च । तच्च कृतद्धितान्तस्येष्यत थएव । सन्प्रभृतिषु येषां तावद्धातुत्वं तेषामधातुरित्येव प्रतिषेधः, श्यन्शबादीनामपि विकरणानां लिङ्गाभावः, संख्याकर्माद्यभावोऽपत्याद्यर्थायोगश्च । एवं तिङ्न्तानाम्, यथा-यः पचतिरूपम्, तस्यापत्यम् इति रूपबन्तत्वात्सत्यपि प्रातिपदिकत्वे । ये तु सम्भवन्ति स्वार्थिकास्ते ऽतिङ्श्चऽ इति ज्ञापकान्न भवन्ति । स्त्रीप्रत्ययानां तु विरुद्धेन नपुंसकेनायोग एव, कुमारीपुत्र इत्यत्र ऽगोस्त्रियोःऽ इति ह्रस्वः स्यादिति चेद् ? अथ क्रियमाणेऽपि प्रतिषेधे राजकुमारीपुत्र इत्यत्र कस्मान्न भवति, अत्र हि समासत्वादस्त्येव प्रातिपदिकत्वम् ? अतो यस्तत्र परिहारः, स एवात्रापि भविष्यति । प्रत्ययविधिस्त्विष्यत एव । ऽङ्याप्प्रातिपदिकात्ऽ इति सुबन्तस्य ह्रस्वत्वं न प्राप्नोतीत्युक्तमेव । सुपां चाप्रसङ्गः; तद्विधानदशायां तदन्तस्यासम्भवात्, लिङ्गाभावात् स्त्रीप्रत्ययाभावः । तद्धितास्त्विष्यन्त एव ऽसमर्थानां प्रथमाद्वाऽ इति । अतो नार्थोऽनेन, उतरसूत्रे तद्धितग्रहणेन च, उच्यते; ऽबहुषु बहुवचनम्ऽ ऽकर्मणि द्वितीयाऽ इत्यादिनां स्वादिविधिवाक्येन भिन्नवाक्यतापक्षे सर्वेभ्यः प्रत्ययान्तेभ्यः स्वादयः स्युः यथा-अव्ययेभ्यः । विकरणान्ताच्च स्वार्थिकास्तद्धिताः स्युरेवेत्यतोऽप्रत्ययग्रहणं कर्तव्यं तद्धितग्रहणं च । काण्डे कुड।ल् इत्येतयोस्तु प्रत्युदाहरणत्वम् ऽहस्वो नपुंसकेऽ इत्यत्रोपपादयिष्यामः । अथ प्रत्यायमात्रस्य संज्ञा कस्मान्न भविष्यति, सत्यां हि संज्ञायामुक्तेन न्यायेन बहुपटव इत्यादौ स्वादयः स्युः ? उच्यते-व्यपदेशिवद्भावेन प्रत्ययान्तवद्प्रत्यय इति प्रतिषेधो भविष्यति । यद्येवम्, कृतद्धितमात्रेऽपि विधिसम्भवात् उतरसूत्रे तदन्तविधिर्न भवति । अत्र परिहारं वक्ष्यामः ॥