अवयाःश्वेतवाःपुरोडाश्च
8-2-67 अवयाः श्वेतवाः पुरोडाः च पदस्य पूर्वत्र असिद्धम् रुः
Sampurna sutra
Up
अवयाः श्वेतवाः पुरोडाः च
Neelesh Sanskrit Brief
Up
अवयाः, श्वेतवाः, पुरोडाः - एते शब्दाः निपात्यन्ते ।
Neelesh English Brief
Up
The words अवयाः, श्वेतवाः, पुरोडाः are considered derived.
Kashika
Up
अवयाः श्वेतवाः पुरोडाः इत्येते निपात्यन्ते। अवपूर्वस्य यजेः, श्वेतपूर्वस्य वहेः, पुरस्पूर्वस्य दाशतेः <<मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्>>, <<अवे यजः>> (३.२.७१,७२) इति ण्विनि कृते, <<श्वेतवाहादीनां डस्पदस्य>> (३.२.७१ वा०) इति डस्प्रत्यये निपातनान्येतानि। किमर्थं तर्हि निपातनं यावता पूर्वेणैव रुः सिद्धः, दीर्घत्वमपि <<अत्वसन्तस्य चाधातोः>> ६.४.१४ इति? संबुद्धौ दीर्घार्थमेते निपात्यन्ते। <<अत्वसन्तस्य चाधातोः>>६.४.१४ इत्यत्र ह्यसंबुद्धाविति वर्तते। हे अव॒याः (मा०सं० ३.४६)। हे श्वेतवाः। हे पु॒रो॒डाः (ऋ० ३.२८.२)। चकारोऽनुक्तसमुच्चयार्थः। हे उक्थ॑शाः॒ (तै०सं० ३.२.९.१)॥
Siddhanta Kaumudi
Up
एते संबुद्धौ कृतदीर्घा निपात्यन्ते । चादुक्थशाः ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
प्रकृतसूत्रेण अवयाः, श्वेतवाः, पुरोडाः एते त्रयः शब्दाः निपात्यन्ते । एतेषां क्रमेण विवरणम् एतादृशम् —
1. अवयाः —
अव-उपसर्गपूर्वकात् यज्-धातोः छन्दसि <<अवे यजः>> 3.2.72 इति सूत्रेण ण्विन्-प्रत्यये प्राप्ते; सम्बोधनैकवचनस्य रूपसिद्धौ तद्बाधित्वा <!श्वेतवहादीनां डस्पदस्य इति वक्तव्यम्!> इत्यनेन डस्-प्रत्यये कृते प्रकृतसूत्रेण अवयाः इति रूपं निपात्यते —
अवयजति इति
= यजँ (देवपूजासङ्गतिकरणदानेषु, भ्वादिः, <{1.1157}>)
→ अव + यज् + डस् [<!श्वेतवहादीनां डस्पदस्य इति वक्तव्यम्!> इति डस्-प्रत्ययः । <<कुगतिप्रादयः>> 2.2.18 इति गतिसमासः]
→ अव + य् + अस् [प्रत्ययस्य डित्त्वात् <<टेः>> 6.4.143 इति टिलोपः]
→ अवयस् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा]
→ अवयस् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]
→ अवयस् + स् [उकारस्य इत्संज्ञा, लोपः]
→ अवयस् + ० [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्तसकारस्य लोपः]
→ अवयरुँ [पदान्तसकारस्य <<ससजुषो रुः>> 8.2.66 इति रुँत्वम्]
→ अवयार् [रुत्वे कृते प्रकृतसूत्रेण दीर्घत्वं निपात्यते]
→ अवयाः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
2. श्वेतवाः —
श्वेत-उपपदपूर्वकात् वह्-धातोः छन्दसि <<मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्>> 3.2.71 इति सूत्रेण ण्विन्-प्रत्यये प्राप्ते; सम्बोधनैकवचनस्य रूपसिद्धौ तद्बाधित्वा <!श्वेतवहादीनां डस्पदस्य इति वक्तव्यम्!> इत्यनेन डस्-प्रत्यये कृते प्रकृतसूत्रेण श्वेतवाः इति रूपं निपात्यते —
श्वेतम् वहति इति
= वहँ (प्रापणे, भ्वादिः, <{1.1159}>)
→ श्वेत + वह् + डस् [<!श्वेतवहादीनां डस्पदस्य इति वक्तव्यम्!> इति डस्-प्रत्ययः । <<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लोपः]
→ श्वेत + व् + अस् [प्रत्ययस्य डित्त्वात् <<टेः>> 6.4.143 इति टिलोपः]
→ श्वेतवस् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा]
→ श्वेतवस् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]
→ श्वेतवस् + स् [उकारस्य इत्संज्ञा, लोपः]
→ श्वेतवस् + ० [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्तसकारस्य लोपः]
→ श्वेतवरुँ [पदान्तसकारस्य <<ससजुषो रुः>> 8.2.66 इति रुँत्वम्]
→ श्वेतवार् [रुत्वे कृते प्रकृतसूत्रेण दीर्घत्वं निपात्यते]
→ श्वेतवाः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
3. पुरोडाः —
पुरस्-उपपदपूर्वकात् दाश्-धातोः छन्दसि <<मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्>> 3.2.71 इति सूत्रेण ण्विन्-प्रत्यये प्राप्ते; सम्बोधनैकवचनस्य रूपसिद्धौ तद्बाधित्वा <!श्वेतवहादीनां डस्पदस्य इति वक्तव्यम्!> इत्यनेन डस्-प्रत्यये कृते प्रकृतसूत्रेण पुरोडाः इति रूपं निपात्यते —
पुरः एनं दाशन्ते इति
= दाशृ (दाने, भ्वादिः, <{1.1025}>)
→ पुरस् + डाश् + डस् [<!श्वेतवहादीनां डस्पदस्य इति वक्तव्यम्!> इति डस्-प्रत्ययः, तदनुषङ्गेन च दकारस्य डत्वम् अपि निपात्यते । <<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लोपः]
→ पुरस् + ड् + अस् [प्रत्ययस्य डित्त्वात् <<टेः>> 6.4.143 इति टिलोपः]
→ पुरस् + डस् <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा]
→ पुरस् + डस् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]
→ पुरस् + डस् + स् [उकारस्य इत्संज्ञा, लोपः]
→ पुरस् + डस् + ० [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्तसकारस्य लोपः]
→ पुररुँ + डरुँ [उभयोः पदान्तसकारयोः <<ससजुषो रुः>> 8.2.66 इति रुँत्वम्]
→ पुरउ + डरुँ [उपपदस्य रुँ-इत्यस्य <<हशि च>>> 6.1.114 इति उकारादेशः]
→ पुरो + डरुँ [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः]
→ पुरो डारुँ [रुत्वे कृते अकारस्य दीर्घः निपात्यते ।]
→ पुरोडाः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
एतेषाम् शब्दानाम् प्रथमैकवचनस्य रूपम् अपि सम्बोधनैकवचनसदृशम् एव अस्ति, परन्तु तस्य सिद्धौ प्रकृतसूत्रेण उक्तम् निपातनम् नैव आवश्यकम् वर्तते, यतः <<अत्वसन्तस्य चाधातोः>> 6.4.14 इत्यनेन उपधादीर्घे कृते इष्टरूपम् अवश्यम् सिद्ध्यति । यथा, अव + यज् + डस् इत्यस्य प्रथमैकवचनस्य रूपम् एतादृशं सिद्ध्यति —
अवयजति इति
= यजँ (देवपूजासङ्गतिकरणदानेषु, भ्वादिः, <{1.1157}>)
→ अव + यज् + डस् [<!श्वेतवहादीनां डस्पदस्य इति वक्तव्यम्!> इति डस्-प्रत्ययः । <<कुगतिप्रादयः>> 2.2.18 इति गतिसमासः]
→ अव + य् + अस् [प्रत्ययस्य डित्त्वात् <<टेः>> 6.4.143 इति टिलोपः]
→ अवयस् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा]
→ अवयस् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ अवयस् + स् [उकारस्य इत्संज्ञा, लोपः]
→ अवयस् + ० [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्तसकारस्य लोपः]
→ अवयास् [<<अत्वसन्तस्य चाधातोः>> 6.4.14 इति उपधादीर्घः]
→ अवयारुँ [पदान्तसकारस्य <<ससजुषो रुः>> 8.2.66 इति रुँत्वम्]
→ अवयाः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
अतः प्रकृतसूत्रम् केवलम् सम्बोधनैकवचनस्य रूपसिद्धौ एव प्रयुज्यते ।
चकारग्रहणम् अनुक्तसमुच्चयार्थम्
प्रकृतसूत्रे च इति ग्रहणेन उक्थशाः इति शब्दः अपि अस्मिन्नेव सूत्रे स्व्रीक्रियते । अस्य सिद्धिः इयम् —
उक्थानि शंसति इति
= शन्सुँ (स्तुतौ, भ्वादिः, <{1.829}>)
→ उक्थ + शन्स् + डस् [<!श्वेतवहादीनां डस्पदस्य इति वक्तव्यम्!> इति डस्-प्रत्ययः । <<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लोपः]
→ उक्थ + श् + अस् [प्रत्ययस्य डित्त्वात् <<टेः>> 6.4.143 इति टिलोपः]
→ उक्थशस् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा]
→ उक्थशस् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]
→ उक्थशस् + स् [उकारस्य इत्संज्ञा, लोपः]
→ उक्थशस् + ० [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्तसकारस्य लोपः]
→ उक्थशरुँ [पदान्तसकारस्य <<ससजुषो रुः>> 8.2.66 इति रुँत्वम्]
→ उक्थशारुँ [रुँत्वे कृते प्रकृतसूत्रेण उपधादीर्घः]
→ उक्थशाः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
Balamanorama
Up
Padamanjari
Up
ण्विनि कृत इति । प्राप्त इत्यर्थः । श्वेतवहादीनां यत्र पदत्वं भात्रि तत्र ण्विनोऽपवादो डस् वक्तव्य इति हि तत्रार्थः, न पुनर्ण्विनन्तानां पदत्वे सति डस् वक्तव्य इति । ननु श्वेतवोभ्यामित्यादिसिद्ध्यर्थमवश्यं डस् वक्तव्यः, स चेदुच्यते नार्थोऽनेन, सान्तत्वात्पूर्वोणैव रुः सिद्धः, दीर्घत्वम् ठत्वसन्तस्यऽ इत्येव सिद्धम् ? तत्राह - सम्बुद्धौ दीर्घार्थमिति ॥