अलोऽन्त्यस्य

1-1-52 अलः अन्त्यस्य आदेशे षष्ठी स्थाने

Sampurna sutra

Up

षष्ठ्याः अन्त्यस्य अलः

Neelesh Sanskrit Brief

Up

सूत्रेण उक्तः आदेशः स्थानिनः अन्तिमवर्णस्य स्थाने भवति ।

Neelesh English Brief

Up

आदेश told in a sutra happens in the place of the last letter of the स्थानी.

Kashika

Up

षष्ठीनिर्दिष्टस्य य उच्यत आदेशः, सोऽन्त्यस्यालः स्थाने वेदितव्यः। <<इद् गोण्याः>> १.२.५० — पञ्चगोणिः। दशगोणिः॥

Siddhanta Kaumudi

Up

षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते - <!यणः प्रतिषेधो वाच्यः!> (वार्त्तिकम्)। सुद्ध्युपास्यः। मद्ध्वरिः। धात्रंशः। लाकृतिः॥

Neelesh Sanskrit Detailed

Up

एतत् अष्टाध्याय्याम् विद्यमानं परिभाषासूत्रम् अस्ति । सूत्रेषु कृतम् आदेशविधानम् स्थानिनः केवलम् अन्तिमवर्णस्य स्थाने एव भवति इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि — 1. <<त्यदादीनामः>> 7.2.102 अनेन सूत्रेण त्यदादीगणस्य शब्दानाम् 'अ' इति आदेशः विधीयते । अस्मिन् सूत्रे 'त्यदादीनाम्' इति षष्ठ्यन्तपदेन स्थानिनः निर्देशः भवति । अस्य स्थाने उक्तः 'अ' इति आदेशः प्रकृतसूत्रेण स्थानिनः अन्तिमर्वणस्य स्थाने एव विधीयते । यथा, त्यदादिगणस्य 'तद्' सर्वनामशब्दस्य पुंलिङ्गे प्रथमाद्विवचनस्य रूपे अनेन सूत्रेण केवलम् दकारस्य स्थाने एव अकारादेशः भवति । प्रक्रिया इयम् — तद् + औ → त अ + औ [<<त्यदादीनामः>> 7.2.102 अनेन सूत्रेण त्यदादीगणस्य शब्दानाम् 'अ' इति आदेशः। <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अन्तिमवर्णस्य आदेशः, अतः दकारस्य स्थाने अकारादेशः भवति ।] → त औ [<<अतो गुणे>> 6.1.97 इति पररूप-एकादेशः अकारः] → तौ [<<वृद्धिरेचि>> 6.1.88 इति वृद्धि-एकादेशः] 2. 'दिव्' शब्दात् तृतीयाद्विवचनस्य भ्याम्-प्रत्यये परे <<दिव उत्>> 6.1.131 इति सूत्रेण 'दिव्' इत्यस्य उकारादेशः विधीयते । प्रकृतसूत्रेण अयम् अन्तिमवर्णस्य स्थाने एव भवति । प्रक्रिया इयम् — दिव् + भ्याम् [तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः] → दिउ + भ्याम् [<<दिव उत्>> 6.1.131 इति सूत्रेण उकारादेशः । <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अन्तिमवर्णस्य आदेशः, अतः वकारस्य स्थाने अकारादेशः भवति ।] → द्युभ्याम् [<<इको यणचि>> 6.1.77 इति यणादेशः] 3. यस्य पदस्य अन्ते संयोगः विद्यते, तस्य पदस्य <<संयोगान्तस्य लोपः>> 8.2.23 इति सूत्रेण लोपः विधीयते । एतादृशः लोपः सम्पूर्णशब्दस्य स्थाने न भवति, अपितु प्रकृतसूत्रेण केवलम् अन्तिमवर्णस्य एव स्थाने विधीयते । यथा, पठ्-धातोः लङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपसिद्धौ अनेन सूत्रेण तकारस्य लोपः भवति । प्रक्रिया इयम् — पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>) → पठ् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → अट् + पठ् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] →‌ अ + पठ् + झि [<<तिप्तस्झि..>> 3.4.78 इति प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् झि-प्रत्ययः] → अ + पठ् + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः] → अ + पठ् + अ + अन्ति [<<झोऽन्तः>> 7.1.3 इति अन्त-आदेशः] → अ + पठ् + अ + अन्त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अपठन्त् [<<अतो गुणे>> 6.1.97 इति पररूपैकादेशः] → अपठन् [<<संयोगान्तस्य लोपः>> 8.2.23 इति संयोगान्तपदस्य लोपः । <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अन्तिमवर्णस्य लोपः भवति ।]

Balamanorama

Up

<<अलोऽन्त्यस्य>> - अलोऽन्त्यस्य ।अ॑लिति प्रत्याहारो वर्णपर्यायः । 'अल' इति षष्ठन्तम् । 'षष्ठी स्थानेयोगा' इत्यतःषष्ठी स्थाने इत्यनुवर्तते । तच्च षष्ठीति प्रथमान्तं तृतीयान्ततया विपरिणम्यते ।निर्दिष्टस्ये॑ति शेषः । 'स्थाने' इत्यनन्तरं 'विधीयमान' इति शेषः । स्थाने विधीयमान आदेशः षष्ठीनिर्दिष्टस्य योऽन्त्योऽल् तस्य स्यादित्यर्थः । तदाह — षष्ठीत्यादिना ।त्यदादीनामः॑-यः सः । आदेश इति किम् , 'आर्धधातुकस्येट्' तृच ऋकारात् पूर्वो मा भूत् । अल इति किम् । पदस्येत्यधिकृत्य विधीयमानं वसुरुआंस्विति दत्वं परमानडुभ्द्यामित्यत्राऽन्त्यस्य कृत्स्नस्य पदस्य मा भूत् ।

Padamanjari

Up

'अलः' इति जसन्तं चेदयमर्थः स्यात्-अलात्मका आदेशा अन्त्यस्येति । तत्र रहोरजसां लोपः सर्वादेशः स्याद् - नीरजीकरोतीति । अन्त्यस्य चविशेषितत्वात् 'वसुस्रंसुध्वंस्वनडुहां दः' इति दत्वं पदस्याप्यन्त्यस्य स्यात् - परमानडुद्भ्यामिति । असन्देहार्थं चालोऽन्त्यस्येति वाच्यं स्याद् । अतोऽलोन्त्यस्येत्यनेन सामानाधिकरण्यात् षष्ठ।ल्न्तमिति स्थितम् । यदि 'षष्ठी स्थानेयोगा' इत्येनैकवाक्यताऽस्य स्यात्, ततोऽयमर्थः स्यात् - 'इह शास्त्रे या काचन षष्ठी सान्त्यस्यालो भवति सा स्थानेयोगा इति । ततश्च 'आर्द्धधातुकस्येड्वलादेः' इत्यस्याप्यन्तेऽल्यनुसंहारादार्द्धधातुकान्त्यस्यैवेट् स्यात्, स च भवन् 'आद्यन्तौ टकितौ' इत्यन्त्यात्प्राक् स्यात् । 'आद्यन्तौ टकितौ' इत्यनेन हि स्थानेयोगात्वमेव षष्ठ।ल बाध्यते, न पुनरन्त्येऽल्यनुसंहारोऽपि । अतो भिन्नं वाक्यम्, तदाह - षष्ठीनिर्दिष्टस्येत्यादि । सामान्यवचनेऽपि 'षष्ठी स्थानेयोगा' इत्याधिकारात् स्थान षष्ठीनिर्दिष्टस्येति वेदितव्यम्; अन्यथा षष्ठीमात्रस्याधिकारे यस्य षष्ठोनिर्दिष्टस्य यत्कार्यं यथाभूतमुच्यते - आदेशरूपम्, ताअथगमरूपं वा, ततथाभूतमेव तदन्तस्य भवतीत्यर्थः स्यात् । ततश्च स एव दोषो य एकवाक्यतायाम् । अतः 'षष्ठी स्थानेयोगा' इति सर्वमनुवर्त्यम् । अयञ्चार्थो भवति - श्थानषष्ठीनिर्दिष्टस्य यदुच्यते ततदन्त्यस्यालो भवति, न तस्य कृत्स्नस्य' इति । सोऽयं कार्यस्यान्त्येऽल्यनुसंहारो वृत्तिकारेण दर्शितः । यद्वा-'या स्थानेयोगा षष्ठी साऽन्त्यस्यालः' इति षष्ठ।ल एवानुसंहारो वेदितव्यः । अत्र पक्षे 'डिच्च' इत्यस्यायमर्थः -'यत्र ङिदादेशो इविधीयते तत्र या षष्ठी सान्त्यस्यालः' इति । एवं सर्वत्र । कार्यानुसंहारे तु यताश्रुतमेव षष्ठयाः स्याद्, अनुसंहारे 'डिच्च' इत्यादावसङ्गतिः । अतः कार्यानुसंहारो वृत्तिकारेण दर्शितः ॥