6-3-78 सहस्य सः सञ्ज्ञायाम् उत्तरपदे
सहशब्दस्य स इत्ययमादेशो भवति संज्ञायां विषये। साश्वत्थम्। सपलाशम्। सशिंशपम्। संज्ञायामिति किम्? सहयुध्वा। सहकृत्वा। सादेश उदात्तो निपात्यते। उदात्तानुदात्तवतो हि सहशब्दस्यान्तर्यतः स्वरितः स्यात्। स च निपातनस्वरः पूर्वपदप्रकृतिस्वरत्वं यत्र, तत्र उपयुज्यते। अन्यत्र समासान्तोदात्तत्वेन बाध्यत एव — से॒ष्टि, स॒प॒शु॒ब॒न्धम् इति॥
उत्तरपदे । सपलाशम् । संज्ञायां किम् । सहयुध्वा ॥
<<सहस्य सः संज्ञायाम्>> - सहस्य सः । उत्तरपदे इति । शेषपूरणेनोक्तमिदम् । सहेत्यस्य स इत्यादेशः स्यादुत्तरपदे इत्यर्थः ।वोपसर्जनस्ये॑त्यस्यापवादः । सपलाशमिति ।तेन सहे॑ति बहुव्रीहिः । वनविशेषस्य संज्ञेयम् । सहयुध्वेति ।सबे चे॑ति क्वनिप् । असंज्ञात्वान्न सभावः ।
सहयुध्वेति । युध्यतेः क्वनिप् राजनि युधि कृञः सहे चेति सादेशः । उदातो निपात्यत इति । अन्यथा तु किं स्यात् इत्यत आह - उदातानुदातावतोहीति । सहशब्दे निपाता आद्यौदाताः इति सशब्द उदातः, शेषनिधाते हशब्दोऽनुदातः, तेनासावुदातानुदातवान् तस्य स्थाने भवत् सशब्द आन्तर्यतः स्वरितः स्यात्, तन्मा भूदेष देष इति उदातो निपात्यते । यद्येवम्, अव्ययीभावेऽपि तस्यैवोदातत्वं श्रूयेत तत्राद्द - स चेति । अयमभिप्रायः - समासे कृते समासस्वरश्च प्राप्नोति, अयं चादेशः, तत्र परत्वादस्मिन्नादेशे उदातेऽभिनिर्वृते पुनः प्रसङ्गविज्ञानात् समासस्वरः, स च सतिशिष्ट इति तस्यैव श्रवणम् । उदातनिपातनस्य तु यत्र पूर्वपदप्रकृतिस्वरत्वं बहुव्रीहितत्पुरुषयोस्तत्रैव श्रवणमिति । सेष्टि, सपशुबन्धमिति । अन्तवचनेऽव्ययीभावः ॥