6-3-78 सहस्य सः सञ्ज्ञायाम् उत्तरपदे
index: 6.3.78 sutra: सहस्य सः संज्ञायाम्
सहशब्दस्य स इत्ययमादेशो भवति संज्ञायां विषये। साश्वत्थम्। सपलाशम्। सशिंशपम्। संज्ञायाम् इति किम्? सहयुध्वा। सहकृत्वा। सादेश उदात्तो निपात्यते। उदात्तानुदात्तवतो हि सहशब्दस्य अन्तर्यतः स्वरितः स्यात्। सनिपातनस्वरः पूर्वपदप्रकृतिस्वरत्वं यत्र तत्र उपयुज्यते। अन्यत्र समासान्तोदात्तत्वेन बाध्यत एव, सेष्टि, सपशुबन्धम् इति।
index: 6.3.78 sutra: सहस्य सः संज्ञायाम्
उत्तरपदे । सपलाशम् । संज्ञायां किम् । सहयुध्वा ॥
index: 6.3.78 sutra: सहस्य सः संज्ञायाम्
सहस्य सः संज्ञायाम् - सहस्य सः । उत्तरपदे इति । शेषपूरणेनोक्तमिदम् । सहेत्यस्य स इत्यादेशः स्यादुत्तरपदे इत्यर्थः ।वोपसर्जनस्ये॑त्यस्यापवादः । सपलाशमिति ।तेन सहे॑ति बहुव्रीहिः । वनविशेषस्य संज्ञेयम् । सहयुध्वेति ।सबे चे॑ति क्वनिप् । असंज्ञात्वान्न सभावः ।
index: 6.3.78 sutra: सहस्य सः संज्ञायाम्
सहयुध्वेति । युध्यतेः क्वनिप् राजनि युधि कृञः सहे चेति सादेशः । उदातो निपात्यत इति । अन्यथा तु किं स्यात् इत्यत आह - उदातानुदातावतोहीति । सहशब्दे निपाता आद्यौदाताः इति सशब्द उदातः, शेषनिधाते हशब्दोऽनुदातः, तेनासावुदातानुदातवान् तस्य स्थाने भवत् सशब्द आन्तर्यतः स्वरितः स्यात्, तन्मा भूदेष देष इति उदातो निपात्यते । यद्येवम्, अव्ययीभावेऽपि तस्यैवोदातत्वं श्रूयेत तत्राद्द - स चेति । अयमभिप्रायः - समासे कृते समासस्वरश्च प्राप्नोति, अयं चादेशः, तत्र परत्वादस्मिन्नादेशे उदातेऽभिनिर्वृते पुनः प्रसङ्गविज्ञानात् समासस्वरः, स च सतिशिष्ट इति तस्यैव श्रवणम् । उदातनिपातनस्य तु यत्र पूर्वपदप्रकृतिस्वरत्वं बहुव्रीहितत्पुरुषयोस्तत्रैव श्रवणमिति । सेष्टि, सपशुबन्धमिति । अन्तवचनेऽव्ययीभावः ॥