म्वोश्च

8-2-65 म्वोः च पदस्य पूर्वत्र असिद्धम् मः नः धातोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मकारवकारयोश्च परतः मकारान्तस्य धातोर्नकारादेशो भवति। अग॑न्म॒ तम॑सस्पा॒रम् (मा०सं० १२.७३)। अगन्व। गमेर्लङि <<बहुलं छन्दसि>> २.४.७३ इति शपो लुक् । जगन्वान्। <<विभाषा गमहनविदविशाम्>> ७.२.६८ इति क्वसाविडागमस्याभावः। अपदान्तार्थ आरम्भः॥

Siddhanta Kaumudi

Up

मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे णत्वम् । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । क्षमिष्यते । क्षंस्यते । क्षमेत । आशिषि, क्षमिषीष्ट । क्षंसीष्ट । अक्षमिष्ट । अक्षंस्त ।{$ {!443 कमु!} कान्तौ$} । कान्तिरिच्छा ॥

Laghu Siddhanta Kaumudi

Up

मान्तस्य धातोर्नत्वं म्वोः परतः। जगन्वान्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up