6-1-73 छे च ह्रस्वस्य तुक् संहितायाम्
ह्रस्वस्य छे तुक् संहितायाम्
ह्रस्वस्वरस्य छकारे परे संहितायाम् तुक्-आगमः भवति ।
A ह्रस्व स्वर gets a तुक्-आगमः when followed by a छकार, in the context of संहिता.
ह्रस्वस्य तुगिति वर्तते। छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति। इच्छति। यच्छति। ह्रस्व एवात्रागमी, न तु तदन्तः। तेन चिच्छिदतुश्चिच्छिदुरित्यत्र तुगभ्यासस्य ग्रहणेन न गृह्यत इति हलादिःशेषेण न निवर्त्यते, नावयवावयवः समुदायावयवो भवतीति॥
ह्रस्वस्य छे परे तुगागमः स्यात्संहितायाम् । श्चुत्वस्यासिद्धत्वाज्जशत्वेन दः । ततश्चर्त्वस्यासिद्धत्वात्पूर्वं श्चुत्वेन जः । तस्य चर्त्वेन चः । चुत्वस्यासिद्धत्वात् चोः कु <{SK378}>रिति कुत्वं न । स्वच्छाया । शिवच्छाया ॥
ह्रस्वस्य छे तुक्। शिवच्छाया॥
ह्रस्वस्वरात् परः संहितायाम् छकारः विद्यते चेत् ह्रस्वस्वरस्य प्रकृतसूत्रेण तुक्-आगमः भवति । अयम् कित्-आगमः, अतः <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन अयम् आगमः आगमिनः अनन्तरम् विधीयते । उदाहरणम् इदम् —
<<दीर्घात् पदान्ताद्वा>> - तदाह — दीर्घादित्यादिना ।उभयनिर्देशे पञ्चमीनिर्देशो बलीया॑निति छकारस्य तुगन्तावयवः स्यात् । ततश्च छिदिधातोर्यङि, द्वित्वे, हलादिशेषे अभ्यासचर्त्वेगुणो यङ्लुको॑रिति अभ्यासगुणे, तङि, चे-छिद्यते इति स्थिते, छकारस्यान्त्यवयवे तुकि, तस्य चुत्वेन चकारे सति तत्पूर्वस्य छकारस्य खरि चेति चर्त्वेन चकारे सति, चेच्चिद्यत इति एकारोत्तरद्विचकारकमेव रूपं स्यात्, छकारो न श्रूयेतेत्यत आह — दीर्घस्यायं तुगिति । ततश्च छकारात्प्राग्दीर्घस्योपरि तुकि, जश्त्वचुत्वचर्त्वेषु चेच्छिद्यत इति भवति । छकारस्य खर्परकत्वाभावाच्चर्त्वं न भवतीति चकाराच्छकारश्रवणं निर्बाधम् । ननु दीर्घस्यायं तुगिति कुत इत्यत आह — सेनेति । उत्तरसूत्रे पदान्तदीर्घाच्छे तुग्विकल्पविधानादिदं सूत्पमुपदान्तविषयमित्यभिप्रेत्य उदाहरति-चेच्छिद्यत इति । (१४७) पदान्ताद्वा.६.१.७६ ।पदान्ताद्वा । 'तुक्' 'छे' 'दीर्घात्' इत्यनुवर्तते । तदाह — दीर्घात् पदान्तादित्यादिना । अयमपि तुग्दीर्घस्यैव नतु छस्य । उक्तज्ञापकात्॥इति बालमनोरमायां हल्सन्धिप्रकरणम् । अथ जुहोत्यादयः ।अथ श्लुविकरणा धातवो निरूप्यन्ते । हु दानाऽदनयोरिति । दाने अदने चेत्यर्थः । भाष्यमिति ।तृतीया च होश्छन्दसी॑ति सूत्रस्थ॑मिति शेषः । ननु यदि दानमिह प्रसिद्धं विवक्षितं तर्हिब्राआहृमाय गां ददाती॑त्यत्र जुहोतीत्यपि प्रयोगः स्यादित्यत आह — दानं चेह प्रक्षेप इति । नन्वेवमपि कूपे घटं प्रक्षिपति, आहवनीये जलं प्रक्षिपतीत्यत्रापि जुहोतीति प्रयोगः स्यादित्यत आह — स चेति । सः = प्रक्षेपो, विधिबोधिते आधारे = आहवनीयादौ पुरोडाशादिहविष इति लभ्यते इत्यन्वयः । कुत इत्यत आह - स्वभावादिति । अनादिसिद्धलोकव्यवहारादित्यर्थः । तथाच विधिबोधिते आधारे विधिबोधितस्य देवतायै त्यज्यमानसय् हविषः हुधातुर्वर्तते इति फलितम् । एतच्च पूर्वमीमांसायां तृतीयेसर्वप्रदानं हविषस्तदर्थत्वा॑दित्यधिकरणेऽध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः ।
च्छकारेकार उच्चारणार्थः,'विदिभिदिच्छिदेः' ,'शाच्छाएरन्यतरस्याम्' इत्यादिर्निर्द्देशात्। अधिकारे द्वौ पक्षौ - अर्ताधिकारः, शब्दाधिकार इति। तत्राद्ये पक्षे पूर्वसूत्रे कृताक्षिप्तस्य धातेर्ह्रस्वेन विशेषणातदन्तं ह्रस्वशब्देन प्रत्यायितमिति इहापि तदन्तस्यैव ग्रहणं स्यात्। शब्दाधिकारे तु ह्रस्वशब्द एवात्रानुवर्तते, न पूर्वः प्रकृतोऽर्थः, न चेह किञ्चिद्विशेष्यमस्तीति तदन्तविध्यभावाद् ह्रस्व एवागमी भवति। तत्रेह द्वितीयः पक्ष आश्रित इत्याह - ह्रस्व एवात्रागमीति। किमेवं सति सिद्धं भवति? तत्राह - तेनेति। यदि तु ह्रस्वान्तस्य तुक् स्यात्, तुकोऽभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्। ह्रस्वमात्रे त्वागमिनि नायमभ्यासस्यावयवो हलिति न भवत्येष प्रसङ्गः। कथं पुनर्ह्रस्व अगमिनि गुगभ्यासग्रहणेन न गृह्यत इत्यत आह - नावयवावयव इति। इतिकरणो हेतौ। यद्यवयवावयवस्समुदायावयवो न भवति, एवं तर्हि शेरत इत्यत्र रूडागमः सार्वधातुकावयवस्यादादेशस्यावयव इति सोऽपि सार्वधातुकस्य समुदायस्यावयवो न स्यात्। तत्र को दोषः ?'शीङ्ः सार्वधातुके गुणः' इति गुणो न स्यात्; रुटा व्यवधानात्। स ह्यवयवभक्तस्तमेव न व्यवदध्यात्, सार्वधातुकं तु व्यवदधात्येव। कुतश्चैष न्यायः - ठवयवावयवः समुदायावयवो न भवतिऽ इति ? लोके तावद्देवदतावयवस्य हस्तस्यावयवोऽङ्गुलिर्देअवदतस्याप्यवयवो भवत्येव - साङ्गुलिर्देअवदत इति। तस्मादयमत्राभिप्रायः -'च्छ आह्भाङेश्च' इत्येक एव योगः कर्तव्यः, चकारादनन्तरस्य प्राक्कृतस्य च; एवं सिद्धे यद्योगविभागं चकारं च करोति, तस्यैत्प्रयोजनम् - प्रकृतस्य तदन्तस्य प्रहाणेन केवलं ह्रस्वमेवानुवर्तयिष्यामिति। यदि त्वागमस्तुक् समुदायस्यावयवः स्याद्, एष यत्नोऽनर्थकः स्यादिति ॥