दिक्संख्ये संज्ञायाम्

2-1-50 दिक्सङ्ख्ये सञ्ज्ञायाम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Kashika

Up

index: 2.1.50 sutra: दिक्संख्ये संज्ञायाम्


समानाधिकरणेन इत्यापादसमाप्तेरनुवर्तते। दिग्वाचिनः शब्दाः सङ्ख्या च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति संज्ञयां वषये। पूर्वेषुकामशमी। अपरेषुकामशमी। पञ्चाम्राः। सप्तर्षयः। संज्ञायाम् इति किम्? उत्तरा वृक्षाः। पञ्च ब्राह्माणाः।

Siddhanta Kaumudi

Up

index: 2.1.50 sutra: दिक्संख्ये संज्ञायाम्


समानाधिकरणेनेत्यापादपरिसमाप्तेरधिकारः । संज्ञायामेवेति नियमार्थं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । नेह । उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥

Laghu Siddhanta Kaumudi

Up

index: 2.1.50 sutra: दिक्संख्ये संज्ञायाम्


संज्ञायामेवेति नियमार्थं सूत्रम्। पूर्वेषुकामशमी। सप्तर्षयः। तेनेह न - उत्तरा वृक्षाः। पञ्च ब्राह्मणाः॥

Balamanorama

Up

index: 2.1.50 sutra: दिक्संख्ये संज्ञायाम्


दिक्सङ्ख्ये संज्ञायाम् - दिक्संख्ये । अधिकार इति ।पूर्वकालैके॑ति सूत्रस्थंसमानाधिकरणेने॑त्येतदा पादसमाप्तेरनुवर्तत इत्यर्थः । ततश्च दिक्सङ्ख्ये समानाधिकरणेन सुबन्तेन समस्येते, स तत्पुरुष इत्यर्थः । ननुविशेषणं विशेष्येणे॑ति यदि दिक्सङ्ख्ययोस्समासः स्यात्तर्हि संज्ञायामेवे॑ति नियमशरीराभ्युपगमात् । 'पूर्वसूत्रं' 'पूर्वमासः' 'पूर्वसमुद्रः' इत्यादौ तु संज्ञात्वाऽभावेऽपि कालदेशवाचकत्वात् समासो भवत्येव । ननुत्रिलोकनाथः पितृसद्मगोचरः॑ इति कथं कालिदासप्रयोगः, त्रिलोकशब्दस्य असंज्ञात्वात् । त्रयाणां लोकानां समाहार इति विग्रहे 'तद्धितार्थ' इति द्विगुसमासे तु 'द्विगोः' इति ङीप्प्रसङ्गः ।अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः॑ इति स्त्रीलिङ्गत्वात् । पात्रादित्वान्न स्त्रीत्वमित्यभ्युपगमेयदि त्रिलोकी गणनापरा स्या॑दित्यादिप्रयोगा न युज्येरन्निति चेत्सत्यम् । लोकशब्दोऽत्र लोकसमुदायपरः । त्त्यवयवो लोकस्त्रिलोक इति मध्यमपदलोपी समासः । एतच्च 'द्विगोर्लुगनपत्ये' इति सूत्रे भाष्ये स्पष्टम् ।षोडशपदार्थाना॑मित्यत्र तु षोडशसंख्याकाः पदार्था इति मध्यमपदलोपी समास इत्यलम् । पूर्वेषुकामशमीति । पूर्वशब्दस्य इषुकामशमीशब्देन समासः । देशविशेषस्य संज्ञेयम् । सप्तर्षय इति । मरीच्यत्रिप्रभृतीनां सप्तानामृषीणां संज्ञेयम् । नेहेति । असंज्ञात्वादिति भावः ।

Padamanjari

Up

index: 2.1.50 sutra: दिक्संख्ये संज्ञायाम्


'विशेषणं विशेषण' इति सिध्दे नियमार्थमेतत् - संज्ञायामेव ,नान्यत्रेति। पूर्वसूत्रमित्यादौ त्वदिग्वाचित्वात् समासः॥