अतो भिस ऐस्

7-1-9 अतः भिस् ऐस्

Sampurna sutra

Up

अतः अङ्गात् भिसः ऐस्

Neelesh Sanskrit Brief

Up

अदन्तात् अङ्गात् परस्य भिस्-प्रत्ययस्य ऐस्-आदेशः भवति ।

Neelesh English Brief

Up

The भिस्-प्रत्यय following an अदन्त अङ्ग is converted to ऐस्.

Kashika

Up

अकारान्तादङ्गादुत्तरस्य भिस ऐस् इत्ययमादेशो भवति। वृक्षैः। प्लक्षैः। अतिजरसैः। जरामतिक्रान्तैरिति विगृह्य समासे कृते ह्रस्वत्वे च भिस ऐसादेशो भवति। <<एकदेशविकृतमनन्यवद् भवति>> इति जरशब्दस्य जरसादेशः। <<संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य>> इति परिभाषेयमनित्या <<कष्टाय क्रमणे>> ३.१.१४ इति निर्देशात् । अत इति किम् ? अग्निभिः वायुभिः। तपरकरणं किम्? खट्वाभिः। मालाभिः।

एत्वं भिसि परत्वाच् चेदत ऐस् क्व भविष्यति ।

कृतेऽप्येत्वे भौतपूर्व्यादैस्तु नित्यस्तथा सति ॥

अत इत्यधिकारो <<जसः शी>> ७.१.१७ इति यावत् ॥

Siddhanta Kaumudi

Up

अकारान्तादङ्गाद्भिस ऐस् स्यात् । अनेकाल्त्वात्सर्वादेशः । रामैः ॥

Laghu Siddhanta Kaumudi

Up

अनेकाल्शित्सर्वस्य । रामैः ॥

Neelesh Sanskrit Detailed

Up

अकारान्तशब्दात् तृतीया-बहुवचनस्य भिस्-प्रत्यये परे तस्य भिस्-प्रत्ययस्य ऐस्-आदेशः भवति । अयमादेशः अनेकाल् अस्ति, अतः <<अनेकाल्शित्सर्वस्य>> 1.1.55 इत्यनेन सम्पूर्णस्य भिस्-प्रत्ययस्य स्थाने भवति । यथा - राम + भिस् → राम + ऐस् [<<अतो भिस ऐस्>> 7.1.9 इति भिस्-प्रत्ययस्य ऐस्-आदेशः] → रामैस् [<<वृद्धिरेचि>> 6.1.88 इति वृद्धि-एकादेशः] → रामैरुँ [<<ससजुषोः रुँ>> 8.2.66 इति रुँत्वम्] → रामैः <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] ज्ञातव्यम् - अस्मिन् सूत्रे 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्तशब्दानाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - माला + भिस् → मालाभिः ।

Balamanorama

Up

<<अतो भिस ऐस्>> - अतो भिस ऐस् । 'अत' इति पञ्चमी ।अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । 'अत' इति च तस्य विशेषणम् । विशेषणत्वाच्च त्तदन्तविधिः । तदाह — अकारान्तादिति । रुत्वविसर्गौ सिद्धवत्कृत्याह — रामैरिति । यद्यपि एसि विहितेऽपि वृद्धौ रामैरित्यादि सिद्धम् । नच अतो गुण इति पररूपं शङ्क्यम्, एकारोच्चारणसामर्थ्यादेव तदसम्भवात् । अन्यथा इसमेव विदध्यात् । तथापि एदैतोर्द्विमात्रत्वाऽविशेषात्प्रक्रियालाघवाच्च ऐसो विधिः । अलोऽन्त्यस्येत्यन्तादेशमाशङ्क्याह-अनेकाल्त्वादिति । अथ चतुर्थीविभक्तिः । तत्र ङे इति ङकारस्य लशक्वेतीत्संज्ञायां लोपः । तदुच्चारणं तु घेर्ङितीत्याद्यर्थम् । राम-ए इति स्थिते ।

Padamanjari

Up

अतिजरसैरिति । अत्रैव चैकारस्य श्रवणार्थमैसादेशः कृतः । वृक्षैरित्यादावेसादेशेऽपि वृद्ध्या रुपं सिद्धम् । अतो गुणे इति पररुपं तु न भवति यदि स्यात, इसमेव विदध्यात् । परत्वादिति । एत्वस्यावकाशः - वृक्षेषु, ऐसोऽवकाशः कृत एत्वे, प्रागेत्वादुभयप्रसङ्गे परत्वादेत्वप्रसङ्ग इति चेन्मन्यसे, अत एस क्व भविष्यति एत्वे कृते मुख्यमकारान्त न भवतीति प्रश्नः कृत एत्वे भौतपूर्व्यादिति । भूतपूर्वस्य भावो भौतपूर्व्यम्, साम्प्रतिकाभावाद्भूतपूर्वगतिराश्रीयत इति भावः । एस् तु नित्यस्तथा सतीति । एवं हि सत्यैस्भावो नित्यः, कृताकृतप्रसङ्गित्वात् । एत्वं त्वैसि कृते न प्राप्नोति अझलादित्वात् । न च तत्र भूतपूर्वगतिः मुख्यस्यैव सम्भावात् । एतच्चोद्यपरिहारमुत्सर्गापवादभावमनाश्रित्य कृतं द्रष्टव्यम्, तदाश्रयणे हि नाप्राप्त एत्व आरम्भादैसपवाद इत्ययुक्तो विप्रतिषेधः स्यात् ॥