6-3-25 आनङ् ऋतः द्वन्द्वे उत्तरपदे विद्यायोनिसम्बन्धेभ्यः
ऋकारान्तानां विद्यायोनिसंबन्धवाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशो भवति। होतापोतारौ। नेष्टोद्गातारौ। प्रशास्ताप्रतिहर्तारौ। योनिसंबन्धेभ्यः — मातापितरौ। याताननान्दरौ। नकारोच्चारणं रपरत्वनिवृत्त्यर्थम्। ऋत इति किम्? पितृपितामहौ। पुत्र इत्यनुवर्तते, ऋत इति च। तेन पुत्रशब्देऽप्युत्तरपद ऋकारान्तस्यानङादेशो भवति। पितापुत्रौ। मातापुत्रौ॥
विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्गातारः । मातापितरौ । पुत्रेन्यतरस्यामित्यतो मण्डूकप्लुत्या पुत्र इत्यनुवृत्तेः । पितापुत्रौ ॥
<<देवताद्वन्द्वे च>> - देवताद्वन्द्वे च । मित्रावरुणाविति । इह ऋदन्तत्वाऽभावात्पूर्वेणाऽप्राप्ते विधिरयम् । वायुशब्देति । वायुशब्दस्य पूर्वपदत्वेनोत्तरपदत्वेन वा प्रयोगे सत्यानङः प्रतिषेधो वक्तव्य इत्यर्थः । ननु पूर्वसूत्राद्द्वन्द्वग्रहणेऽनुवर्तमाने पुनद्र्वन्द्वग्रहणं व्यर्थमित्यत आह-पुनरिति । निर्वापादौ प्रसिद्धसाहित्यकदेवतावाचकशब्दग्रहणार्थः । तेनेति । प्रसिद्धसाहचर्यग्रहणेनेत्यर्थः । एतदिति । एतत्=ब्राहृप्रजापतियुगलं हविर्भागित्वेन न वेदे प्रसिद्धमित्यर्थः । नापि लोके इति । प्रौढिवादमात्रमेवेदम्,वेदे ये सहनिर्वापनिर्दिष्टाः॑ इत्येव भाष्ये दर्शनात्, लोकप्रसिद्धसाहचर्यग्रहणे पार्वतीपरमेआरावित्यादावतिप्रसङ्गाच्च ।
अत्र यद्यःकारस्य द्वन्द्वे आनङ् भवतीत्यवं विज्ञायेत, पितृपितामहादप्याङ् स्यात् ऋतः त्येतिच्चानर्थकं प्रकृतत्वात्, तस्माद् द्वन्द्वविशेपणमृत इति । जातौ चेदमेकवचनमिति मन्यमान आह - ऋकारान्तानामित्यादि। इह कार्यार्थः श्रवणार्थो वा वर्णानामुपदेशः, नकारश्चायं न क्वचित् श्रूयते सर्वत्र नलोपः प्रातिपदिकान्तस्य इति नलोपेन भवितव्यम्, कार्यमपि चास्य न किञ्चिदुपदिश्यते, तस्मान्नार्थ एतेन इत्यत आह - नकारोञ्चारणमित्यादि । असति नकारे उः स्थानेऽणेव शिष्यते इति उरण् रपरः इति रपरत्वं स्यात्, तस्मिश्च न्यमणेव शिष्यते, किं तर्हि थाण् चान्यच्चेति, नास्ति रपरत्वप्रसङ्गः । तस्माद्रपरत्वनिवृत्यर्थं नकारोच्चारणम् । ङ्कारः ङ्च्चि इत्यन्त्यादेशार्थः । यत्र च निर्दिश्यमानं कार्यिणो विशेषणम्, तत्र निर्दिश्यमानस्यादेशा भवन्तीत्येतद्भवति, नात्र ऋतः इति कार्यिणो विशेषणम्, किं तर्हि द्वन्द्वस्य विशेषणम् । पुत्र इत्यत्रानुवर्तत इति । पुत्रेऽन्यतरस्याम् इत्यतः । यद्यत्र पुत्र थैति वर्तते, विभाषा स्वसृपत्योः इत्यत्रानुवर्तेत, ततश्च भ्रातुष्पुत्र इत्यादावनाक्रोशेऽपि विकल्पप्रसङ्गः एवं तर्हि व्याख्यानादत्रैव सम्बध्यते, अत एव ह्यत्रेत्युक्तम् । एवमपि पुत्र उतरपदे पूर्वपदमात्रस्यानङ् प्रप्नोति, कार्यिणोऽनिर्देशात्, ऋतः इति श्रुतस्य द्वन्द्वविशेषमत्वादत ताअह - ऋत इति चेति । अनुवर्तते इत्युषङ्गः । ञतोविद्यायोनि इत्यतः ञतः इत्यनुवर्तते, तत्कार्यिणं विशेषयिष्यतीत्यर्थः । यद्यपि तत् पञ्चम्यन्तम्, तथापि तदिह व्याख्यानात्षष्ठ।ल्न्तं विपरिणम्यते ॥