जश्शसोः शिः

7-1-20 जश्शसोः शिः नपुंसकात् च

Sampurna sutra

Up

नपुंसकात् अङ्गात् जस्-शसोः शिः

Neelesh Sanskrit Brief

Up

नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति ।

Neelesh English Brief

Up

The जस्/शस्-प्रत्ययs that follow a नपुंसकलिङ्ग word get 'शि' आदेश.

Kashika

Up

नपुंसकादङ्गादुत्तरयोर्जश्शसोः शि इत्ययमादेशो भवति। कुण्डानि तिष्ठन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। जसा सहचरितस्य शसो ग्रहणादिह न भवति — कुण्डशो ददाति, वनशः प्रविशन्तीति॥

Siddhanta Kaumudi

Up

क्लीबादनयोः शिः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

क्लीबादनयोः शिः स्यात्॥

Neelesh Sanskrit Detailed

Up

नपुंसकलिङ्गवाची यः शब्दः, तस्मात् परयोः प्रथमाद्वितीयाबहुवचनस्य 'जस् / शस्' प्रत्यययोः 'शि' इति आदेशः भवति । अनेकाल्त्वात् <<अनेकाल्शित्सर्वस्य>> 1.1.55 इत्यनेन अयम् सर्वादेशः भवति । ('शि' इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः <<लशक्वतद्धिते>> 1.3.8 इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः जस्/शस्-इत्येतयोः स्थाने प्रारम्भे 'शि' इति आदेशः भवति, ततः स्थानिवद्भावात् 'शि' इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य <<लशक्वतद्धिते>> 1.3.8 इत्यनेन इत्संज्ञा लोपश्च विधीयते) । अस्मिन सूत्रे प्रोक्तः 'शि' अयमादेशः <<शि सर्वनामस्थानम्>> 1.1.42 इति 'सर्वनामस्थान' संज्ञकः भवति, अतः नपुंसकलिङ्गशब्दात् जस्-शस्-प्रत्यययोः परयोः सर्वनामस्थानविशिष्टं कार्यं दृश्यते ।उदाहरणानि एतानि - 1. फल + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः] → फल + शि [<<जश्शसोः शिः>> 7.1.20 इति शि-आदेशः । <<शि सर्वनामस्थानम्>> 1.1.42 इति प्रत्ययस्य सर्वनामस्थानसंज्ञा ] → फल + इ [शकारस्य इत्संज्ञा, लोपः ] → फल नुम्+ इ [<<नपुंसकस्य झलचः>> 7.1.72 इति अजन्तस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः] → फल न् + इ [इत्संज्ञालोपः] → फलानि [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः] 2. पयस् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः] → पयस् + शि [<<जश्शसोः शि>> 7.1.20 इति शि-आदेशः । <<शि सर्वनामस्थानम्>> 1.1.42 इति सर्वनामस्थानसंज्ञा ।] → पयन्स् + इ [शकारस्य इत्संज्ञा, लोपः । <<नपुंसकस्य झलचः>> 7.1.72 इति अङ्गस्य नुमागमः] → पयान्स् + इ [<<सान्तमहतः संयोगस्य>> 6.4.10 इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः] → पयांसि [<<नश्चापदान्तस्य झलि>> 8.3.24 इति नकारस्य अनुस्वारः] 3. जगत् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः] → जगत् + शि [<<जश्शसोः शि>> 7.1.20 इति शि-आदेशः । <<शि सर्वनामस्थानम्>> 1.1.42 इति सर्वनामस्थानसंज्ञा ।] → जगन् त् + इ [शकारस्य इत्संज्ञा, लोपः । <<नपुंसकस्य झलचः>> 7.1.72 इति अङ्गस्य नुमागमः] → जगन्ति 4. वारि + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → वारि + शि [<<जश्शसोः शि>> 7.1.20 इति शि-आदेशः । <<शि सर्वनामस्थानम्>> 1.1.42 इति सर्वनामस्थानसंज्ञा ।] → वारि + इ [शकारस्य इत्संज्ञा, लोपः । ] → वारि न् + इ [<<नपुंसकस्य झलचः>> 7.3.72 इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन <<इकोऽचि विभक्तौ>> 7.1.73 इति नुमागमः] → वारी + नि [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः] → वारीणि [<<अट्कुप्वाङ्नुम्वयवायेऽपि>> 8.4.2 इति णत्वम्]

Balamanorama

Up

<<जस्शसोः शिः>> - बहुवचनस्य वस्नसौ । उक्तविधयोरिति । षष्ठआदिविशिष्टयोर्युष्मदस्मदोरित्यर्थः ।

Padamanjari

Up

कुण्डश इति । जातिशब्दोऽप्ययं यदार्थप्रकरणादिना जात्याधारभूतायामेकस्यां व्यक्तौ वर्तते, तदा वृत्तिविषय एकवचनो भवतीति संख्यैकवचनात् इति शस् भवति । अर्थप्रकरणाद्यभावे तु तत्र प्रत्युदाहृतम् - घट्ंअघट्ंअ ददातीति ॥