5-3-11 इदमः हः प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः
इदमः सप्तम्याः हः
'इदम्' शब्दस्य सप्तमीविभक्त्यन्तात् स्वार्थे 'ह' प्रत्ययः भवति ।
इदमः सप्तम्यन्ताद् हः प्रत्ययो भवति। त्रलोऽपवादः। इह॥
त्रलोऽपवादः इशादेशः । इह ॥
त्रलोऽपवादः। इह॥
'इदम्' इति सर्वनामशब्दः । अस्य सप्तमीविभक्त्यन्तात् <<सप्तम्यास्त्रल्>> 5.3.10 इत्यनेन औत्सर्गिकरूपेण 'त्रल्' प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण 'ह' प्रत्ययः विधीयते । यथा - अस्मिन् इत्येव = अस्मिन् + ह → इदम् + ह [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सप्तमीप्रत्ययस्य लुक्] → इ + ह [<<इदम इश्>> 5.3.3 इति इश्-आदेशः] → इह अनेन प्रकारेण 'इह' इति शब्दः सिद्ध्यति । <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अस्य अव्ययसंज्ञा विधीयते ।
<<इदमो हः>> - इदमो हः । इदंशब्दात्सप्तम्यन्तात् हप्रत्ययः स्यादित्यर्थः ।