5-3-3 इदमः इश् प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः
इदमः प्राग् दिशः इश्
'इदम्' शब्दस्य प्राग्दिशीय-विभक्तिप्रत्यये परे 'इश्' इति आदेशः भवति ।
प्राग् दिश इत्येव। इदम इश् इत्ययमादेशो भवति प्राग्दिशीयेषु प्रत्ययेषु परतः। शकारः सर्वादेशार्थः। इह॥
प्राद्गिशीये परे ॥
प्राग्दिशीये परे । इतः ॥
'इदम्' इति सर्वनामशब्दः । <<किंसर्वनामबहुभ्योऽद्व्यादिभ्यः>> 5.3.2 अनेन सूत्रेण अस्मात् शब्दात् प्राग्दिशीय-विभक्तिप्रत्ययाः भवितुमर्हन्ति । एतेषु प्रत्ययेषु परेषु इदम्-शब्दस्य 'इश्' इति आदेशः भवति । <<अनेकाल्शित्सर्वस्य>> 1.1.55 इत्यनेन अयम् सर्वादेशरूपेण विधीयते । यथा - 1. इदम् + तसिल् [<<पञ्चम्यास्तसिल्>> 5.3.7 इत्यनेन पञ्चमी-विभक्त्याः अर्थे इदम्-सर्वनाम्नः तसिल्-प्रत्ययः] → इदम् + तस् [लकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, लोपः । इकारः उच्चारणार्थः, अतः तस्यापि लोपः ।] → इ + तस् [<<इदमः इश्>> 5.3.3 इत्यनेन इदम्-शब्दस्य 'इ' इति सर्वादेशः] → इतः 2. इदम् + ह [<<इदमो हः>> 5.3.11 इत्यनेन इदम्-शब्दात् ह-प्रत्ययः] → इ + ह [<<इदमः इश्>> 5.3.3 इत्यनेन इदम्-शब्दस्य 'इ' इति सर्वादेशः] → इह ज्ञातव्यम् - सूत्रमिदम् तद्धितप्रकरणे विद्यते, न हि अङ्गाधिकारे । अतः अस्मिन् सूत्रे पाठितः 'इ' इति आदेशः 'अङ्गकार्यम्' इति न उच्यते, केवलं 'प्राकृतिककार्यम्' इत्येव तस्य अभिधानम् ।
<<इदम इश्>> - इदम इश् । 'प्रग्दिशीये परे' इति — शेषपूरणम् । प्रकरणलभ्यमिदम् । शित्त्वात्सर्वादेशः । 'इत' इत्युदाहरणम् ।
शकारः सर्वादेशार्थ इति। अन्यथा विशेषविहितत्वात्यदाद्यत्वं बाधित्वा ठलोऽन्त्यस्यऽ इति मकारस्येत्वे हलिलोपे च-एतः, एहेत्यनिष्ट्ंअ रूपं स्यात् ॥