चार्थे द्वन्द्वः

2-2-29 च अर्थे द्वन्द्वः आ कडारात् एका सञ्ज्ञा सुप् समासः विभाषा अनेकम्

Kashika

Up

index: 2.2.29 sutra: चार्थे द्वन्द्वः


अनेकम् इति वर्तते। अनेकं सुबन्तं चार्थे वर्तमानम् समस्यते, द्वन्द्वसंज्ञश्च समासो भवति। समुच्चयान्वाचयेतरेतरयोगसमाहाराश्च अर्थाः। तत्र समुच्चयान्वाचययोरसामर्थ्यात् न अस्ति समासः। इतरेतरयोगे समाहारे च समासो विधीयते। प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ। धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः। वाक् च त्वक् च वाक्त्वचम्। वाग्दृषदम्। द्वन्द्वप्रदेशाः द्वन्द्वे च 1.1.31 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 2.2.29 sutra: चार्थे द्वन्द्वः


॥ अथ द्वन्द्वसमासप्रकरणम् ॥

अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः । अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः । मिलितानामन्वय इतरेतरयोगः । समूहः समाहारः । तत्रेश्वरं गुरुं च भजस्वेति समुच्चये, भिक्षामट गां चानयेत्यन्वाचये च न समासोऽसामर्थ्यात् । धवखदिरौ । संज्ञापरिभाषम् । अनेकोक्तेर्होतृपोतृनेष्टोद्गातारः । द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोद्गातारः ॥

Laghu Siddhanta Kaumudi

Up

index: 2.2.29 sutra: चार्थे द्वन्द्वः


अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः। समुच्चयान्वाचयेत रेतरयोगसमाहाराश्चार्थाः। तत्र 'ईश्वरं गुरुं च भजस्व' इति परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः। 'भिक्षामट गां चानय' इत्यन्यतरस्यानुषङ्गिकत्वेन अन्वयोऽन्वाचयः। अनयोरसामर्थ्यात्समासो न। ”धवखदिरौ छिन्धि' इति मिलितानामन्वय इतरेतरयोगः। 'संज्ञापरिभाषम्' इति समूहः समाहारः॥

Balamanorama

Up

index: 2.2.29 sutra: चार्थे द्वन्द्वः


चार्थे द्वन्द्वः - अथ द्वन्द्वसमासनिरूपणम् । चार्थे द्वन्द्वः । 'सुबामन्त्रिते' इत्यतःसुबिति, 'अनेकमन्यपदार्थे' इत्यतोऽनेकमिति चानुवर्तते । समास इति विभाषेति चाधिकृतं । तदाह — अनेकमित्यादिना । कश्चार्थ इत्यत आह — समुच्चयेति ।चाऽन्वाचयसमाहारेतरेतरसमुच्चये॑इत्यमरः । तत्र समुच्चयं निर्वक्ति — परस्परेति । एकस्मिन्निति । अकस्मिन् क्रियापदे आवृत्ते एकस्य असमस्यमानपदस्य प्रथममन्वयः, तदनन्तरमन्यस्यान्वयो यत्र, तत्र समुच्चयश्चार्थं इत्यर्थः । यथा -॒ईस्वरं गुरुं च भजस्वे॑ति । तत्र हि चशब्दयोगाद्गुरोरीश्वरसापेक्षत्वम्, न त्वीआरस्य गुरुसापेक्षत्वं, तस्य चकारयोगाऽभावात् । अत एवात्र एक एव चशब्दः प्रयुज्यते । एवंच 'ईआरं च भजस्व' गुरुं च भजस्वे॑ति वाक्यद्वयं पर्यवस्यति । अथाऽन्वाचयं लक्षयति — अन्यतरस्येति । यत्राऽन्यतरस्य पदस्यैकस्मिन् क्रियापदे आनुषङ्गिकत्वेन परार्थप्रवृत्तिविशषयत्वेनान्वयः, इतरस्य यतु पदस्यान्यस्मिन् क्रियापदे उद्देश्यत्वेनान्वयश्च तत्रान्वाचयश्चार्थ इत्यर्थः । यथा — ॒भिक्षामट गां चानये॑ति ।अट गतौ॑ । भिक्षामटनेन प्राप्नुहीत्यर्थः । भिक्षामट, तदा गौः सङ्गता चेत्तामप्यानय, नतु गवानयने ऐदंपर्येण प्रयतितव्यमिति तात्पर्यार्थः । इतरेतरयोगं लक्षयति — मिलितानामिति । परस्परापेक्षितानां समुदितानामेकस्मिन् क्रियापदेऽन्वयो यत्र, तत्रेतरेतरयोगः परस्परसाहर्यं चार्थः प्रत्येतव्य इत्यर्थः । यथा धवश्च खदिरश्च धवखदिराविति । अत्र परस्परसाहित्यसूचनाय चकारद्वयप्रयोगः । अथ समाहारं लक्षयति — समूहः समाहार इति । परस्परसाहित्यमित्यर्थः । यथा संज्ञापरिभाषयोः समूहः संज्ञापरिभाषमिति । तत्रेतरेतरयोगद्वन्द्वे साहित्यं द्रव्यविशेषणम् । यता धवखदिरौ छिन्द्धीति । समिदिताविति गम्यते । समाहारद्वलन्द्वे तु समूहो विशेष्यम् । यतासंज्ञापरिभाष॑मिति । तयोः समूह इति गम्यते ।संज्ञापरिभाषमधीयते॑ इत्यादौ समूहस्य क्रियान्वयस्तु समूहिद्वारा बोध्य इत्यल्म् । तत्रेति । तेषु चार्थेषु समुच्चयेऽन्वाचये च न द्वन्द्वसमास इत्यन्वयः । ईआरं गुरुं च भजस्वेति । समुच्चयोदाहरणमिदम् ।भिक्षामट गां चानये॑त्युदाहरणं चानुपदमेव व्याख्यातम् । असामर्थ्यादिति ।ईआरं गुरुं चे॑त्यत्रोक्तरीत्या ईआरगुरुशब्दयोः परस्परनिरपेक्षयोरावृत्तेभजस्वे॑ति पदे क्रमेणान्वयात्परस्परमन्वयाऽभावादसामर्थ्यम् ।भिक्षामट गां चानये॑त्यत्र तु भिक्षागवोरटने आनयने च क्रमेण परस्परवार्तानभिज्ञयोरेवान्वयात्परस्परान्वयाभावादसामर्थ्यं स्पष्टमेव । ततश्च इतरेतरयोगसमाहायोरेव चार्थयोः परस्परसाहित्यसत्त्वात्समर्थत्वेन द्वन्द्वसमासः । विस्तरस्तु मञ्जूषायाः द्रष्टव्यः । इतरेतरयोगमुदाहरति-धवखदिराविति । धवश्च खदिरश्चेति द्वन्द्वः । धवो-वृक्षविशेषः, खदिरः-प्रसिद्धः, तौ समुदिताविति बोधः । समाहारे तूदाहरति — संज्ञेति । संज्ञा च परिभाषा च तयोः समाहार इति विग्रहः । समाहारस्यैकत्वादेकवचनम् ।स नपुंसक॑मिति नपुंसकत्वम् । ननु 'चार्थे द्वन्द्वः' इत्यत्रसुप्सुपे॑त्यनुवृत्त्यैव धवखदिरावित्यादिसिद्धेरनेकग्रहणानुवृत्तिर्वयर्थेत्यत आह — अनेकोक्तेरिति । होतृपोत्रिति । होता च पोता च नेष्टा च उद्गता चे॑ति विग्रहे वहूनामपि द्वन्द्वार्थमनेकग्रहणमिति भावः । 'आनङृतो द्वन्द्वे' इति नेष्टृशब्दस्यैव उत्तरपदपरकत्वादानङ्, नतु होतृपोतृशब्दयोरपि, उत्तरपदस्य मध्यमपदव्यवहितत्वेन होतृपोतृशब्दयोरुत्तरपदपरकत्वाऽभावात् । ननु तर्हिहोतापोतानेष्टोद्गातार॑ इति कथमित्यत आह — द्वयोरिति । होता च पोता चेति द्वयोद्र्वन्द्वः । होतृशब्दस्य आनङ् । ततश्च नेष्टा च उद्गाता चेति द्वयोद्र्वन्द्वः । नेष्टृशब्दस्यानङ् । ततो होतापोतारौ च नेष्टोद्गातारो चेति द्वन्द्वद्वयगर्भो द्वन्द्वः । तत्र नेष्टोद्गातृशब्द उत्तरपदे होतापोतृशब्दस्य आनङित्यर्थः । आनङि ङकार इत् । ङित्त्वादन्तादेशः । अकार उच्चारणार्थः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नस्य लोपः ।

Padamanjari

Up

index: 2.2.29 sutra: चार्थे द्वन्द्वः


चार्थे द्वन्द्वः॥ समुच्चयेत्यादि। यदा परस्परनिरपेक्षाः पदार्था एकस्मिन्प्रतिसम्बन्धिनि समुच्चीयन्ते तदा समुच्चयः, यथा - अहरहर्नयमानो गामश्वं पुरुषं पुशुं वैवस्वतो न तृप्यति सुराया इव दुर्मदीति। दुर्मदी यथा सुराया न तृप्यति तथा यमो गवादीन्नयमान इत्यर्थः। अत्र नयतिक्रियायामेकस्यां गवादीनां समुच्चयः, गम्यमानत्वाच्च च - शब्दस्याप्रयोगः। एवं राज्ञो गौश्चाश्वश्चेति द्रव्ये द्रव्ययोः, रक्तः शुक्लश्चेति द्रव्ये गुणयोः, रक्तः पटः कुण्डलं चेति गुणे द्रव्ययोः समुच्चय इत्यादि द्रष्टव्यम्। यदानेकस्य प्राधान्यातदनुरोधेन त्वितरदन्वाचीयते तदान्वाचयः, यथा - भिक्षामट गाञ्जानयेति। अत्र ह्यदर्शनादनानयन्नपि गामटत्येव भिक्षाम्, अनट्Äअस्तु भिक्षां न गामानयति,अटन्नपि नान्विष्य गामानयति। इतरेतरयोगस्तु परस्परापेक्षाणामवयवभेदानुपगमेन समुदायरूपतामापन्नानामेकस्मिन्नर्थेऽन्वये सति भवति, यथा - देवदतयज्ञदताभ्यामिदं कार्यमिति। तथैकापायेऽपि तद्भवति, उद्भूतावयवभेदत्वाच्च द्विवचनबहुवचने भवतः, ताद्दशानामेवावयवतिरोधानसंहतिरूपेणान्वये तत्समाहारः, यथा - च्छत्त्रोपानहमिति, संहतिप्रधानत्वात्वेकवचनम्। तत्रेत्यादि। स्यअदेतत् - समुच्चये परस्परानपेक्षत्वेऽपि गवादीनामेकक्रियाद्वारकं सामर्थ्यं दध्योदनादिवदस्त्येवेति, तन्न युक्तम्; दध्योदनादावेकत्वात् क्रियायाः। इह तु कर्मभेदात्क्रिया भिद्यते, तथा च' समुच्चये' न्यतरस्याम्ऽ इत्यत्र भ्राष्ट्रमट मठमटेत्यादिकं कर्मभेदनिबन्धनं क्रियाभेदमाश्रित्योदाहरिष्यते। अन्वाचये त्वप्रधानमेव चार्थे वर्तते, न प्रधानमित्यनेकस्य पदस्य चार्थे वृत्यभावादपि समासाभावः। इह पटुअश्चासौ खञ्जश्चेत्येकस्मिन्धर्मिण्यनेकधर्मसमुच्चयाच्चार्थसद्भावात्समानाधिकरणयोरपि द्वन्द्वसंज्ञाप्रसङ्गः, ततश्च'द्वन्द्वे घि' इति नियमः स्यात्, विशेषणमित्यादिना तु तत्पुरुषकरणे खञ्जपटुअरित्यपि सिद्ध्यति? नैष दोषः; एकसंज्ञाधिकाराद्विशेषविहितत्वातेत्पुरुषसंज्ञैव भविष्यति, अन्यथा नीलं च तदुत्पलं चेत्यादावपि द्वन्द्वः स्यात्। यद्वा -'शेष' इति वर्तते, अतो विशेषणमित्यत्रोपयुक्तत्वान्न भविष्यति। सामानाधिकरण्याभावे तु द्वन्द्व एव - पटुअखञ्जावागताविति। प्लक्षन्यग्रोधाविति। चशब्दस्याव्ययत्वेऽपि तदर्थे विधीयमानस्य द्वन्द्वस्य स्वभावादेव लिङ्गसंख्यायोगः। कथं पुन रत्र द्विवचनम्, यावता शब्दपौर्वापर्यादर्थाभिधानेऽपि पौर्वापर्यम्, ततश्च प्लक्षशब्दः सहार्थेन निवृतः न्यग्रोधशब्द उपस्थितः, एक एवार्थस्तस्यैकत्वादेकवचनमेव प्राप्नोति, तथा च ठाद्यन्तौ टकितौऽ इति क्रमेण प्रतीतिमङ्गीकृत्य यथासंख्यमित्यस्य प्रवृत्तिः, न च क्रमेण द्वयोरर्थयोः प्रतीतौ द्विवचनं भवति;यथा वा वाक्ये प्लक्षश्च न्यग्रोधश्चेति, अत्र न्यग्रोधार्थप्रतीतिदशायां प्लक्षार्थस्याप्रतीतितरेव कारणम्? अस्तु तर्हि युगपदधिकरणवचने द्वन्द्वः। किमिदं युगपदधिकरणवचन इति? अधिकरणं वर्तिपदार्थः, अधिकरणे युगपद्वचनं युगपदधिकरणवचनम्, तत्र द्वन्द्वो भवति। केन पुनर्युगपद् द्वयोर्वचनम्? एकैकेन पदेन। एतदुक्तं भवति - यावतां पदानां द्वन्द्वो यदि तावतामन्योऽन्यार्थाभिधानं युगपद्भवत्येवं द्वन्द्वो भवतीति। अत्र हि द्विवचनबहुवचनान्यथानुपपतिरेव प्रमाणम्; विग्रहे चापि दर्शनात्। विग्रहे खल्वपि युगपद्वचनता द्दश्यते - प्रमित्रयोर्वरुणयोः, द्यावाचिदस्मै पृथिवी नमेते इति; किं पुनः समासे, यत्र चान्याचान्या च शक्तिः प्रादुर्भवति! कथं पुनः प्लक्षशब्देन न्यग्रोधाभिधानम्, तेन वा तस्य? साहचर्यादिति। यद्वा तद्वा निमितं भवतु, यद्यपि य लोकव्यवहारे केवलस्य प्लक्षशब्दस्य न्यग्रोधाभिधायित्वं न द्दष्ट्ंअ न्यग्रोधशब्दस्य वा प्लक्षाभिधायित्वम्, द्वन्द्वावयवानां त्वनेकार्थाभिधायित्वं न केवलानामित्यदोषः। नियतविषयाश्चापि शब्दार्था भवन्ति, यथा - भ्रातृशब्दस्यैकशेष एव स्वसरि वृत्ति, पुत्रशब्दस्य दुहितरि। एतेनैतदपि निरस्तम् - एकेनोक्तत्वातस्यार्थस्य परस्य प्रयोगो नोपपद्यत इति। कथं द्वन्द्वावयवानामेव परस्परसन्निधानादेषा शक्तिर्वह्निसन्निधाविव घृते द्रवता, नो खलु वह्निविगतौ भवति, यदि तर्हि प्लक्षोऽपि द्व्यर्थो न्यग्रोधोऽपि द्व्यर्थः, बहुत्वाद्वहुचनं प्राप्नोति? नात्र चत्वारोऽर्थाः, किं तर्हि? याभ्यामेवात्रैको द्व्यर्थस्ताभ्यामेवापरोऽपि। स्यादेतत् - उभयोरत्र पर्यायत्वे यथा प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाविति द्विर्वचने प्रतीतिः, एवं प्लक्षन्यग्रोधावित्यत्रापि प्राप्नोति, तन्न; युगपदुत्पादात्। तद्यथा द्वयोरक्ष्णोर्युगपद्विस्फारितयोः पुरोवर्तिन्यर्थद्वये युगपदेका प्रतीतिर्जन्यत तथेहापि द्रष्टव्यम्। ननु यदा प्लक्षशब्दो न तदा न्यग्रोधशब्दः, यदा न्यग्रोधशब्दो न तदा प्लक्षशब्द इति कथमत्र युगपद्व्यापारः? स्मृतिस्थयोर्युगपद्व्यापाराददोषः। पदानि हि श्रुतमात्राणि स्वं स्वमर्थं स्मारयन्ति, पश्चादाकाङ्क्षासन्निधियोग्यत्वेषु परामृष्टेषु स्मृतिस्थान्यभिदधति, तस्यामेव स्मृतौ युगपदारोहात्सम्भवत्येव युगपद्व्यापारः। या च सा पदार्थानां स्मृतिः सा क्रमभाविनीति तत्क्रमेणैव यथासंख्यादिव्यवस्था युगपदभिधानेऽप्युपपद्यते। तदेवं युगपदधिकरणवचने द्वन्द्व इति स्थितम्। इहैकविंशतिर्द्वाविशतिरिति, यद्ययं द्वन्द्व स्याद् एकं च विंशतिश्चेतीतरेतरयोगे द्विवचनबहुवचनप्रसङ्गः, समाहारे च'स नपुंसकम्' इति नपंसकप्रसङ्गः, अत एव एकाधिका विंशतिरेकविशतिरिति शाकपार्थिवादित्वात्समासः क्रियते? नैवं शक्यम्, राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु संख्याऽ इति पूर्वपदप्रकृतिस्वरो न स्यात्। तस्माद् द्वन्द्व एवायम्। स समाहारे नेतरेतरयोगे, अनभिधानात्। नपुंसकत्वन्तु'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति न भवति॥