7-1-84 दिवः औत् सौ
index: 7.1.84 sutra: दिव औत्
दिवः अङ्गस्य सौ औत्
index: 7.1.84 sutra: दिव औत्
दिव्-शब्दस्य सुँ-प्रत्यये परे 'औ' आदेशः भवति ।
index: 7.1.84 sutra: दिव औत्
The word दिव् gets the 'औ' आदेश in presence of the प्रत्यय सुँ ।
index: 7.1.84 sutra: दिव औत्
दिवित्येतस्य सौ परतः औतित्ययमादेशो भवति। द्यौः। दिविति प्रातिपदिकमस्ति निरनुबन्धकम्। धातुस् तु सानुबन्धकः, स इह न गृह्यते, अक्षद्यूः।
index: 7.1.84 sutra: दिव औत्
दिविति प्रातिपदिकस्य औत्स्यात्सौ परे । अल्विधित्वेन स्थानिवत्त्वाभावात् हल्ङ्याप् <{SK252}> इति सुलोपो न । सुद्यौः । सुदिवौ । सुदिवः । सुदिवम् । सुदिवौ ॥
index: 7.1.84 sutra: दिव औत्
दिविति प्रातिपदिकस्यौत्स्यात्सौ। सुद्यौः। सुदिवौ॥
index: 7.1.84 sutra: दिव औत्
'औत्' इत्यत्र तकारः उच्चारणार्थः । अतः अयम् एकाल् आदेशः अस्ति, अतः दिव्-शब्दस्य अन्तिमवर्णस्य स्थाने आगच्छति । प्रक्रियाः इयम् -
दिव् + सुँ
→ दि औ + सुँ [दिव औत् 7.1.84 इति औ-आदेशः]
→ द्यौ + सुँ [इको यणचि 6.1.77 इति यणादेशः]
→ द्यौः [ससजुषोः रुः इति रूत्वम् , 8.2.66, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गनिर्माणम्] ।
ज्ञातव्यम् -
'दिव् +सुँ' इत्यत्र हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सुँप्रत्ययस्य लोपे प्राप्ते नित्यत्वात् परत्वात् च दिव औत् 7.1.84 इति औ-आदेशः भवति । अत्र हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 तथा दिव औत् 7.1.84 एतयोर्मध्ये उत्सर्ग-अपवादसम्बन्धः नास्तीति ज्ञातव्यम्, यतः औत्वम् 'अङ्गस्य' विधीयते, सुँलोपः 'प्रत्ययस्य' विधीयते । स्थानिनौ भिन्नौ स्तः । अतः किमपि सूत्रम् प्रथममागन्तुम् शक्नुयात् । परन्तु नित्यत्वात् औत्-आदेशः प्रथमं भवति । सुँलोपे कृते अकृते च औत्वम् भवत्येव, परन्तु औत्वे कृते सुँलोपः न भवितुमर्हति । अतः औत्वम् नित्यमस्ति, सुँलोपः अनित्यः अस्ति । अतः नित्यत्वात् औत्-आदेशः प्रथमं भवति ।
'द्यौ + सुँ' इत्यत्र अल्विधिः अस्ति, अतः स्थानिवद्भावः न भवति । अतः हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनने सुँ-प्रत्ययस्य लोपः भवितुं न अर्हति ।
अनया परिभाषया पदाधिकारे अङ्गाधिकारे च ये आदेशाः विधीयन्ते, ते 'तदन्तस्य' अपि भवन्ति । अतः दिव्-इत्यस्य विहितः अयमादेशः 'सुदिव्', इत्यस्य कृते अपि भवति ।
index: 7.1.84 sutra: दिव औत्
दिव औत् - दिव औत् । 'सावनडुहः' इत्यतः 'सौ' इत्यनुवर्तते । 'दिव' इति षष्ठन्तम् । 'दिवेर्ङिविः' इत्यौणादिकमव्युत्पन्नं वा प्रातिपदिकं गृह्रते, नतु 'दिवुक्रीडादौ' इति धातुः,निरनुबन्धग्रहणे न सानुबन्धकस्ये॑ति न्यायात् । तदाह — दिविति प्रातिपदिकस्येति । औदिति तकार उच्चारणार्थो नत्वादेशे तकारः श्रूयते । एवं चानेकाल्त्वप्रयुक्तं सर्वादेशत्वं न । तकारस्य इत्संज्ञा तु न, फलाऽभावात् । तित्स्वरितस्य तु नात्र सम्भवः,तितिप्रत्ययग्रहण॑मिति वार्तिकात् । ननु सुदिव् सित्यत्र वकारस्यौत्त्वे इकारस्य यणि औकारस्य स्थानिवत्त्वेन हल्त्वाद्धल्ङ्यादिना सुलोपः स्यादित्यत आह्म — अल्विधित्वेनेति । औकारादेशस्थानिभूताद्वकारात्मकहलः परत्वमाश्रित्य प्रवर्तमानस्य सुलोपस्याऽल्विधित्वादिति भावः । सुद्यौरिति । आङ्गत्वात्तदन्तस्याप्यौत्त्वे यण् । रुत्वविसर्गौ । सुदिवाविति । अजादिषु सुदिव्शब्दोऽविकृत एवेति भावः ।
index: 7.1.84 sutra: दिव औत्
धातोः प्रतिषेधो वक्तव्यः - अक्षद्यौउरिति, एकदेशविकृतस्यानन्यत्वादूठि कृते दिवशब्द एवायमिति प्रसङ्ग इति अधात्वधिकारात्सिद्धम्, अधातोः इत्यनुवर्तते, क्व प्रकृतमुग्दिचां सर्वनामस्थानेऽघातोः इति ।यदि तदनुवर्तेत, नपुंसकस्य झलचः इत्यत्रापि सम्बध्येत, ततश्च काष्टतङ्क्षि ब्राह्मणकुलानीत्यत्र न स्यात् । तस्मादशक्यं तदनुवर्तयितुम् ततश्च धातोः प्रतिषेधो वक्तव्य एव इत्याशङ्क्याह - दिविति प्रातिपदिकमित्यादि ॥