ङिच्च

1-1-53 ङित् च आदेशे षष्ठी स्थाने अलः अन्त्यस्य

Sampurna sutra

Up

ङित् अन्त्यस्य अलः

Neelesh Sanskrit Brief

Up

'ङित्' आदेशः स्थानिनः अन्तिमवर्णस्य स्थाने विधीयते ।

Neelesh English Brief

Up

A ङित्-आदेश happens to the last letter of the स्थानी.

Kashika

Up

ङिच्च य आदेशः, सोऽनेकालपि अलोऽन्त्यस्य स्थाने भवति। <<आनङ् ऋतो द्वन्द्वे>> ६.३.२५ — होतापोतारौ। मातापितरौ। तातङि ङित्करणस्य गुणवृद्धिप्रतिषेधार्थत्वात् सर्वादेशस्तातङ् भवति। जीवताद् भवान्। जीवतात् त्वम्॥

Siddhanta Kaumudi

Up

अयमप्यन्त्यस्यैव स्यात् । सर्वस्य <{SK45}> इत्यस्यापवादः ॥

Laghu Siddhanta Kaumudi

Up

ङिदनेकालप्यन्त्यस्यैव स्यात्॥

Neelesh Sanskrit Detailed

Up

एतत् अष्टाध्याय्याम् विद्यमानं परिभाषासूत्रम् अस्ति । यस्मिन् आदेशे ङकारः इत्संज्ञकः अस्ति, सः आदेशः स्थानिनः केवलम् अन्तिमवर्णस्य स्थाने एव भवति इति अस्य सूत्रस्य आशयः । <<अनेकाल्शित्सर्वस्य>> 1.1.55 इत्यनेन सम्पूर्ण-स्थानिनः विषये आदेशे प्राप्ते, तद्बाधित्वा केवलम् अन्तिमवर्णस्यैव स्थाने आदेशविधानार्थम् इदं सूत्रम् निर्मितम् अस्ति । कानिचन उदाहरणानि एतानि — 1. <<अनङ् सौ>> 7.1.93 अनेन सूत्रेण सखि-शब्दस्य सुँ-प्रत्यये परे अनङ्-आदेशः भवति । अयम् आदेशः ङित्-अस्ति, अतः <<ङिच्च>> इत्यनेन केवलं स्थानिनः अन्तिमर्वणस्य स्थाने एव अयं आदेशः भवति । प्रक्रिया इयम् — सखि + सुँ [प्रथमैकवचनस्य प्रत्ययः] → सख् अन् सुँ [ <<अनङ् सौ>> 7.1.93 इति सखि-शब्दस्य अनङ्-आदेशः । <<ङिच्च>> 1.1.53 इति अन्त्यादेशः । अतः अयम् सखि-शब्दस्य अन्तिम-इकारस्य स्थाने भवति । ] → सखान्स् [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इत्यनेन सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधायाः दीर्घः ] → सखान् [ <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँ-प्रत्ययस्य लोपः] → सखा [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नलोपः] 2. <<आनङ् ऋतो द्वन्द्वे>> 6.3.25 इति सूत्रेण केषुचन द्वन्द्वसमासेषु पूर्वपदस्य आनङ्-आदेशः भवति । अयम् अपि ङित्त्वात् अन्त्यस्य स्थाने विधीयते । यथा, 'माता च पिता च' इत्यस्मिन् द्वन्द्वसमासे 'होतृ' इति पूर्वपदस्य आनङ्-आदेशे कृते 'मातापितरौ' इति रूपं सिद्ध्यति । प्रक्रिया इयम् — माता च पिता च [<<चार्थे द्वन्द्वः>> 2.2.29 इति द्वन्द्वसमासः] → मातृ सुँ पितृ सुँ [अलौकिकविग्रहः । <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा] → मातृ पितृ औ [<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति विभक्तिप्रत्यययोः लुक् । ततः द्विवचनस्य निर्देशार्थम् औ-प्रत्ययः ।] → मात् आनङ् पितृ औ [<<आनङ् ऋतो द्वन्द्वे>> 6.3.25 इति मातृ-शब्दस्य आनङ्-आदेशः । <<ङिच्च>> 1.1.53 इति अन्त्यादेशः] → मात् आन् पितृ औ [ङकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः । नकारोत्तरः अकारः उच्चारणार्थः, सोऽपि लुप्यते ।] → मातान् पितर् ओ [<<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इति ऋकारस्य सर्वनामस्थानसंज्ञके औ-प्रत्यये परे गुणादेशः । <<उरण् रपरः>> 1.1.51 इति रपरः] → मातापितरौ [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारस्य लोपः] 3. <<जायायाः निङ्>> 5.4.134 इत्यनेन बहुव्रीहिसमासस्य उत्तरपदरूपेण विद्यमानस्य 'जाया'शब्दस्य निङ्-आदेशः भवति । ङित्त्वात् अयम् अन्त्यस्य स्थाने एव विधीयते । प्रक्रिया इयम् — वृद्धा जाया अस्य इति [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिसमासः] → वृद्धा + जाया [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्यययोः लोपः] → वृद्ध + जाया [<<स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् ...>> 6.3.34 इति पुंवद्भावः] → वृद्ध + जाय् निङ् [<<जायायाः निङ्>> 5.4.134 इत्यनेन जाया-शब्दस्य निङ्-आदेशः । <<ङिच्च>> 1.1.53 इति अयम् अन्त्यादेशः, अतः अयं यकारोत्तस्य आकारस्य स्थाने भवति ।] → वृद्ध + जाय् नि [ङकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः] →‌वृद्धजानि [<<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः] तातङ्-आदेशस्य विषये अस्य सूत्रस्य अप्राप्तिः लोटलकारस्य प्रथमपुरुषैकवचनस्य 'तु'-प्रत्ययस्य <<तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्>> 7.1.35 इत्यनेन विकल्पेन तातङ्-आदेशः भवति । अस्मिन् आदेशे विद्यमानः ङकारः गुणवृद्धिनिषेधकार्यार्थम् स्थापितः अस्ति, न हि अन्त्यादेशकार्यार्थम् । अतः तातङ्-आदेशः <<अनेकाल्शित्सर्वस्य>> 1.1.55 इत्यनेन सम्पूर्णस्य तु-प्रत्ययस्य स्थाने एव भवति ।यथा, 'पठतात्' इति शब्दस्य प्रक्रिया इयम् — पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>) →‌ पठ् + लोट् [<<आशिषि लिङ्लोटौ>> 3.3.173 इत्यनेन आशिषि अर्थे लोट्लकारस्य विधानम् ।] → पठ् + तिप् [<<तिप्तस्झि...>> 3.4.78 इति प्रथमैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः] → पठ् + शप् + तिप् [<<कर्तरि शप्>> 3.1.68 इति शप्-विकरणप्रत्ययः] → पठ् + अ + तु [<<एरुः>> 3.4.86 इति उकारादेशः] → पठ् + अ + तातङ् [<<तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्>> 7.1.35 इति तु-प्रत्ययस्य तातङ्-आदेशः । अयं <<अनेकाल्शित्सर्वस्य>> 1.1.55 इत्यनेन सर्वादेशरूपेण विधीयते ।] → पठतात् [ङकारस्य इत्संज्ञा, लोपः । तकारोत्तरः अकारः उच्चारणार्थः, सोऽपि लुप्यते ।]

→ पठ् +

Balamanorama

Up

<<ङिच्च>> - ङिच्च । ङकार इद्यस्य स-ङित् ।अलोऽन्त्यस्ये॑त्यनुवर्तते । तदाह — अयमपीति । ङिदमपीत्यर्थः । अवङ् तावङ् अनङित्यादिरादेश उदाहरणम् ।नन्वलोऽन्त्यस्येति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-सर्वस्येति ।अनेकाल् शित् सर्वस्ये॑ति वक्ष्यमाणस्य सर्वादेशत्वविधेरयं विधिरपवादः । अपोद्यते बाध्यते अनेनेति अपवादः । बाहुलकः करणे घञ् । येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवाद इत्यपवादलक्षणम् । अप्राप्ते इति भावे क्तः ।येने॑ति कर्तरि तृतीया । द्वौ नञावावश्यकत्वं बोधयतः । यत्कर्तृकावश्यकप्राप्तौ सत्यां यो विधिरारभ्यते स आरभ्यमाणविधिस्तस्याऽवश्यप्राप्तस्य अपवादो बाधक इति तदर्थः । अयं च न्यायसिद्धः । अवङादयो हि ङित आदेशाः सर्वेऽनेकाल एव । तेषु चानेकाल्विशेषेषु विधीयमानेन ङितामन्त्यादेशत्वेन स्वविषये अवश्यं प्राप्तमनेकाल्सामान्येन विहितं सर्वादेशत्वं बाध्यते, विशेषविहितत्वात्, निरवकाशत्वाच्च । विशेषशास्त्र हि विशेषेषु झटिति प्रवर्तते, विशेषाणां स्वशब्देनोपात्तत्वात् । सामान्यशास्त्रं तु सामान्यमुखेन विशेषेषु प्रवर्तत इति तस्य तेषु मन्दप्रवृत्तिः । अतो विशेषशास्त्रं प्रबलम् । उक्तं च भट्टवार्तिकेअवश्यमेव सामान्यं विशेषं प्रति गच्छति । गतमात्रं च तत्तेन विशेषे स्थाप्यते ध्रुवम्॥॑ इति । किं च यदि ङिच्चेति शास्त्रमनेक#आल्विशेषेषु ङित्सु न प्रवर्तेत, तर्हि तदनर्थकमेव स्यात् ।अनेकाल्शित्सर्वस्ये॑त्यस्य तु ङित्सु अप्रवृत्तावपि नानर्थक्यम्, तस्थस्थमिपां तान्तंताऽमः॑अस्तेर्भू॑रित्यादिष्वनेकाल्षु अङित्सु तस्य सावकाशत्वात् । अतो विशेषशास्त्रं प्रबलमिति ।

Padamanjari

Up

होतापोताराविति । 'ऋतो ङिसर्वानामस्थानोयः'इति गुणः । 'अप्तृन्' इत्यादिना दीर्घः । मातापितराविति । 'पितामात्रा' इत्येकशेषाभावपक्षेऽभ्यर्हितत्वान्मातुः पूर्वनिपातः; 'पितुर्दशगुणं माता गौरवेणातिरिच्यते'। अथ तातङ्न्त्यस्य कस्मान्न भवति ? तत्राह - तातङीत्यादि । अनन्यार्थङ्त्वेष्विनङदिषु चरितार्थमेतद् गुणवृद्धिप्रतिषेधार्थतया चरितार्थङ्त्वे तातीङ् परेण 'अनेकाल्शित्सर्वस्य' इत्यनेन बाध्यत इत्यर्थः । ननूत्सर्गापवादयोरयुक्तो विप्रतिषेधः, अतुल्यकक्षत्वात्, न चान्तरेण सर्वादेशतां गुणवृद्धिप्रतिषेधार्थत्वस्योन्मेष एति चरितार्थत्वमपि ङ्त्विस्य चिन्त्यम् ? न ब्रूमो गुणवृद्धिप्रतिषेधार्थस्य निश्चितत्वाद् दुर्बलं ङ्त्विमिति; कि तु सर्वादेशेऽपि तातङ् गुणिवृद्धिप्रतिषेधः प्रयोजनं सम्भाव्यते । तावता च कियानपि विलम्बो भवति । अनङदिषु सर्वादेशत्वे न किञ्चिन् ङ्त्विस्य प्रयोजनमिति सर्वादेशार्थतासम्भावनापि नास्तीति । तेष्वेव सहसा प्रवर्तते । ततश्च त्रिप्रतिषेधोपपतिः । अथ वा - 'एरुः' इत्यस्यानन्तरम् 'तुह्यएस्तातङशिषि' इति वक्तव्यम्, एरित्येव । एवं वक्तव्ये ङ्त्किरणं गुणवृद्धिप्रतिषेधार्थमेवेति निश्चितमिति विप्रतिषेधोपपतिस्तदाह - तातङ् इङ्त्किरणस्य सावकाशत्वाद्विप्रतिषेधात्सर्वादेश इति । अथ वा - यथोपदर्शितं गुणवृद्धिप्रतिषेधार्थत्वं सर्वादेशतामन्तरेण नोपपद्यत इति अन्तरेणैव विप्रतिषेधं सर्वादेशस्तातङ् भवति ॥