आदेः परस्य

1-1-54 आदेः परस्य आदेशे षष्ठी स्थाने अलः

Sampurna sutra

Up

परस्य आदेः अलः

Neelesh Sanskrit Brief

Up

निमित्तं निर्दिश्य तस्मात् अनन्तरं विद्यमानस्य शब्दस्य उक्तः आदेशः तस्य प्रथमवर्णस्य स्थाने विधीयते ।

Neelesh English Brief

Up

The आदेश told on the latter word of a given निमित्त happens on its first letter.

Kashika

Up

परस्य कार्यं शिष्यमाणमादेरलः प्रत्येतव्यम् । क्व च परस्य कार्यं शिष्यते? यत्र पञ्चमीनिर्देशः। तद् यथा — <<ईदासः>> ७.२.८३ — आसीनो यजते। <<द्व्यन्तरुपसर्गेभ्योऽप ईत्>> ६.३.९७ — द्वीपम् । अन्तरीपम्। प्रतीपम्। समीपम्॥

Siddhanta Kaumudi

Up

परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । अलोऽन्त्यस्य <{SK42}> इत्यस्यापवादः ॥

Laghu Siddhanta Kaumudi

Up

परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥

Neelesh Sanskrit Detailed

Up

एतत् अष्टाध्याय्याम् विद्यमानं परिभाषासूत्रम् अस्ति । यदि कस्मिंश्चित् सूत्रे पूर्वनिमित्तं दत्त्वा तस्मात् परस्य आदेशः उक्तः अस्ति, तत्र सःआदेशः स्थानिनः आदिवर्णस्यैव भवति — इति अस्य सूत्रस्य आशयः । <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन प्राप्तस्य अन्त्यादेशस्य अयम् अपवादः । कानिचन उदाहरणानि एतानि — 1) <<उदः स्थास्तम्भोः पूर्वस्य>> 8.4.61 अनेन सूत्रेण उद्-उपसर्गात् परस्य स्था-धातोः पूर्वसवर्णः (थकारः) आदेशः भवति । अत्र अस्मिन् सूत्रे उद्-उपसर्गात् परस्य आदेशः उक्तः अस्ति, अतः प्रकृतसूत्रेण अयम् आदेशः परशब्दस्य (स्था-धातोः) प्रथमवर्णस्य स्थाने (सकारस्य स्थाने) एव आगच्छति । प्रक्रिया इयम् ‌— उद् + स्थानम् [स्था-धातोः ल्युट्-प्रत्यये कृते स्थानम् इति शब्दः सिद्ध्यति ।] → उत् + स्थानम् [<<खरि च>> 8.4.55 इति चर्त्वम्] → उत् + थ्थानम् [<<उदः स्थास्तम्भोः पूर्वस्य>> 8.4.61 इति 'स्था' इत्यस्य पूर्वसवर्णः (थकारादेशः) भवति । <<आदेः परस्य>> 1.1.54 इत्यनेन सः आदि-वर्णस्य स्थाने विधीयते ।] → उत्थ्थानम् → उत्थानम् [<<झरो झरि सवर्णे>> 8.4.65 इत्यनेन थकारस्य विकल्पेन लोपः] 2) <<द्व्यन्तरुपसर्गेभ्योऽप ईत्>> 6.3.97 इति सूत्रेण द्वि-शब्दात् परस्य 'अप्' शब्दस्य ईकारादेशः भवति । अत्रापि पूर्वनिमित्तं निर्दिश्य स्थानिनः आदेशविधानं कृतम् अस्ति, अतः अत्र 'अप्' शब्दस्य अकारस्य अयम् आदेशः भवति । प्रक्रिया इयम् — द्विर्गता आपः यस्मिन् [<<अनेकमन्यपदार्थे>> 2.2.24 इति अस्वपदविग्रहः बहुव्रीहिसमासः] → द्वि अप् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्यययोः लोपः] → द्वि अप् अ [<<ऋक्पूरब्धूःपथामानक्षे>> 5.4.74 इत्यनेन 'अ' इति समासान्तप्रत्ययः] → द्वि ईप् अ [<<द्व्यन्तरुपसर्गेभ्योऽप ईत्>> 6.3.97 इति सूत्रेण द्वि-शब्दात् परस्य 'अप्' शब्दस्य ईकारादेशः । <<आदेः परस्य>> 1.1.54 इति आदिवर्णस्य आदेशः] → द्वीप [<<अकः सवर्णे दीर्घः>> 6.1.101 इति दीर्घः] 3) <<यस्य हलः>> 6.4.49 इति सूत्रेण हल्-वर्णात् परस्य 'य' इत्यस्य लोपः भवति । अत्रापि पूर्वनिमित्तं दत्त्वा कार्यम् उच्यते, अतः अयं लोपः 'य' इत्यस्य आदिवर्णस्य (इत्युक्ते य्-इति व्यञ्जनस्य एव भवति ।) यथा, 'भिद्'धातोः यङ्-प्रत्यये कृते 'बेभिद्य' इति आतिदेशिकधातुः सिद्ध्यति । अस्य 'तुमुन्' प्रत्ययस्य प्रक्रियायाम् अनेन सूत्रेण यकारस्य लोपः विधीयते — बेभिद्य + तुमुन् [<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>> 3.3.10 इति तुमुन्-प्रत्ययः] बेभिद्य + इट् + तुम् [<<आर्धधातुकस्येड् वलादेः>> 7.2.35 इति इडागमः] → बेभिद् अ + इ + तुम् [हल्-वर्णात् परस्य (दकारात् परस्य) 'य' इत्यस्य <<यस्य हलः>> 6.4.49 इति लोपः । <<आदेः परस्य>> 1.1.54 इत्यनेन केवलम् य् इति व्यञ्जनस्य एव लोपः क्रियते, न हि तदनन्तरं विद्यमानस्य अकारस्य ।] → बेभिद् + इ + तुम् [<<अतो लोपः>> 6.4.48 इति अकारलोपः] → बेभिदितुम्

Balamanorama

Up

<<आदेः परस्य>> - आदेः परस्य । परस्येति ।द्व्यन्तरुपसर्गेभ्योऽप ई॑दित्यादौतस्मादित्युत्तरस्ये॑ति परिभाषायां परस्य नियमितं कार्यं यत् तत्तस्यादेरेव भवति, नत्वलोऽन्त्यस्येति तदन्तस्येत्यर्थः । तदाह — अलोन्त्यस्येत्यस्यापवाद इति । तत्र 'अल' इत्यप्यनुवर्तनीयम् । तेनद्वीप॑मित्यत्र ईत्वं पान्तसमुदायस्य न भवति ।

Padamanjari

Up

शास्त्रे न क्वचित्परस्येत्युच्चार्य्य कार्यं विधीयत इति निर्विषयमेतदित्यभिप्रायेणाह - क्व चेति । यत्रेत्यादि । पञ्चमीनिर्देशेषु 'तस्मादित्युतरस्य' इति परस्य कार्यं विधीयत इत्यर्थः । आसीन इति । 'आस उपवेशने' अनुदातेत् । द्वीपमिति । द्विधागता आपो।स्मिन्निति 'ऋक्पूरब्धूःपथामानक्षे' इति अकारः समासान्तः ॥