7-1-72 नपुंसकस्य झल् अचः इदितः नुम् सर्वनामस्थाने
झलचः नपुंसकस्य सर्वनामस्थाने नुम्
झलन्तस्य अजन्तस्य च नपुंसकस्य सर्वनामस्थाने परे नुमागमः भवति ।
A झलन्त and an अजन्त नपुंसक word gets a नुमागम when followed by a सर्वनामस्थान.
नपुंसकस्य झलन्तस्याजन्तस्य च सर्वनामस्थाने परतो नुमागमो भवति। उदश्विन्ति। शकृन्ति। यशांसि। पयांसि। अजन्तस्य — कुण्डानि। वनानि। त्रपूणि। जतूनि। नपुंसकस्येति किम्? अग्निचिद् ब्राह्मणः। झलच इति किम्? बहुपुरि। बहुधुरि। विमलदिवि। चत्वारि। अहानि। उगितो झलन्तस्य नपुंसकस्य परत्वादनेनैव नुम् भवति। श्रेयांसि। भूयांसि। कुर्वन्ति। कृषन्ति ब्राह्मणकुलानि॥ बहूर्जि प्रतिषेधो वक्तव्यः॥ बहूर्जि ब्राह्मणकुलानि। अन्त्यात् पूर्वं नुममेक इच्छन्ति। बहूर्ञि्ज ब्राह्मणकुलानि॥
झलन्तस्याऽजन्तस्य च क्लीबस्य नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं रामवत् । एवं धनवनफलादयः ॥
झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने॥
झल्-प्रत्याहारे सर्वे वर्गचतुर्थाः, वर्गतृतीयाः , वर्गद्वितीयाः वर्गप्रथमाः तथा ऊष्माणः समाविश्यन्ते । अच्-प्रत्याहारे सर्वे स्वराः सन्ति । एतेषु सर्वेषु कश्चन वर्णः यदि नपुंसकलिङ्गशब्दस्य अन्तिमस्थाने आगच्छति, तर्हि तस्य शब्दस्य सर्वनामस्थाने परे (इत्युक्ते जस् / शस्-प्रत्यययोः परयोः) नुमागमः विधीयते । 'नुम्' इति आगमः मित्-आगमः अस्ति, अतः <<मिदचोऽन्त्यात्परः>> 1.1.47 इत्यनेन अन्त्यात् अचः परः आगच्छति । उदाहरणानि एतानि - 1. फल + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः] → फल + शि [<<जश्शसोः शिः>> 7.1.20 इति जस्/शस्-प्रत्यययोः शि-आदेशः । <<शि सर्वनामस्थानम्>> 1.1.42 इति शि-प्रत्ययस्य सर्वनामस्थानसंज्ञा । <<अनेकाल् शित्सर्वस्य>> 1.1.55 इति सर्वादेशः । ] → फल + इ [शकारस्य इत्संज्ञा, लोपः ] → फल नुम्+ इ [<<नपुंसकस्य झलचः>> 7.1.72 इति अजन्तस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः] → फल न् + इ [इत्संज्ञालोपः] → फलानि [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः 2. जगत् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः] → जगत् + शि [<<जश्शसोः शि>> 7.1.20 इति शि-आदेशः । <<शि सर्वनामस्थानम्>> 1.1.42 इति सर्वनामस्थानसंज्ञा ।] → जगन् त् + इ [शकारस्य इत्संज्ञा, लोपः । <<नपुंसकस्य झलचः>> 7.1.72 इति अङ्गस्य नुमागमः] → जगंति [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] → जगन्ति [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः] 3. पयस् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः] → पयस् + शि [<<जश्शसोः शि>> 7.1.20 इति शि-आदेशः । <<शि सर्वनामस्थानम्>> 1.1.42 इति सर्वनामस्थानसंज्ञा ।] → पयन्स् + इ [शकारस्य इत्संज्ञा, लोपः । <<नपुंसकस्य झलचः>> 7.1.72 इति अङ्गस्य नुमागमः] → पयान्स् + इ [<<सान्तमहतः संयोगस्य>> 6.4.10 इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः] → पयांसि [<<नश्चापदान्तस्य झलि>> 8.3.24 इति नकारस्य अनुस्वारः] 4. पठ् धातोः शतृँ-प्रत्ययान्तरूपम् 'पठतृँ' अस्मिन् शब्दे ऋकारः इत्संज्ञकः अस्ति । अस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनस्य रूपसिद्धौ - पठतृँ + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → पठत् + शि [<<जश्शसोः शि>> 7.1.20 इति शि-आदेशः । <<शि सर्वनामस्थानम्>> 1.1.42 इति सर्वनामस्थानसंज्ञा ।] → पठन् त् + इ [<<उगिदचां सर्वनामस्थानेऽधातोः>> 7.1.70 इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन <<नपुंसकस्य झलचः>> 7.1.72 इत्यनेन पुनः नुमागमः] → पठं त् + इ [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] → पठन् त् + इ [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः] → पठन्ति ज्ञातव्यम् - 1. यदि नपुंसकलिङ्गशब्दः झलन्तः अजन्तः वा नास्ति, तर्हि अनेन सूत्रेण तस्य नुमागमः न भवति । यथा, 'वार्' इति रेफान्तशब्दस्य प्रथमाद्वितीयाबहुवनचम् 'वारि' इत्यत्र नुमागमः न क्रियते । 2. इक्-वर्णान्त-नपुंसकलिङ्गशब्दानां विषये अयमेव नुमागमः विप्रतिषेधेन <<इकोऽचि विभक्तौ>> 7.1.73 इत्यनेन भवति, वर्तमानसूत्रेण न । 3. उगित्-शब्दानां विषये <<उगिदचां सर्वनामस्थानेऽधातोः>> 7.1.70 इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन वर्तमानसूत्रेणैव नुमागमः क्रियते । प्रश्नः - <<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 तथा <<नपुंसकस्य झलचः>> 7.1.72 एतयोर्मध्ये विप्रतिषेधः कथं सिद्ध्यति ? उत्तरम् - 'भवन्तौ', 'पठन्तः', 'अङ्', 'यावान्' - एतेषु शब्देषु <<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इत्यस्य प्रसक्तिः अस्ति परन्तु <<नपुंसकस्य झलचः>> 7.1.72 इत्यस्य प्रसक्तिः न विद्यते । 'फलानि', 'जगन्ति', 'पयांसि' - एतेषु शब्देषु <<नपुंसकस्य झलचः>> 7.1.72 इत्यस्य प्रसक्तिः विद्यते, परन्तु <<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इत्यस्य प्रसक्तिः न विद्यते । 'यावन्ति' (= यावत् शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्), 'पठन्ति' (= 'पठत्' शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्) इत्यत्र द्वयोः अपि सूत्रयोः प्रसक्तिः अस्ति । अनेन प्रकारेण अत्र विप्रतिषेधः सिद्ध्यति । (यत्र द्वौ प्रसङ्गौ अन्यार्थौव एकस्मिन् युगपत् प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः - इति काशिका) । अतश्च अत्र <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इत्यनेन <<नपुंसकस्य झलचः>> 7.1.72 इत्यस्य प्रयोगः भवति । शास्त्रविशेषः - 'गो' उपपदपूर्वकः यः अञ्च् (पूजायाम्) धातुः, तस्मात् <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> 3.2.59 इत्यनेन क्विन्-प्रत्ययं कृत्वा 'गवाञ्च्' इति चकारान्तं नपुंसकलिङ्गं प्रातिपदिकम् सिद्ध्यति । तस्य प्रथमैकवचनस्य द्वितीयैकवचनस्य च रूपम् 'गवाञ्ञ्चि' इति भवति, न हि 'गवाञ्चि' इति । प्रक्रिया एतादृशी - गवाञ्च् + जस् / शस् → गवाञ्च् + शि [<<जश्शसोः शि>> 7.1.20 इति शि-आदेशः । <<शि सर्वनामस्थानम्>> 1.1.42 इति सर्वनामस्थानसंज्ञा ।] → गवाञ्च् + इ [इत्संज्ञालोपः] → गवान् ञ्च् + इ [<<नपुंसकस्य झलचः>> 7.1.72 इत्यनेन नुमागमः] → गवाञ्ञ्चि [<<स्तोः श्चुना श्चुः>> 8.4.40 इति श्चुत्वम्] परन्तु केचन वैयाकरणाः अत्र 'गवाञ्चि' इति एक-ञकारयुक्तं रूपमेव साधु मन्यन्ते । अस्मिन् विषये भाष्यकारः ब्रूते - 'न व्यञ्जनपरस्य एकस्य वा अनेकस्य वा श्रवणं प्रति विशेषः अस्ति' । इत्युक्ते, एक-ञकारेण यथा उच्चारणं भवति तथैव अनेक-ञकारैः सह भवति, अतः 'गवाञ्ञ्चि' इत्यस्य उच्चारणमपि 'गवाञ्चि' इत्यनेन समानमेव स्यात् । परन्तु केचन पण्डिताः एतं पक्षं नैव स्वीकुर्वन्ति । तेषां कृते भाष्यकारः अग्रे वदति - 'अचः इत्येषा पञ्चमी, अचः उत्तरः यः झल्, तदन्तस्य नपुंसकस्य नुमा भवितव्यम्' । इत्युक्ते, यदि 'गवाञ्चि' इत्येव रूपं साधनीयमस्ति, तर्हि अस्मिन् सूत्रे 'अचः' इति पञ्चमी स्वीकर्तव्या, येन 'यस्मिन् नपुंसकलिङ्गशब्दे अन्तिमः झल्-वर्णः अच्-वर्णात् परः विद्यते, तस्यैव नुमागमः भवेत्' इति अर्थः जायते । अस्यां स्थितौ 'गवाञ्च्' इत्यत्र नुमागमः नैव भवेत्, यतः अन्तिमः चकारः अच्-वर्णात् परः नास्ति अपितु ञकारात् परः अस्ति । अनेन चिन्तनेन 'गवाञ्चि' इति साधु रूपं तु अवश्यं सिद्ध्यति, परन्तु अग्रे केचन अन्ये अधिकाः दोषाः जायन्ते । अतः अस्य पक्षस्य समर्थनमन्यैः व्याख्यानैः अपि न क्रियते । अस्मिन् विषये अधिकं पिपठिषवः अस्य सूत्रस्य भाष्यमेव पश्यन्तु । स्मर्तव्यम् - 'गो' उपपदपूर्वकः यः अञ्च् (गतौ) धातुः, तस्मात् क्विन्-प्रत्ययं कृत्वा तु गवाच् ' इति चकारान्तं नपुंसकलिङ्गं प्रातिपदिकम् सिद्ध्यति, अतः तस्य विषये वर्तमानसूत्रेण नुमागमः अवश्यं भवति । उपरि निर्दिष्टं चिन्तनम् केवलम् 'अञ्च् पूजायाम्' इत्यस्य विषये अस्ति, न हि 'अञ्च् गतौ' इत्यस्य विषये ।
<<नपुंसकस्य झलचः>> - नपुंसकस्य । झल्व अच्चेति समाहारद्वन्द्वः । तेन च अङ्गस्येत्यधिकृतं विशेष्यते । तदन्तविधिः ।इदितो नु॑मित्यतो नुमित्यनुवर्तते । तदाह — झलन्तस्येत्यादिना । मित्त्वादन्त्यादचः परः । उपधादीर्घ इति । ज्ञानन् इ इति स्थितेसर्वनामस्थाने चे॑ति दीर्घ इत्यर्थः । पुनस्तद्वदिति । अमौट्शस्सु ज्ञानं ज्ञाने ज्ञानानि इति क्रमेण रूपाणीत्यर्थः । शेषं रामवदिति । शिष्यत इति शेषम् । कर्मणि घञ् ।घञजबन्ताः पुंसी॑ति तु प्रायिकमिति भावः ।
त्रपूणीति । यद्यप्यत्र इकोऽचि विभक्तौ इत्येव नुम्सिद्धः, तथापि अचः, इति प्रत्याहारग्रहणस्यानन्यार्थत्वादनेनैव नुम् भवति । कः पुनरत्र विशेषः - तेन वा नुमि सति, अनेन वा न तु कश्चिद्विशेषः, भ्यायस्तु प्रदर्शितः । यद्येवम्, मा कारि प्रत्याहारग्रहणम्, अकार एव गृह्यताम् - झलत इति कः पुनरेवं लाघवे विशेषः । किञ्चाक्ष प्रत्याहारग्रहणात् उगिदजाम् इत्यत्र अञ्चतेर्ग्रहणम्, न प्रत्याहारस्य इत्युक्तम्, तदपि विघटितं स्यात् । बहुपुरीति । बहवः पुरो येषामिति बहुव्रीहौ ऋक्पूर्ब्धूः पथामानक्षे इत्यकारः समासान्तः प्राप्तः, समासान्तविधेरनित्यत्वान्न भवति । विमलाद्यौर्येषु तानि विमलदिवि दिनानि । इह झल्लक्षणस्य नुमोऽवकाशो यदुगिदनुपंसकम् - सर्पीषि, धनूषि, तौगिल्लक्षणस्वावकाशो यदनुगिन्नपुंसकम् - गोमान् , यवमान्, उगितो झलन्तस्य नपुंकस्योभयप्रसङ्गे परत्वादनेनैव नुम् भवति । अस्तु, कृते पुनः प्रसङ्गविज्ञानादुगिल्लक्षणोऽपि नुम् प्राप्नोति, कथं पुनरेकमन्त्यमचमपेक्ष्यानेकस्य परत्वं सम्भवति मा नाम सम्भूत्प्रयोगे, विधानकाले तु सम्भवति, यथा पचतीति लटः शपश्च तत्र तुदन्ती, नुदन्तीत्यत्र परस्थ नकारस्यानुस्वारपरसवर्णयोः कृतयोर्द्वयोर्नकारयोः श्रवणं प्रति विशेषोऽस्ति । इह तर्हि - कृषन्ति, रुपन्तीत्यत्र परस्य नुमोऽनुस्वारपरसवर्णयोः कृतयोः पूर्वस्याझल्परत्वादनुस्वारपसवर्णौ न स्त इति अट्कुप्वाङ्नुम्व्यवायेऽपि इति णत्वं प्राप्नोति, यदा पुनरेको नुम् तदा तस्यानुस्वारश्च प्राप्नोति णत्वं च, तत्र णत्वस्यासिद्धत्वादनुस्वारे कृते परसवर्णः, तस्यासिध्दत्वाण्णत्वाभावः सिद्धः, तस्मादुगिल्लक्षणस्य प्रतिषेधो वक्तव्यः इत्याशङ्क्याह - उगितो झलन्तस्येति । सकृद्गतिन्यायोऽत्राश्रीयत इत्येवकारेण दर्शयतिः अनेनैवेति । अन्त्यात्पूर्व इति । रेफजकारयोर्मध्य इत्यर्थः ॥