7-2-84 अष्टनः आः विभक्तौ
index: 7.2.84 sutra: अष्टन आ विभक्तौ
अष्टनः अङ्गस्य विभक्तौ आ
index: 7.2.84 sutra: अष्टन आ विभक्तौ
अष्टन्-शब्दस्य हलादौ विभक्तिप्रत्यये परे विकल्पेन आकारादेशः भवति ।
index: 7.2.84 sutra: अष्टन आ विभक्तौ
The word अष्टन् gets an optional आकारादेश when followed by a हलादि विभक्तिप्रत्यय.
index: 7.2.84 sutra: अष्टन आ विभक्तौ
अष्टनो विभक्तौ परतः आकारादेशो भवति। अष्टाभिः। अष्टाभ्यः। अष्टानाम्। अष्टासु। विभक्तौ इति किम्? अष्टत्वम्। अष्टता। आ इति व्यक्तिनिर्देशोऽयम्। आकृतिनिर्देशे तु नकारस्थनेऽनुनासिकाकारः स्यात्। विकल्पेन अयमाकारो भवति, एतज् ज्ञापितमष्टनो दीर्घात् 6.1.172 इति दीर्घग्रहणात्, अष्टाभ्य औश् 7.1.21 इति च कृतात्वस्य निर्देशात्। तेन अष्टभिः, अष्टभ्यः इत्यपि भवति। तदन्तविधिश्च अत्र इष्यते। प्रियाः अष्टौ येषाम् ते प्रियाष्टानः। प्रियाष्टौ।
index: 7.2.84 sutra: अष्टन आ विभक्तौ
अष्टन आत्वं स्याद्धलादौ विभक्तौ ॥
index: 7.2.84 sutra: अष्टन आ विभक्तौ
हलादौ वा स्यात्॥
index: 7.2.84 sutra: अष्टन आ विभक्तौ
'अष्टन्' इति नकारान्तः सङ्ख्यावाची शब्दः । अस्य शब्दस्य हलादि-विभक्तिप्रत्यये परे विकल्पेन आकारादेशः भवति ।
यथा - अष्टन् + भिस् → अष्टाभिः [अष्टन आ विभक्तौ इत्यनेन नकारस्य वैकल्पिकः आकारादेशः ]
आकारादेशस्य अभावे नकारस्य नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन लोपं कृत्वा 'अष्टभिः' एतत् रूपमपि सिद्ध्यति ।
यस्मिन् समस्तपदे अष्टन्-शब्दः आगच्छति, तस्य शब्दस्यापि अनेन सूत्रेण वैकल्पिकः अकारादेशः भवति । यथा, 'अष्ट प्रियाः यस्य सः' अस्मिन् अर्थे प्रियाष्टन्' इति प्रातिपदिकम् सिद्ध्यति । अस्यापि तृतीयाबहुवचनस्य रूपद्वयं भवति - प्रियाष्टाभिः, प्रियाष्टभिः ।
ज्ञातव्यम् -
अस्मिन् सूत्रे 'हलि' इति पदम् रायो हलि 7.2.85 इति अग्रिमसूत्रात् 'अपकर्षते' ।
यद्यपि अस्मिन् सूत्रे 'वा' इत्यस्य अनुवृत्तिः नास्ति, तथापि आचार्येण स्वयम् अष्टनो दीर्घात् 6.1.172 अस्मिन् सूत्रे 'दीर्घ-आदेशकृत-अष्टन-शब्दात् परा असर्वनामस्थाना विभक्तिः उदात्ता भवति' इति उक्तमस्ति । एतत् अस्यैव ज्ञापकम् यत् दीर्घग्रहणम् वैकल्पिकम् स्यात्, न हि नित्यम् । अतः अनेन सूत्रेण निर्दिष्टः दीर्घादेशः विकल्पेन भवति ।
अस्मिन् सूत्रे 'आ' इति निरनुनासिक-आकारस्य निर्देशः कृतः अस्ति । अत्र सवर्णग्रहणं न भवति, अतः यद्यपि अयमादेशः नकारस्य स्थाने भवति, तथापि अननुनासिक-आकारः एव विसर्गरूपेण आगच्छति ।
अनेन सूत्रेण अष्टन्-शब्दात् अजादौ विभक्तौ परे आत्वं न विधीयते । यथा - अष्टन् + आम् → अष्टानाम् । इत्यत्र नोपधायाः 6.4.7 इत्यनेन अङ्गस्य उपधा-आकारस्य दीर्घे कृते रूपं सिद्ध्यति ।
index: 7.2.84 sutra: अष्टन आ विभक्तौ
अष्टन आ विभक्तौ - तस्य विशेषमाह — अष्टन आ विभक्तौ ।रायो हली॑त्यो हलीत्यपकृष्यते । तच्च विभक्तेर्विशेषणं, तदादिविधिः । तदाह — अष्टन आत्वमित्यादिना । ग्रहणकसूत्रेऽग्रहणेन वार्णसमाम्नायिकानामेव ग्रहणादाकारस्याऽनण्त्वाद्भाव्यमानत्वाच्च शुद्ध एव नकारस्य आकारः ।
index: 7.2.84 sutra: अष्टन आ विभक्तौ
सौत्रत्वान्निर्द्देशस्य अल्लोपो न कृतः । व्यक्तिनिर्देशोऽयमिति । यथाश्रुतनिरनुनासिकाकारव्यक्तिर्निर्द्दिश्यत इत्यर्थः । जातिनिर्देशस्तु दुष्ट इत्याह - आकृतिनिर्देशो त्विति । आकृतिर्जातिः, न संस्थानम् । जातिनिर्द्देशे हि शुद्धाया जातेरादेष्टुअशमक्यत्वातदाधारभूतानां व्यक्तीनां विधानम् । तत्र यद्यपि दीर्घोच्चारणसामर्थ्यान्न ह्रस्वप्लुतव्यक्तीनां प्रसङ्गः, दीर्घव्यक्तयस्तु सर्वाः प्रसक्ताः, तत्रान्तर्यतोऽनुनासिकव्यक्तिरेव स्यात्, तस्याः पूर्वेण सह सवर्मदीर्घोऽप्यनुनासिक एव स्यात् । विकल्पेन चायमित्यादि । यथा च दीर्घग्रहणं कृतात्वनिर्द्देशश्चास्मिन्नर्थे लिङ्गं तथा तत्रैव व्याख्यातम् । तदन्तविधिश्चात्रेष्यत इति । अङ्गाधिकारे तस्य तदुतरपदस्य चेति वचनात् । एकवचननिर्देशात्स्वरूपस्य ग्रहणं नार्थस्य तेनोपसर्जनेऽप्यष्टनि भवति, तत्रापि विकल्पितत्वात्प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टान इत्यपि भवति । तत्रापि भसंज्ञाविषये आत्वपत्रे आतो धातोः इत्यकारलोपमिच्छन्ति - प्रियाष्टः पश्येत्यादि, आत्वाभावपक्षे त्वल्लोपे ष्टुअत्वम् - प्रियाष्ट्न इत्यादि भवति ॥