यजयाचयतविच्छप्रच्छरक्षो नङ्

3-3-90 यजयाचयतविच्छप्रच्छरक्षः नङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भावेऽकर्तरि च कारक इति वर्तते। यजादिभ्यो धातुभ्यो नङ् प्रत्ययो भवति। ङकारो गुणप्रतिषेधार्थः। यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः। प्रच्छेरसंप्रसारणं ज्ञापकात् <<प्रश्ने चासन्नकाले>> ३.२.११७ इति॥

Siddhanta Kaumudi

Up

यज्ञः । याच्ञा । यत्नः । विश्नः । प्रश्नः । प्रश्नेचासन्नकाले <{SK2777}> इति ज्ञापकान्न सम्प्रसारणम् । ङित्वं तु विश्न इत्यत्र गुणनिषेधाय । रक्ष्णः ॥

Laghu Siddhanta Kaumudi

Up

यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

नङे ङ्कारो विच्छेर्गुणप्रतिषेधार्थः, अन्यथान्तरङ्गत्वातुकि'चछवोः शूडनुनासिके च' इति सतुक्कस्य च्छस्यादेशे कृते लघूपधत्वाद् गुणः स्यात् । नङ्न्ताः सर्वे पुंल्लिङ्गाः । याचिस्तु स्त्रीलिङ्गः । वासरूपविधिश्च यथाभिधानं भवति । प्रश्न इति । अत्र ग्रहिज्यादिसूत्रेण सम्प्रसारणं कस्मान्न भवतीत्याह - प्रच्छेरिति ॥