क्रमश्च क्त्वि

6-4-18 क्रमः च क्त्वि न उपधायाः क्वि झलोः क्ङिति विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

क्रम्-धातोः झलादि-क्त्वा-प्रत्यये परे विकल्पेन उपधादीर्घः भवति ।

Neelesh English Brief

Up

The उपधा letter of the verb-root 'क्रम्' undergoes an optional दीर्घादेश when followed by a झलादि क्त्वा प्रत्यय.

Kashika

Up

क्रम उपधाया विभाषा दीर्घो भवति क्त्वाप्रत्यये झलादौ परतः। क्रन्त्वा, क्रान्त्वा। झलीत्येव — क्रमित्वा। प्रक्रम्य, उपक्रम्येति <<बहिरङ्गोऽपि ल्यबादेशोऽन्तरङ्गानपि विधीन् बाधते>> इति पूर्वमेव दीर्घत्वं न प्रवर्तते॥

Siddhanta Kaumudi

Up

क्रम उपधाया वा दीर्घः स्यात् झलादौ क्त्वि परे । क्रान्त्वा । क्रन्त्वा । झलि किम् । क्रमित्वा । पूङश्च <{SK3050}> इति वेट् । पवित्वा । पूत्वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

क्रमुँ (पादविक्षेपे, भ्वादिः, <{1.545}>) अस्य धातोः क्त्वा-प्रत्यये परे इडागमस्य अनुपस्थितौ विकल्पेन उपधादीर्घः भवति । क्रमुँ (पादविक्षेपे, भ्वादिः, <{1.545}>) --> क्रम् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> 3.4.21 इति क्त्वाप्रत्ययः] --> क्रम् + त्वा [<<उदितो वा>> 7.2.56 इति विकल्पेन इडागमस्य अप्राप्तिः] --> क्राम् / क्रम् + त्वा [<<क्रमश्च क्त्वि>> 6.4.18 इति पाक्षिकः उपधादीर्घः] --> क्रांत्वा / क्रंत्वा [अपदान्तमकारस्य <<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] --> क्रान्त्वा / क्रन्त्वा [अनुस्वारस्य <<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः नकारः] यदि क्रम्-धातोः विहितस्य क्त्वा-प्रत्ययस्य <<उदितो वा>> 7.2.56 इति विकल्पेन इडागमः भवति, तर्हि इदं सूत्रं नैव प्रवर्तते - क्रमुँ (पादविक्षेपे, भ्वादिः, <{1.545}>) --> क्रम् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> 3.4.21 इति क्त्वाप्रत्ययः] --> क्रम् + इट् + त्वा [<<उदितो वा>> 7.2.56 इति विकल्पेन इडागमस्य प्राप्तिः] --> क्रमित्वा बाध्यबाधकभावः यत्र क्त्वा-प्रत्ययस्य ल्यप्-आदेशः इष्यते, तत्र सः प्रक्रियायाः प्रारम्भे एव भवति । तथा क्रियते चेत् अग्रे प्रक्रियायाम् इदं सूत्रं नैव प्रवर्तते यतः ल्यप्-प्रत्ययः झलादिः नास्ति । क्रमुँ (पादविक्षेपे, भ्वादिः, <{1.545}>) --> प्र + क्रम् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> 3.4.21 इति क्त्वाप्रत्ययः] --> प्र + क्रम् + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> 7.1.37 इति ल्यबादेशः] --> प्रक्रम्य

Balamanorama

Up

Padamanjari

Up

अनुनासिकस्य क्विझलोः क्ङितीति नित्यस्य दीर्घस्यापवादोऽयं विकल्पः । उपधाया इति । यद्यप्युपधाग्रहणं पूर्वमेव निवृतम्, तथापि अचश्च इत्युपस्थानाद्, अन्यस्य चाचोऽसम्भावदेवमुक्तम् । क्रमित्वेति । उदितो वा इति पक्षे इट् । बहिरङ्गोऽपि ल्यबादेश इति । एतच्च अदो अग्धिर्ल्यप्ति किति इत्यत्र ल्यब्ग्रहणेन ज्ञापितम् ॥