पूङ्यजोः शानन्

3-2-128 पूङ्यजोः शानन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूङो यजेश्च धातोः शानन् प्रत्ययो भवति। पवमानः। यजमानः। यदि प्रत्ययाः शानन्नादयो न लादेशाः, कथं सोमं पवमानः, नडमाघ्नान इति षष्ठीप्रतिषेधः? तृन्निति प्रत्याहारनिर्देशात्। क्व संनिविष्टानां प्रत्याहारः? <<लटः शतृ०>> ३.२.१२४ इत्यतः प्रभृति आ तृनो ३.२.१३५ नकारात्। <<द्विषः शतुर्वावचनम्>> (२.३.६९ वा०)। चौरस्य द्विषन्। चौरं द्विषन्॥

Siddhanta Kaumudi

Up

वर्तमाने । पवमानः । यजमानः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पूङ्यजोः शानन्>> - पूङ्यजोः शानन् । पञ्चम्यर्थे षष्ठी । वर्तमाने इति । शेषपूरणमिदम् ।वर्तमाने ल॑डित्यतस्तदनुवृत्तेरिति भावः । लड्ग्रहणं तु निवृत्तम् । ततश्च ण्वुलादिवत्स्वतन्त्रोऽयं , न तु शत्रादिवल्लादेशः । तथा च कर्तर्येवायं, न तु भावकर्मणोः । न च लादेशत्वाऽबावेसोमं पवमानट इत्यत्र कर्मणि षष्ठी स्यादिति वाच्यं,न लोके॑ति सूत्रे 'तृन्' इति प्रत्याहार इत्युक्तत्वात् ।

Padamanjari

Up

पूङ्यजोः शानन्॥ इहैते शानन्नादयो यदि लटोऽनुवृत्तिमाश्रित्य तस्यैवादेशाः क्रियेरन्, वेति वक्तव्यम्, पवमानः यजमानः, पवते यजत इत्यपि यथा स्यात्, वाऽसरूपविधिना तिङे बविष्यन्ति, न लादेशेषु वाऽसरूपविधिरस्तीत्युक्तम्। साधनाभिधानम् - साधनस्य चाभिधानं प्राप्नोति'लः कर्मणि च भावे चाकर्मकेभ्यः' इति भावकर्मणोरपि प्रसङ्गः। परस्स्वरश्च न सिद्ध्यति - कतीह पवमानाः, ठदुपदेशाल्लसार्वधातुकम्ऽ इत्यनुदातत्वं प्राप्नोति। आत्मनेपदसंज्ञा -'तङनावात्मनेपदम्' इत्यात्मनेपदसंज्ञा च प्राप्नोति, ततश्च परस्मैपदिभ्यश्चानश् न स्यात्कतीह नन्दमानाः। तस्मादशक्या एवैते लादेशा विज्ञातुमिति मत्वाह - शानन्प्रत्ययो भवतीति। शकारस्सार्वधातुकसंज्ञार्थः, नकारस्स्वरार्थः। यदीत्यादि।'न लोकाव्यय' इत्यत्र स्वरूपस्य ग्रहणं मन्यमानस्य प्रश्नः। तृन्निति प्रत्याहारनिर्देशादिति। षष्ठीप्रतिषेध इत्यनुषङ्गः। द्विषश्शतुर्वा वचनमिति।'द्विषो' मित्रेऽ इति योऽयं शतृप्रत्ययस्तस्य प्रयोगे वा षष्ठी भवति, प्रत्याहारेऽन्तर्भावान्नित्यं प्रतिषेधे प्राप्ते वचनम्। यस्यापि तन्निति स्वरूपग्रहणं तेनाप्येतद्वक्तव्यम् - पक्षे षष्ठी यथा स्यान्नित्यं मा भूदिति। शेषविज्ञानात्सिद्धम्, कर्मणि शेषत्वेन विवक्षिते षष्ठी, कर्मरूपेण विवक्षिते द्वितीयेति॥