शात्

8-4-44 शात् पूर्वत्र असिद्धम् संहितायाम् श्चुः ष्टुः तोः

Sampurna sutra

Up

शात् तोः श्चुः न

Neelesh Sanskrit Brief

Up

शकारात् परस्य तवर्गीयवर्णस्य श्चुत्वम् न भवति ।

Neelesh English Brief

Up

A तवर्गीय letter following a शकार does not undergo श्चुत्वम्.

Kashika

Up

तोरिति वर्तते। शकारादुत्तरस्य तवर्गस्य यदुक्तं तद् न भवति। प्रश्नः। विश्नः॥

Siddhanta Kaumudi

Up

शात्परस्य तवर्गस्य श्चुत्वं न स्यात् । विश्नः । प्रश्नः ॥

Laghu Siddhanta Kaumudi

Up

शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥

Neelesh Sanskrit Detailed

Up

शकारात् परः विद्यमानस्य तवर्गीयवर्णस्य <<स्तोः श्चुना श्चुः>> 8.4.41 इत्यनेन प्राप्तम् श्चुत्वम् न भवति — इति प्रकृतसूत्रस्य आशयः । वस्तुतस्तु पदान्तशकारस्य <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इति षत्वं भवति । अपदान्तशकारस्य अपि झलि परे (अतः तकारथकारदकारधकारेषु परेषु) <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इत्यनेनैव षत्वम् एव विधीयते । अतः अत्र केवलम् अपदान्तशकारस्य नकारे परे ष्टुत्वनिषेधस्य उदाहरणानि विद्यन्ते । यथा — 1. (प्रछँ (ज्ञीप्सायाम्) धातोः प्रश्न इति रूपस्य सिद्धौ प्रकृतसूत्रेण श्चुत्वस्य निषेधः भवति — प्रछँ (ज्ञीप्सायाम्, तुदादिः <{6.0149}>) → प्रछ् + नङ् [<<यजयाचयतविच्छप्रच्छरक्षो नङ्>> 3.3.90 इति नङ्-प्रत्ययः] → प्र तुक् छ् + नङ् [<<छे च>> 6.1.73 इति तुगागमः] → प्र श् + न [<<च्छ्वोः शूडनुनासिके च>> 6.4.19 इति त्छ्-इत्यस्य नकारादेशः] → प्रश्न [<<श्चुना श्चुः>> 8.4.40 इति श्चुत्वे प्राप्ते <<शात्>> 8.4.44 इति निषेधः ] एवमेव 'विच्छ् + नङ् = विश्न' इत्यपि रूपं सिद्ध्यति । 2. अश् (भोजने) धातोः श्ना-विकरणप्रत्यये परे प्रकृतसूत्रेण श्चुत्वस्य निषेधः भवति — अश् (भोजने, क्र्यादिः, <{9.59}>) → अश् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → अश् + तिप् [<<तिप्तस्झि..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → अश् + श्ना + ति [<<क्र्यादिभ्यः श्ना>> 3.1.81 इति श्नाप्रत्ययः] → अश्नाति [<<स्तोः श्चुना श्चुः>> 8.4.40 इत्यनेेन शकारात् परस्य नकारस्य श्चुत्वे प्राप्ते <<शात्>> 8.4.44 इति तत् निषिध्यते ।]

Balamanorama

Up

<<शात्>> - शात् । न पदान्तादिति पूर्वसूत्रात्ने॑त्यनुवर्तते ।स्तोःश्चुना श्चु॑रित्यतःतो॑रिति ,चु॑रिति चानुवर्तते । नतु सकारः शकारश्च ।शा॑दिति दिग्योगे पञ्चमी,परस्ये॑त्यध्याहार्यन्तदाह — शात्परस्येत्यादिना । विश्न इति । विच्छ गतौ ।यजयाचयतविच्छप्रच्छरक्षो नङ् इति नङ् । छ्वोःशूठ् इति छस्य शः । ङित्त्वान्न गुणः । अत्र शकारयोगात्तवर्गीयनकारस्य श्चुत्वेन ञकारे प्राप्ते निषेधः । पूर्वसूत्रे 'श्चुना योगे' इत्यत्रापि यथासङ्शख्याश्रयणे तु इह तवक्दीयस्य नकारस्य चुना योगाभावेन चुत्वस्याप्रसक्ततया तन्निषेधो व्यर्थः स्यात् । एवंचाऽस्मादेव निषेधात्पूर्वसूत्रे श्चुना योगे इत्यत्र न यथासंख्याश्रयणमिति विज्ञायते । प्रश्न इति ।प्रच्छ ज्ञीप्सायाम् । पूर्वन्नङादि । अत्रग्राहिज्ये॑ति संप्रसारणं न,प्रश्ने चासन्नकाले॑ इत्यादिनिर्देशात् । अत्र वर्गपञ्चमानां नासिकास्थानाधिक्ये ।ञपि तत्तद्वर्गीयैरस्ति सावण्र्यमिति तुल्यास्यसूत्रेऽवोचाम ।

Padamanjari

Up

प्रश्नः, विश्न इति ।'यजयाच' इत्यादिना नङ्,'च्छवोः शूडनुनासिके च' इति च्छकारस्य शकारः ।'सर्वे विधयश्च्छन्दसि विकल्प्यन्ते' इति तैतिरीयके नायं प्रतिषेधो भवति - अयोऽश्ञाति । तत्रापि काठके भवत्येव - ब्रह्मचारिणे प्रश्नान् प्रोच्य प्रजिघाय । स्वाध्यायब्राह्मणे च भवतीति सकलं भद्रमश्नुते ॥