3-2-117 प्रश्ने च आस्न्नकाले प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने परोक्षे लिट्
भूतानद्यतनपरोक्ष इति वर्तते। तस्य विशेषणमेतत्। प्रष्टव्यः प्रश्नः। आसन्नकाले पृच्छ्यमाने भूतानद्यतनपरोक्षेऽर्थे वर्तमानाद् धातोर्लङ्लिटौ प्रत्ययौ भवतः। कश्चित् कञ्चित् पृच्छति। अगच्छद् देवदत्तः? जगाम देवदत्तः? अयजद् देवदत्तः? इयाज देवदत्तः? प्रश्न इति किम्? जगाम देवदत्तः। आसन्नकाल इति किम्? भवन्तं पृच्छामि, जघान कंसं किल वासुदेवः?॥
प्रष्टव्यः प्रश्नः । आसन्नकाले पृच्छ्यमानेऽर्थे लिड्विषये लङ्लिटौ स्तः ॥ अगच्छत्किम् । जगाम किम् । अनासन्ने तु कंसं जघान किम् ॥
<<प्रश्ने चासन्नकाले>> - प्रश्ने चासन्नकाले ।प्रश्ने इत्यनेन प्रश्नविषयो विवक्षित इत्याह — प्रष्टव्यः प्रश्न इति । अर्थे इत्यन्तरंवर्तमानाद्धातो॑रिति शेषः । प्रयोक्तृदृष्टिपथातिक्रान्तत्वमनासन्न्कालत्वम् । वृत्तौ तु पञ्चवर्षातीतकालोऽनासन्नकाल इत्युक्तम् ।
प्रश्ने चासन्नकाले॥ भूतानद्यतनपरोक्ष इति वर्तत इति। अयमर्थोऽनुवर्तत इत्यर्थः,न पुनरेवंविधस्समासः प्रकृतोऽस्ति। प्रष्टव्यः प्रश्न इति। कर्मसाधनं प्रश्नशब्दं दर्शयति। करणसाधने तु प्रश्नक्रियासाधनभूते धातावासन्नकाल इत्यर्थस्स्यात्, तत्रासन्नकाल इत्यनर्थकम्, न ह्यनुच्चारितात्प्रत्ययविधानम्, उच्चारितश्चासन्नकाल एव। भावसाधनेऽप्यासन्नकाले प्रश्रे वर्तमानादित्यर्थस्स्यात्, ततश्चार्थान्तरवाचिभ्यो लङ् न स्यात्, अतः कर्मसाधनोऽयं प्रश्रशब्दः। तत्र पञ्चवर्षाभ्यन्तरमासन्नकालम्, पञ्चवर्षातीतं तु विप्रकृष्टकालमिति वर्णयन्ति॥